शहडोलमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

शहडोलमण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य शहडोलविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति शहडोल इति नगरम् ।

भौगोलिकम्

शहडोलमण्डलस्य विस्तारः ६,२०५ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे छत्तीसगढराज्यं, पश्चिमे उमरियामण्डलम्, उत्तरे सतनामण्डलं, दक्षिणे अनूपपुरमण्डलम् अस्ति । अस्मिन् मण्डले सोननदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं शहडोलमण्डलस्य जनसङ्ख्या १०,६६,०६३ अस्ति । अत्र ५,४०,०२१ पुरुषाः, ५,२६,०४२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ६६.६७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७४ अस्ति । अत्र साक्षरता ६६.६७% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि- जयसिंहनगर, ब्यौहरी, सोहागपुर ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले अङ्गारः, श्वेतशैलाः उत्पद्यन्ते ।

वीक्षणीयस्थलानि

विराटेश्वर-मन्दिरम्

विराटेश्वर-मन्दिरं सोहागपुर-ग्रामे स्थितम् अस्ति । अस्मिन् मन्दिरे भगवतः शिवस्य भव्यं लिङ्गमस्ति । अस्य मन्दिरस्य निर्माणं राज्ञा युवराजदेवेन ई. ९५० तः १०५० पर्यन्तं कारितम् । अस्य मन्दिरस्य उच्चता ७० फीट अस्ति । एतत् प्राचीनवास्तुकलायाः महत्वपूर्णोदाहरणम् अस्ति । अस्मिन् मन्दिरे अनेकानां देवानां प्रतिमाः सन्ति । यथा – महावीरः, शिवः, पार्वती, सरस्वती, गणेशः, विष्णुः, नरसिंहः इत्यादयः । फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://shahdol.nic.in/
http://www.census2011.co.in/census/district/327-shahdol.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=शहडोलमण्डलम्&oldid=297" इत्यस्माद् प्रतिप्राप्तम्