शरणदेवः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


शरणदेवः एकः संस्कृतस्य वैय्याकरणः वर्त्तते । एतेन दुर्घटवृत्तिः इत्याख्यः ग्रन्थः लिखितः । येषां शब्दानां पाणिनीयव्याकरणरीत्या साधुत्वं कल्पयितुं न शक्यते तादृशानां शब्दानाम् अत्र साधुत्वं प्रदर्शितम् । तदपि शास्त्रीयशैल्या निरूपितवान् । अपि च कानिचन पदानि असाधुरूपाणि इति उक्तवान् । एषह् स्वीये ग्रन्थे अदौ मङ्गलश्लोके सर्वज्ञबुद्धम् अभिवन्दितवान् । अपि च तत्र तत्र बौद्धग्रन्थानां प्रयोगाः प्रदर्शितवान् । एषह् बौद्धपन्थीयः आसीत् । एतस्य कालांशः क्रिस्तशाक ११७४ । एतेन लिखितः ग्रन्थः सर्वरक्षितेन पुनः समीकृतमिति स्वयम् उल्लिखितवान् ।

"https://sa.bharatpedia.org/index.php?title=शरणदेवः&oldid=3000" इत्यस्माद् प्रतिप्राप्तम्