शक्नोतीहैव यः सोढुं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ २३ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य त्रयोविंशतितमः(२३) श्लोकः ।

पदच्छेदः

शक्नोति इह एव यः सोढुं प्राक्शरीरविमोक्षणात् कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ २३ ॥

अन्वयः

यः इह एव शरीरविमोक्षणात् प्राक् कामक्रोधोद्भवं वेगं सोढुं शक्नोति सः नरः युक्तः, सः (एव च) सुखी ।

शब्दार्थः

यः = यः पुरुषः
इह एव = अत्र एव
शरीरविमोक्षणात् = देहत्यागात्
प्राक् = पूर्वम्
कामक्रोधोवम् = रागद्वेषजन्यम्
वेगम् = वेगसदृशं विकारम्
सोढुम् = जेतुम्
शक्नोति = समर्थो भवति
सः नरः = सः पुरुषः
युक्तः = योगी
सः (एव च) = सः पुरुषः एव च
सुखी = आनन्दी ।

अर्थः

यः इह जगति एव शरीरत्यागात् पूर्वं कामक्रोधोवं वेगं सोढुं शक्नोति सः नरः योगी । सः एव च सुखी ।

शाङ्करदर्शनम्

अयं च श्रेयोमार्गप्रतिपक्षी कष्टतमो दोषः सर्वानर्थप्राप्तिहेतुर्दुर्निवार्यश्चेति तत्परिहारे यत्नाधिक्यं कर्तव्यमित्याह भगवान्-शक्नोत्युत्सहत इहैव जीवन्नेवयः सोढुं प्रसहितुं प्राक्पूर्वं शरीरविमोक्षणादा मरणात्, मरणसीमाकरणं जीवतोऽवश्यंभावी हि कामक्रोधोद्भवो वेगोऽनन्तनिमित्तवान्हि स इति। यावन्मरणं तावन्नविश्रम्भणाय इत्यर्थः। काम इन्द्रियगोचरप्राप्त इष्टे विषये श्रूयमाणे स्मर्यमाणे वानुभुते सिखहेतौ या गर्धिस्तृष्णा स कामः, क्रोधश्चात्मनः प्रतिकूलेषु दुःखहेतुषुदृश्यमानेषु श्रूयमाणेषु वा यो द्वेषः स क्रोधस्तौ कामक्रोधावुद्भवो यस्य वेगस्य स कामक्रोधोद्भवो वेगः, रोमाञ्चनहृष्टनेत्रवदनादिलिङ्गोऽन्तःकरणप्रक्षोभरूपःहकामोद्भवो वेगो गात्रप्रकम्पप्रस्वेदसंदष्टौष्ठपुटरक्तनेत्रादिलिङ्गः क्रोधोद्भवो वेगस्तं कामक्रोधोद्भवं वेगं य उत्सहते सोढुं प्रसहितुं स युक्तो योगी सुखीचेह लोके नरः ।।23।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=शक्नोतीहैव_यः_सोढुं...&oldid=1681" इत्यस्माद् प्रतिप्राप्तम्