शनिदेवः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox deity

शनिदेवः

ज्योतिष्यशास्त्रे उत यज्योतिष्यदर्शने नवग्रहेषु शनिग्रहम् अन्यतमः। शनिग्रहे शनिः सशरीरः। शनिवासरस्य देवः शनिः। भारतीय भषासु शनिः वासरस्य सप्तमाधिपतिः ।

शनिशब्दस्य व्युत्पत्तिः

- शनिशब्दस्य व्युत्पत्तिः एवम् अस्ति- शनये क्रमतिः सः अर्थात् कः शनैः चलति सः इति।शनिग्रहं सूर्यस्य एकाम् आवृत्तिं कर्तुं विंशतिः वर्षाणि स्वीकरोति।

-सनीश्वरः,शनिं शनैश्वरः,शनिभगवान्,शनीश्वरः,शनीश्वरः,शनिदेवः इत्यदिभिः नामभिः आकारयन्ति ।

-शानिदेवः सूर्यदेवस्य पुत्रः, तथैव सूर्यस्य पत्नी छाया.(निडस्य देवता) अतः "छायापुत्रः" इत्यपि आह्वयन्ति।

- हैन्दवानां मृत्युदेवः यमः, तस्य जेष्ठः सहोदरः शनिः। ग्रन्थनुसारं न्यायदापकः देवः एषः।

-आश्चर्यकरः विषयः इत्युक्ते, सूर्यस्य पुत्रद्वयं शनियमश्च। एतौ द्वौ अपि न्यायदेवौ एव।शनिःसूक्तरीत्या दण्डम् अथवा वरं जीवनावधौ ददाति, किन्तु यमः, एकस्याहः मरणानन्तरं फलितांशं ददाति।

ज्ञातः विषयो नाम, शनिदेवः बाल्यावस्थायाम् आसीत् तदा सूर्यग्रहणसमये उद्घाटिताभ्यां नेत्राभ्यां प्रथमवारं दृष्ठवान् इत्यतः तस्य शनिदेवस्य प्रभावः कीदृशः इति  ज्योतिष्यशास्त्रतः ज्ञतुं शक्यते। एषः उत्तमः उपाध्यायः। शनिदेवः कः दुर्मार्ग- वञ्चनामार्गे चलन्ति तेभ्यः बहुकष्टं ददाति। हिन्दूग्रन्थानुसारं शनिः कष्टप्रदायकः तथैव शिष्टरक्षकश्च अस्ति।

-एतस्य वर्णः श्यामः,श्यामवस्त्रधारी, हस्ते लवित्रधारी, बाणेन तथैव चूरिकाद्वयेन युक्तः सन्न कृष्णकाकस्य उपरि गच्छति|

हिन्दूधर्मग्रन्थेषु

- शनिदेवस्य जीवनवृत्तान्तं "श्रीशनिमहात्म्यम्" इत्यस्मिन् ग्रन्थे बहुभ्यः वर्षेभ्यः पूर्वमेव विवर्णं दत्तवन्तः। श्रीशनिमहात्म्यग्रन्थे तस्य पूजां कृत्वा तस्यानुग्रहः कथं सम्पादनीयः इति उक्तवन्तः। श्रीशनिमहात्म्यग्रन्थे अन्येषां ग्रहाणाम् उपयोगानां तथैव शक्तिनां विषये उक्तवन्तः। अस्मिन् विषये उज्जैनीनगरस्य महाराजः विक्रमादित्यस्य आस्थानस्थ पण्डिताः उक्तवन्तः। - कृष्णवर्णीयः, सुन्दरमुखयुक्तः, तेलि जातियः शनिदेवः। एषः कालभैरवस्य पूजकः आसीत्। - शनिदेवस्य जन्मवृत्तन्तं शृत्वा विक्रमादित्यः हसितवान्। शनिदेवः विक्रमादित्यस्य अपहास्यं दृष्त्वा शापम् अदात्।

ज्योतिष्यशास्त्रे

-वेदानां ज्योतिष्यशास्त्रानुसारं, नवग्रहेषु शनिदेवः अन्यतमः। शनिदेवः शक्तिवान् सन् कठोरवाक् उपादध्यायः आसीत्।सहनायाः,श्रमस्य,प्रयत्नस्य,अनुभवस्य प्रतीरुपः आसीत्।कण्टकं,दुरदृष्टं च आनयति। किन्तु जातकेषु एतस्य स्ठानं अनुग्रहस्थाने भवति चेत् तस्य जातकस्य व्यक्तेः जीवनं बहूत्तमं भवति। आरोग्यकरजीवनं तस्य भवति।शनिदेवः यस्य जातके उत्तमस्थाने भवति तस्यै अन्ये ग्रहाणि शनि इव उत्तमानुग्रहं न यच्छन्ति। सः एव शनिदेव दुष्टस्ठाने भवति चेत् सर्वविदानि कष्टानि अनुभवितव्यानि भवन्ति।

-शनिदेवः मकरकुम्भराशेः अधिपतिः।तुलाराशौ सबलः चेत् मेषे दुर्बलः भवति। बुध-शुक्र-राहु-केतु ग्रहाणि शनेः मित्रानणि भवन्ति। सूर्य-चन्द्र-गुरुग्रहानणि शने शत्रवः भवन्ति।

-शनिदेवस्य वर्णः कृष्णः, नीलवर्णः,लोहः,दिशा-पश्चिमा, शनेः आहाराः-कृष्णमरिचिका,सर्वेपि कृष्णवर्णीय प्राणिनः तथैव कुरुपवृक्षाः सर्वेपि शनेः सङ्केताः।

-सङ्ख्याशास्त्रानुसारम् अष्टमायां सङ्ख्यायां ये जन्मं प्राप्तवन्तः ते शनेः अधिने भवन्त। कस्मिन् वा मासे दिनाङ्क अष्टम पुनः षड्विंशति तमे दिनाङ्के जन्मं प्राप्नुवन्ति ते जीवने कष्टम् अनुभवन्ति।

-शनिं सन्तोषयितुं कः उपायः नाम स्वकृतदोषान् स्वयमेव स्वीकुर्यात्। आत्मविमर्शणं कुर्यात्। परिश्रमी स्यात्। शनिवसरे नीलवर्णवस्त्रं दानं कुर्यात्। निर्धनिकेभ्यः धनसहाय्यं कुर्यात्।

शनिदेवस्य प्रसिद्ध देवालयाः

  • तिरुनल्लर् श्रीशनेश्वरस्य देवालयः- अत्र नवग्रहेभ्यः आधरत्वेन नव देवालयाः सन्ति।
  • देवोनर् शनिदेवालयः- मुम्बैनगरे देवोनर् शनिदेवालयः अस्ति।
  • शनिशिङ्गनपुरः- एषः शनिमदेवस्य कश्चन मत्वपूर्णः देवालयः भवति। एषः महाराष्ट्रे अस्ति।
"https://sa.bharatpedia.org/index.php?title=शनिदेवः&oldid=1165" इत्यस्माद् प्रतिप्राप्तम्