व उ चिदम्बरम् पिळ्ळै

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person

व.उ.चिदम्बरम् पिळ्ळै भारतस्य स्वातन्त्र्यसङ्ग्रामस्य नेतृषु प्रमुखः अस्ति । सः स्वतन्त्र्यसङ्घर्षे भागं गृहीत्वा अन्यानपि प्रेरितवान् । एतस्य कार्यकरणेन आङ्ग्लेयाः अग्नेः उपरि स्थिताः इव तापम् अनुभूतवन्तः । सः आङ्ग्लेयानाम् आक्रमणं विरुध्य सङ्घर्षं कृतवान् । तेषां क्रूरनियमान् विरुध्य जनानां पुरतः वीररसयुक्तानि भाषणानि कृतवान्। व.उ.चिदम्बरं पिळ्ळै तमिळ्भाषायाम् , आङ्ग्लभाषायां च निपुणः आसीत् । सः चतुरः लेखकः , सत्वशाली भाषणकर्ता , निःस्वार्थी नेता , धीरः स्वातन्त्रसङ्ग्रामस्य नेता च आसीत् । तस्य त्यागमयं जीवनम् उदात्तचरितम् इव अस्ति । भारतस्य राजनैतिक-सामाजिक-आर्थिकस्वातन्त्र्यार्थं तेन कृताः त्यागाः सङ्घर्षाः च बहवः सन्ति । तेन अनुभूतानि दुःखानि अपि बहूनि । चिदम्बरस्य राजनैतिकजीवनम् उदात्तशीलधर्मशक्तियुक्तं आसीत् । सः स्नेहशीलः अपि आसीत् । व.उ.चिदम्बरं पिळ्ळै प्रसिद्धः अधिवक्ता आसीत् । सः तमिळ्भाषया कविताः लिखति स्म । लेखनानि अपि लिखितवान् अस्ति । तमिळ्भाषया विद्यमानं साहित्यं पठित्वा तद्विषये लेखनानि लिखितवान् अस्ति । सः मित्रैः सह मेलनसमये सर्वदा स्वातन्त्र्यसङ्घर्षविषये , तमिळ्साहित्यविषये एव चर्चां कुर्वन् भवति स्म । सः आङ्ग्लपुस्तकानाम् अपि अनुवादं कृतवान् अस्ति ।व.उ.चिदम्बरं पिळ्ळै भारतस्य जनेभ्यः सुपरिचितः अस्ति । १८९२ तमे वर्षे बालगङ्गाधरतिलकस्य वीरभाषणैः प्रेरितः सन् अनन्तरकाले तस्य शिष्यत्वेन कार्यं कृतवान् ।

व.उ.चिदंबरस्य जननं , शिक्षणं यौवनकालः च

व.उ.चिदम्बरं पिळ्ळै १८७२ तमे वर्षे सप्टम्बरमासस्य पञ्चमदिनाङ्के तमिळ्नाडुराज्ये तिरुनेल्वेलीमण्डले ओट्टपिडारम् नामके कस्मिंश्चित् ग्रामे उलगनाथन् ,परमायी अम्बा दम्पत्योः ज्येष्ठपुत्रत्वेन जन्म प्राप्तवान् । तस्य षष्ठे वयसी वीरपेरुमाळ् अण्णावि नामकस्य कस्यचित् अध्यापकस्य समीपे तमिळभाषाध्ययनम् आरब्धवान् । तस्य पितामही तस्मै शिवपुराणकथाः वदति स्म । पितामहः रामायणकथाः वदति स्म । पितामहेन सह गत्वा अल्लिकुलत्तुसुब्रह्मण्यपिळ्ळैवर्येन उक्ताः महभारतकथाः अपि चिदम्बरेण श्रुताः । सर्वकारकार्यालयस्य कार्यकर्ता श्री. कृष्णः चिदम्बराय आङ्ग्लं बोधितवान् । सः यदा स्थलपरिवर्तनं कृत्वा अन्यत्र गतवान् तदा चिदम्बरस्य पिता तत्रत्यानां साहाय्येन झटित्यैव आङ्ग्लशिक्षणार्थम् विद्यालयं निर्मितवान् । विद्यालये श्री.अरम्वळर्त्तनाथपिळ्ळैवर्यम् अध्यापकरूपेणण नियुक्तवान् । विद्यालयस्य निर्वहणदायित्वं पुदियमुत्तूरस्थम् आदंसन् नामकस्य कस्यचित् क्रैस्तमतगुरोः समीपम् दत्तवान् । तदनन्तरम् चिदम्बरं षण्मुखस्वामिनाथनामकयोः समीपम् अध्ययनम् कृतवान् । यदा सः चतुर्दशवर्शीयः अभवत् तदा पठनार्थम् ओट्टपिडारात् तूतुकुडिं प्रति गतवान् । तत्र सः सेण्ट् झेवियर्स् विद्यालये , काल्ड्वेल् विद्यालये च अध्ययनं कृतवान् । तिरुनेल्वेलीनगरस्थे हिन्दुमहाविद्यालये अपि सह अध्ययनं कृतवान् ।

क्रीडासक्तिः

चिदम्बरस्य यौवनकाले सर्वासु क्रीडासु तस्य आसक्तिः आसीत् । क्रीडने सः चतुरः अपि आसीत् । तस्य स्वचरितात् वयम् एतं विषयम् अवगन्तुं शक्नुमः । एतेन तमिळ्नाडुराज्यस्य क्रीडाः अपि वयम् अवगच्छामः ।तासु काश्चन एवं सन्ति-भित्तौ चलनं ,वृक्षारोहणम् , एकश्वासेन सङ्ख्या कथनम् , अश्वारोहणम् , जलक्रीडाः , दण्डारोहणं , छुरिकाक्षेपणम् , शीर्षासनेन चलनं ,बस्कि ,कुस्ति इत्यादयः ।

अधिवक्ता

व.उ.चिदम्बरं पिळ्ळै किञ्चित् कालं यावत् तालुकाकार्यालये उद्योगं कृतवान् । अनन्तरं तस्य पिता न्यायविषये शिक्षणं प्राप्तुं तं तिरुच्चीं प्रति प्रेषितवान् । तत्र श्री.गणपति ऐयर् , श्री.हरिहरन् च तं बोधितवन्तौ । १८९४ तमे वर्षे परीक्षां लिखित्वा उत्तीर्णः अभवत् । सः निर्धनानां कृते निश्शुल्कं वादं करोति स्म। बहुषु अवसरेषु चिदम्बरस्य पक्षेण एव विजयः प्राप्तः । तेन सः प्रसिद्धः अधिवक्ता अभवत् । तस्य वाक्चातुर्यं , सत्यसन्धता इत्यादीनां कारणेन न्यायादीशानां चिदम्बरस्य उपरि बहु आदरः आसीत् । यदा आरक्षकैः दोषेण निरपराधिनाम् उपरि दोषारोपः कृतः तदा ते चिदम्बरस्य वाग्चातुर्येण विमुक्ताः भवन्ति स्म । तेन कारणेन आरक्षकाणां चिदम्बरस्य उपरि कोपः उत्पन्नः । चिदम्बरस्य पिता एतादृशीं स्थितिं न इष्टवान् । अतः सः १९०० तमे वर्षे तूतुकुडी नगरे एव उद्योगं करोतु इति उक्तवान् । तत्राऽपि चिदम्बरं पिळ्ळै प्रसिद्धः अधिवक्ता आसीत् ।

देशस्य विषये चिन्तनम्

एकदा व.उ.चिदम्बरं पिळ्ळै यदा चेन्नै गतवान् तदा रामकृष्णमठे श्री स्वामी विवेकानन्दः तेन मिलितः । सः चिदम्बरं प्रति देशार्थं किमपि करोतु इति उक्तवान् । एतत् चिन्तनं तस्य मनसि बीजरूपेण समयक् उपस्थापितम् । कालान्तरे तस्य वृक्षरूपेण वर्धनम् अभवत् । तदनन्तरं सः स्वातन्त्र्यसङ्घर्षवीरः अभवत् । यदा चेन्नैनगरं गच्छति तदा सर्वदा महाकविना सुब्रह्मण्यभारतीवर्येण मिलति स्म । व.उ.चिदम्बरं पिळ्ळै सुब्रह्मण्यभारतीवर्यस्य गीतानि इच्छया शृणोति स्म । चिदम्बरं तथा सुब्रह्मण्यभारती समानमण्डलस्थग्रामात् आगतौ । चिदम्बरस्य जन्मस्थानं ओट्टपिडारं, सुब्रह्मण्यभारतीवर्यस्य एट्टयपुरम् अस्ति । द्वयोः पितरौ अपि मित्रे ।सुब्रह्मण्य भारती , चिदम्बरं च यदा मिलितवन्तौ तदा द्वयोः चिन्तनमपि समानम् इति अवगतवन्तौ । द्वौ अपि सदा देशविषयकमेव सम्भाषेते स्म । सुब्रह्मण्य भारती स्वस्य भावात्मकगीतै: जनान् स्वतन्त्राय उत्तेजितवान् । तयोः मैत्री कालान्तरेण सम्यक् वर्धिता ।

व.उ.चिदम्बरं पिळ्ळैवर्येन आरब्धाः राष्ट्रियसंस्थाः

व.उ.चिदम्बरं पिळ्ळै तिरुनेल्वेल्यां , तूतुकुड्यां च प्रसिद्धः नेता आसीत् । सः “ स्वदेशीप्रचारसभा “ , ” धर्मसङ्घतन्तुवायशाला “ , “ स्वदेशीय-भण्डार-शाला “ , “ कर्षकसङ्घम् “ इत्यादयाः संस्थाः आरब्धवान् ।

स्वदेशीयनौकासङ्घम् १९०६

आङ्ग्लेयाः भारतं प्रति वाणिज्यं कर्तुमेव आगताः । किन्तु ते भारतस्य शासनकरणस्य अधिकारं प्राप्य भारतस्य समृद्धिम् अपहृतवन्तः । एतत् चिन्तनं चिदम्बरस्य मनः नितरां बाधते स्म । अतः सः तस्मिन् विषये स्वस्य विरोधभावनाम् आङ्ग्लेभ्यः ज्ञापयितुम् इष्टवान् ।“ ब्रिट्टीश् इण्डिया स्टीं नाविगेशन् कम्पनी “ द्वारा भारत-श्रीलङ्कयोः मध्ये आङ्ग्लेयाः नौकां चालयन्ति स्म । तदेव आङ्ग्लेयानां वाणिज्ये प्रधानं कार्यम् आसीत् । अतः व.उ.चिदम्बरं पिळ्ळै भारतीयानां कृते नौकासंस्थाम् आरब्धुं निश्चितवान् । व.उ.चिदम्बरं पिळ्ळै१९०६ तमे वर्षे अक्टोबर् मासे १६ दिनाङ्के “ स्वदेशीय नौका संस्था “ नामिकायाः नूतनायाः नौकासंस्थायाः पञ्जीकरणं कृतवान् । तस्य अध्यक्षः आसीत् मधुरैतमिळ्सङ्घस्य अध्यक्षः वळ्ळल् पाण्डितुरैत्तेवर् एव । न्यायालोचकः सेलं श्री विजयराघवाच्चार्यार आसीत् । संस्थायाः मूलधनं १०,००,००० रूप्यकाणि आसन् । २५ रूप्यकात्मकं ४०,००० भागाः [ शेर्स् ] तत्र अन्तर्भूताः । अध्यापकाः सर्वे अपि तत्र भागकर्ताराः भवितुं शक्नुवनति । ४ अधिवक्ताराः , १३ वित्तकोषस्थाः आसन् । नौका संस्थायाः पञ्जीकरणानन्तरं नूतनान् भागकर्तृन् योजयितुम् आरब्धवान् । “ जनाब् हाजि मोहम्मद् बक्कीर् सेट् “ ८००० भागेभ्यः २,००,००० रूप्यकाणि दत्तवान् । किन्तु संस्थायाः कृते स्वनौका नासीत् । “ शालेन् स्टीमर्स् कम्पेनि “ तः नौकाः भाटकार्थं स्वीकरणीयाः आसन् । ब्रिटीष- इण्डिया नाविगेशन् कम्पेनी एतां नूतनां स्पर्धां न इष्टवती । अतः सा शालेन् स्टीमर्स् कंपेनि संस्थायाः कृते स्वनौका नासीत् इत्यतः भारतीयाः वाणिज्यं कर्तुं कष्ठं अनुभूतवन्तः । व.उ.चिदम्बरं पिळ्ळैभीतः न अभवत् । सः श्रीलङ्कां गत्वा भाटकार्थं नौकां प्राप्तवान् । किञ्चित् कालं तेन वाणिज्यं कृतं भरातीयैः । किन्तु स्वनौकया विना संस्थां चालयितुं न शक्यते इति अवगतं चिदंबरेण । अतः स्वकीयाः नौकाः क्रेतुं निश्चितवान् । तूत्तुकुडी वणिक्जनाः साहाय्यं कृतवन्तः । तत् अपर्याप्तम् आसीत् । अतः सः नूतनान् भागकर्तृन् योजयितुं मुंबै , कोल्कत्ता इत्यादीन् नगरान् प्रति गतवान् । तत्रत्याः तस्य वाग्चातुर्येण आकृष्टाः सन् नौका संस्थायाः भागकर्ताराः अभवन् । व.उ.चि उत्तरभारतं प्रति प्रस्थानात् पूर्वं “नौका सहितमेव पुनरागमनं भवति ; नौका नास्ति चेत् समुद्रे एव आत्महत्यं करोमि “ इति प्रतिज्ञां स्वीकृतवान् आसीत् । तस्य प्रतिज्ञां पूरितवान् । “ एस्.एस्.गलिलियो “ नाम नौकया सह प्रत्यागतवान् । भारतीयाः सर्वे महत् आनन्दम् अनुभूतवन्तः । नौकायां ४२ प्रथमश्रेणि-आसन्दाः , २४ द्वितीयश्रेणि-आसन्दाः ,१३०० सामान्यासन्दाः आसन् । अपि च ४००० गोणि परिमितानि वस्तूनि अपि नेतुं शक्यते स्म । एस्. वेदमूर्तिः फ्रान्स् देशं गत्वा “ एस्.एस्.लावो “ नामिकां नौकाम् आनीतवान् । भारतीय पत्रिकासु सर्वासु एतं विषयम् अधिकृत्य लेखनानि प्रकाशितानि । सर्वाः चिदंबरस्य् प्रशंशां कृतवत्यः । नौकासंस्थायाः वर्धनम् अभवत् । जनाः स्वदेशीयनौकायां एव यात्रां कृतवन्तः । वस्तूनि अपि स्वदेशीयनौकायां प्रेषितवन्तः । आङ्ग्लसंस्थाः एतस्यां स्पर्धायाम् स्थातुम् न शक्तवत्यः । अतः ताः शुल्कं न्यूनीकृतवत्यः । अन्ते निश्शुल्कमपि नयाम: इति उक्तवत्यः । ब्रिट्टीश् नौका संस्थायाः उपायानां विषये व.उ.चिदम्बरं पिळ्ळै जनानां मध्ये भाषणं कृतवान् । “ आरंभे निश्शुल्कं नीत्वा भारतीनौका-संस्थायाः नाशानन्तरं तेषाम् इच्छानुसारं शुल्कं वर्धयन्ति  ; तदा भारतीयैः किमपि कर्तुं न शक्यते “ इति । अतः भारतीयाः निश्शुल्कयात्रां निराकृतवन्तः । आङ्ग्लेयाः तदनन्तरं चिदंबराय उत्कोचं दातुं प्रयत्नं कृतवन्तः । स्वदेशी नौका संस्थां त्यक्तवा गच्छति चेत् १,००,००० रूप्यकाणि दीयते इति उक्तवन्तः । व.उ.चिदम्बरं पिळ्ळै न अङ्गीकृतवान् । आङ्ग्लसर्वकारेण ब्रिट्टीश् संस्थायै बहुधा साहाय्यं कृतम् । ते ब्रिट्टीश् नौकया एव यात्रा करणीया इति सर्वकारकार्यकर्तृन् रहस्यपत्रेण आदिष्टवन्तः । अधिकारिण: ,वैद्याः ,सर्वकारकार्यकर्ताराः सर्वे अपि स्वदेशीयनौकायाःकृते क्लेशं जनितवन्तः । एकदा भरतीयनौका ब्रिट्टीश्नौकायाः उपरि घट्टनं कर्तुं आगतवती इति दोषारोपं कृतवन्तः । व.उ.चिदम्बरं पिळ्ळै तम् असत्यारोपः इति न्यायालये निरूप्य नौका चालनार्थम् अनुमतिं प्राप्तवान् । स्वदेशीयनौका संस्थायाः वर्धनस्य स्थगनं कर्तुं न शक्तवन्तः आङ्ग्लेयाः ।

चिदंबरस्य राजनीतिक्षेत्रकार्यम्

स्वदेशीयनौकासंस्थायाः विजयेन चिदंबरः सन्तृप्तः नाभवत् । सः जानानां मनस्सु स्वातन्त्र्यपिपासाम् आनेतुं चिन्तितवान् । तदर्थमपि एकः अवसरः तस्य पुरतः आगतः । “ लार्ड्र राय् “ कश्चन भारतस्थ आङ्ग्लेय अधिकारि आसीत् । सः लण्डन् नगरे प्रवृत्ते वाणिज्यानां मेलने “ भारते वाणिज्यं संयक कर्तुं शक्यते किमर्थं चेत् तत्र कर्मकरेभ्यः इति संस्था नास्ति , कर्मकरेभ्यः वेतनम् अल्पमेव भवति “ इति भाषितवान् । तस्य भषणेन तदानीन्तन कर्मकराणां स्थितिम् अवगन्तुं शक्नुमः । तूत्तुकुड्यां काचित् तन्तुवाय संस्था आसीत् । तत्रत्य कर्मकरेभ्यः वेतनम् अल्पम् । किन्तु तैः पूर्ण दिनं विश्रान्तिं विना कार्यं करणीयं भवति । तेषां विरामः अपि न भवति । केनाऽपि दोषः क्रियते चेत् तदर्थं दण्डनं कठोरतया भवति । तत्रत्यानां स्थितिं दृष्ट्वा चिदंबरः दुःखितः अभवत् । सः कर्मकरान् कार्यस्थगन्ं कर्तुं प्रेरितवान् । चिदंबरः , सुब्रह्मण्यशिवः च तेभ्यः अङ्गीकारं दर्शितवन्तौ । १९०८ तमे वर्षे फेब्रुवरि २३ दिनाङ्के चिदंबरः तूत्तुकुड्यां भाषणं कृतवान् । १९०८ तमे वर्षे फेब्रुवरि २७ दिनाङ्के कर्मकराः कार्यं स्थगितवन्तः । सङ्घर्ष समये तेषां घोषणम् आसीत् एवम् १.अधिक वेतनम् २. सप्ताहे एकं दिनं विरामः ३. अन्य दिनेषु विरामः । मण्डलाधिकारि तिरुनेल्वेली तः अधिकारि द्वयं , शिवकाशी तः ३० आरक्षकाः च प्रेषितवान् । तदनन्तरदिने मण्डलाधिकारि श्री.विञ्च् स्वयं तूत्तुकुडीम् आगतवान् । तेन मिलतु इति चिदंबरस्य कृते वार्तां प्रेषितवान् । मेलनानन्तरं संस्थायाः निर्वाहकानां कठोरहृदयकारणेन एव सङ्घर्षः चलति इति अधिकारेः समीपम् उक्तवान् इति कर्मकराणाम् समीपम् उक्तवान् । सः जनानां साहाय्येन , स्वधनेन च कर्मकराणांकृते साहाय्यं कृतवान् । तेन तस्य सम्पादनस्य महान् भागः व्ययीकृतः । निर्वाहकाः कर्मकराः अविश्वासेन शीघ्रमेव कार्यार्थम् आगच्छन्ति इति प्रतीक्षां कृतवन्त: । आङ्ग्लसर्वकारः निर्वाहकानां पक्षे आसीत् । किन्तु अनन्तरदिनेषु अधिकाः सङ्घर्षे योजितवन्तः । निर्वाहकानां स्थितिः क्लेशाय अभवत् । ते काञ्चित् भायितवन्तः , काञ्चित् उद्योगात् निष्कासितवन्तः । सर्वमपि व्यर्थम् अभवत् । भारतीयानां सर्वेषां श्रद्धा सङ्घर्षस्य उपरि आगता । व.उ.चि प्रतिदिनं सार्वजनिक मेलनेषु कर्मकराणां स्थिति विषये भाषणं कृतवान् । अतः तेषाम् अपि आदरः आसीत् । सङ्घर्षः इतोऽपि तीव्रतां गतः । कर्मकराः प्रतिदिनं शोभायात्रां कृतवन्तः । वणिक्जनाः आङ्ग्लेभ्यः वस्तूनि विक्रयणं न कृतवन्तः । तेन कारणेन ते श्रीलङ्कातः भोजनवस्तूनि क्रीतवन्तः । ते भीत्या तूत्तुकुडी मध्ये वासं त्यक्त्वा समुद्रे नौकायां वासं कृतवन्तः । अन्ते निर्वाहकाः कर्मकराणां प्रार्थनाः पूरयितुम् अङ्गीकृतवन्तः । १९०८ तमे वर्षे मार्च् ६ दिनाङ्के तन्तुवायशालायाः निर्वाहकेन चिदंबरः मिलितः । चिदंबरेण ५० कर्मकरैः सह निर्वाहकः मिलितः । सङ्घर्षस्य महान् विजयः प्राप्तः । तदानीन्तनकाले कर्मकरेभ्यः सङ्घः इति कोऽपि नासीत् । १९२० तमे वर्षे एव प्रथमः सङ्घः आरब्धः । सोवियत्सङ्घर्षः अपि १९१७ तमे वर्षे एव अभवत् । व.उ.चि तु ११९०८ तमे वर्षे एव कर्मकराणां सङ्घेनविनैव तान् मेलयित्वा कार्यत्यागं कारयित्वा तेषां मार्गदर्शनं कृतवा विजयं प्राप्तवान् । व.उ.चिदम्बरं पिळ्ळै सर्वेषां मार्गदर्शकः अस्ति । एतेन सङ्घर्षेण अन्य आङ्ग्लसंस्थानां कर्मकराः अपि फलं प्राप्तवन्तः । तेषाम् वेतनम् अधिकं कृतवन्तः , तान् क्रूरतया कार्यम् अपि न कारितवन्तः ।

व.उ.चिदंबरस्य बन्धनम्-१९०८

स्वदेशीनौकासंस्थायाः वर्धनम् आङ्ग्लेयैः सोढुम् अशक्यम् अभवत् । तन्तुवायशाला सङ्घर्षः आङ्ग्लेयान् भाययति स्म । भारते स्थातव्यं चेत् चिदंबरस्य बन्धनम् आवश्यकम् इति ते अवगतवन्तः । ते तादृश अवसरार्थं प्रतीक्षमाणाः आसन् । व.उ.चि विदेशीयवस्तूनि निराकृतवान् । जनाः अपि निराकृतवन्तः । तदानीं विञ्च् एव मण्डलाधिकारि ,किन्तु जनाः चिदंबरस्य वचनानि एव आदेश रूपेण स्वीकृतवन्तः । जनानां चिदंबरस्य उपरि तादृशः आधरः आसीत् । तस्य् पृष्ठतः सामान्यकर्मकराः सर्वे आसन् । स्वातन्त्र्यसङ्घर्षभावनायाः ज्वाला जनानां मनस्सु संयक् ज्वलत् आसीत् । व.उ.चिदम्बरं पिळ्ळै यत् किमपि वदति चेदपि तत् कर्तुं जनाः सिद्धाः आसन् । चिदंबरस्य कालात् पूर्वं ये पठितवन्तः ते एव स्वातन्त्र्यसङ्घर्षे भागं गृहीतवन्तः । किन्तु सामान्यकर्मकरान् , सामान्यान् चिदंबरः एव स्वातन्त्र्यान्दोलने योजितवान् । ते सर्वे आङ्ग्लेयानाम् कृते कार्यं कर्तुम् सिद्धाः न आसन् । तेन आङ्ग्लेयानां कष्ठम् अभवत् । व.उ.चिदम्बरं पिळ्ळै स्वदेशीयनौकासंस्थां धनार्थं वा यशः प्राप्युं वा न आरब्धवान् । किन्तु तस्याः भागकर्ताराः धनं सम्पातयितुमेव इष्टवन्तः । ते चिदंबरस्य स्वातन्त्र्यसङ्घर्षे भाग स्वीकरणम् न इष्टवन्तः । किन्तु चिदंबरः तेषां मतं न अङ्गीकृतवान् । बङ्गस्य स्वातन्त्र्यस्ङ्घर्षस्य नेता “ विपिन्चन्द्रबालः “ १९०८ तमे वर्षे मार्च् ९ दिनाङ्के कारागृहात् स्वातन्त्र्यं प्राप्नोति इत्यासीत् । व.उ.चि तत् उत्सवरूपेण आचरितुम् इष्टवान् । तत् भवति चेत् जनानां मध्ये चिदंबरस्य भाषणं भवति । तत् आङ्ग्लसर्वकारेण न इष्टम् । अतः ते तं कारागृहे स्थापयितुं निश्चितवन्तः । किन्तु तं तूत्तुकुड्यां बन्धनं करोति चेत् जनानाम् उद्वेगः भवति इति मत्वा तं तिरुनेल्वेल्यां बन्धनं कर्तुं निश्चितवन्तः । तदर्थं तिरुनेल्वेलीम् आगत्य मिलतु इति सहमण्डलअधिकारिणा चिदंबरस्य कृते आज्ञा प्रेषिता । व.उ.चि तिरुनेल्वेलीम् प्रति प्रस्थितः । गच्छति चेत् बन्धितः भवति इति सर्वे अपि जानन्ति । अतः सर्वे गमनं मास्तु इति तं स्थगितवन्तः । किन्तु व.उ.चि सर्वेषां सान्त्वनं कृत्वा तस्य आत्मीयमित्रेण सुब्रह्मण्यशिवेन सह तिरुनेल्वेलीं गतवान् ।

सुब्रह्मण्यशिव:

सुब्रह्मण्यशिवः , मदुरै नगरस्य समीपस्थ “ वत्तलगुण्डु “ प्रदेशस्थः । तस्य प्रदेशस्य नायकस्य पुत्रः अस्ति । सः तमिळ् ,आङ्ग्ल भाषयोः निपुणः आसीत् । सः प्रति ग्रामं गत्वा मातृभूमेः स्वातन्त्र्यम् उद्दिश्य भाषणं कुर्वन् आसीत् । १९०७ तमे वर्षे तूत्तुकुड्यां जनानां मध्ये यदा भाषणं कृतवान् तदा चिदंबरेण दृष्टः । तस्य भाषणस्य शक्तिं ,देशभक्तिं च दृष्ट्वा चिदंबरः आकृष्टः । तदनन्तरं तौ द्वौ अपि मित्रे अभवन् । चिदंबरः ,शिवः च मिलित्वा जनेषु स्वातन्त्र्य दीपस्य ज्वालनं कृतवन्तौ । आङ्ग्लसर्वकारः तयोः कार्यं स्थगयितुम् इष्टवान् । द्वौ मिलित्वा मण्डलाधिकरेः दर्शनार्थं यदा गतवन्तौ तदा अधिकारि तौ द्वौ तिरुनेल्वेलीतः बहिर् गन्तुम् आदिष्टवान् , पुनः सार्वजनिक कार्यक्रमेषु भाषणं न करणीयम् इत्यपि आदिष्टवान् । चिदंबरः तत् न अङ्गीकृतवान् । अतः चिदंबरं ,शिवं च १९०८ तमे वर्षे मार्च् १२ दिनाङ्के बन्धितवन्तः ।

व.उ.चिदंबरस्य बन्धनस्य प्रतिकारः-१९०८

व.उ.चिदंबरस्य बन्धनम् ज्ञात्वा जनानाम् उद्वेगः अभवत् । आपणान् कीलितवन्तः । विद्यालयान् , महविद्यालयान् नाशितवन्तः । दिनद्वयं एतादृशी स्थितिः एव आसीत् । पत्रालयस्य ज्वालनं कृतवन्तः । आरक्षकालयस्य उपरि आक्रमणं कृतवन्तः । तूत्तुकुड्यां चिदंबरस्य बन्धनं शृत्वा जनाः निद्रां त्यक्तवन्त: । आपणाः कीलिताः । कोरल् तन्तुवायशालायाः कर्मकराः , पेस्ट् अन्ड् कम्पेनि कर्मकराः उद्योगार्थं न गतवन्तः । एवं नाविताः , रजकाः , अश्वचकटचालकाः च भागं स्वीकृतवन्तः । भारतस्य प्रथमः राजनैथिककार्यत्यागः एषः एव । १९०८ तमे वर्षे मार्च् १४ दिनाङ्कतः १९ दिनाङ्कपर्यन्तं आसीत् । सर्वे जनाः अपि तत्र भागं गृहीतवन्तः । सार्वजनिककार्यक्रमाः शोभायात्रा: च अभवन् । आरक्षकानां भुशुण्डि प्रयोगेन ४ मृतवन्तः । व.उ.चिदंबरः यदा कारागृहे आसीत् तदा तस्य मित्राणि तं जामीन् मध्ये बहिरागन्तुम् प्रार्थितवन्तः । शिवः ,पद्मनाभऐयङ्गार् च तेन सह आसीत् । सः तौ त्यक्त्वा पृथक् बहिरागन्तुं न इष्टवान् । एतेन अवसरेण तस्य सत्यसन्धतां ,धैर्यं च अवगच्छामः ।

चिदंबरस्य कारागृहवासः १९०८

आरक्षकाः चिदंबरस्य उपरि न्यायालये केस् बुक् कृतवन्तः १.व.उ.चिदम्बरं पिळ्ळै आङ्ग्लसर्वकारं विरुद्धिकृत्य भाषणं कृतवान् ( विभागः १२३ अ ) २.व.उ.चिदम्बरं पिळ्ळै सुब्रह्मण्यशिवस्य कृते आश्रयं दत्तवान् । ( विभागः १५३ अ ) वादप्रतिवादाः सत्यसन्धतया नासीत् इत्यतः तत्र भागं स्वीकर्तुं नाङ्गीकृतवान् चिदंबरः । मासद्वयं चलत् आसीत् । भारतीयाः सर्वे श्रद्धया अवलोकितवन्तः ।

न्यायादीशस्य पिन्हे वर्यस्य निश्चयः

१.आङ्ग्लसर्वकारस्य विरोधार्थं जनान् उद्वेजितवान् इत्यस्य दण्डना रूपेण २० वर्षाणि द्वीपानन्तरं प्रति प्रेषणीयः । २.शिवस्यकृते आश्रयं दत्तवान् इत्यस्य दण्डना रूपेण पुनः २० वर्षाणि द्वीपान्तरे भवितव्यम् ३. सुब्रह्मण्यशिवस्यकृते १० वर्षाणि कारागृहवासः ४० वर्षाणि द्वीपान्तर दण्डना ! कस्यापि कृते पूर्वं न दत्तम् आसीत् । तस्य उपरि आङ्ग्लेयानां बहु भयम् आसीत् । एतादृश्याः क्रूरदण्डनायाः कारणं तत् भयमेव । तं कारागृहे स्थापयति चेदेव तैः शासितुं शक्यते । व. उ. चिदंबरस्य तदानीं ३६ वयः एव अभवत् । एतादृश्याः क्रूरदण्डनायाः श्रवणेन भारतीयाः सर्वे चकिताः । “ बङ्गाली ” , “ स्वदेशमित्रः “ , “ इण्ड्या “ , “ स्वराज्या “ इत्यादयाः पत्रिकाः एतस्य विरुद्धं लिखितवत्यः । “ स्टेट्स्मेन् “ नाम आङ्ग्लपत्रिका अपि एतत् धर्मयुक्तं कार्यं न इति चिदंबरस्य त्यागः तु माहान् अस्ति , तस्य वन्दनम् एव करणीयम् अस्माभिः । ये आङ्ग्लसर्वकारस्य पक्षे आसन् ते अपि एतत् नाङ्गीकृतवन्तः । लार्ड् मार्लि भारतार्थम् नियुक्तः आङ्ग्लमन्त्री , सः एतं विषयं नाङ्गीकर्तुं शक्यते इति लार्ड्मन्ड्रोः कृते लिखितवान् । एतं निश्चयं विरुध्य चेन्नै न्यायलये आवेदनं कृतम् । तत्र १० वर्षाणि द्वीपान्तरदण्डना इति न्यूनी कृता । अन्दमान् प्रेषयितुं न शक्यते इति कारणेन कोवै कारागृहे स्थापितः । तस्य मित्राणि लण्डन् राजसभां ( प्रिव्यू कौन्सिल् ) प्रति एतं विषयं नीतवन्तः । तत्र ६ वर्षाणि एव दण्डनाकालः इति न्यूनीकृतः ।

कारागृहवासः १९०८-१९१२

व.उ.चिदम्बरं पिळ्ळै प्रथमं कोयम्बत्तूर् कारागृहे तदनन्तरं कण्णनूर् कारागृहे च आसीत् । अधुना राजनैथिककारागृहवासिनां कृते आदरः दीयते । किन्तु तदानीं एवम् नासीत् । कठिनानि कार्याणि करणीयानि भवति । व.उ.चिदम्बरं पिळ्ळै तु धनिकः आसीत् । गृहे उत्तम , आरोग्ययुक्त , स्वादुयुक्त भोजनमेव करोति स्म । किन्तु कारागृहे शिलाखण्डयुक्त , मृत्तिकायुक्त यवाहु एव स्वीकरणीयं अभवत् । कारागृहे तस्य कृते कठोरवस्त्राणि दत्तवन्तः । तस्य मुण्डनं कारयित्वा हस्तपादौ बन्धितवन्तः । कठिनानि कार्यानि कृतवान् । पाषाणखण्डानि भग्नं कृतवान् । तैलोत्पत्ति निमित्तम् एकम् उपकरणम् अस्ति ; तत् कारयितुं धेनोः चालनं क्रियते ,तत्र आङ्ग्लेयाः चिदंबरस्य उपयोगं कृतवन्तः । श्रेष्ठः अधिवक्ता धेनोः स्थाने अभवत् । एतेन चिदंबरस्य भारः न्यूनः जातः । वैद्यः कारागृहस्य अधिकारिणं कण्डितवान् । तदनन्तरं तस्मै तण्डुलेन निर्मितं भोजनं दत्तम् । पुनः स्वयं निर्मितं भोजनं खादितुं इति अनुमतिं दत्तवन्तः । वडुगुमारन् नाम कश्चन कदाचित् चिदंबरं नमस्कृतवान् । तत् दृष्ट्वा कारागृहाधिकारिणः कोपः आगतः । इतःपरं नमस्करोति चेत् पदरक्षया ताडनं प्राप्यते इति तं भायितवन्तः । वडुगुमारः तम् अधिकारिणं मारयियुं निश्चितवान् । किन्तु व.उ.चिदम्बरं पिळ्ळै तत् निवारितवान् । कदाचित् रविवासरे मध्यान्ने सर्वे कारागृहवासिनः मिलित्वा कलहं कृतवन्तः । तदा अधिकारी अपि ताडनं प्राप्तवान् । अतः ते सर्वेषां कृते कठोर दण्डनां दत्तवन्तः । व.उ. चि मित्राणां साहाय्येन न्यायालयं गत्वा दण्डनाकालं न्यूनीकृतवान् । न्यायलये कारागृहवासीनां पक्षे साक्षी आसीत् । स: अधिकारिणां दुर्व्यवहारः एव कलहस्य कारणम् इति सूचितवान् । कारागृहस्य निर्वाहकः एकं दिनं कारागृहस्य कार्यदर्शी भवति चेत् दण्डनाकालः न्यूनी क्रियते इति उक्तवन्तः । चिदंबरः तत् नाङ्गीकृतवान् । केरळस्थ कण्णणूर्कारागृहं प्रति परिवर्तितः चिदंबरः । तत्र दण्दनायाः नूतना शैली एका आसीत् । ऊर्णाच्छादकैः जनान् आवृत्य ताडयन्ति स्म । तत्रत्य अधिकारी क्रूरम् एकं मनुष्यं चिदंबरेण सह रात्रौ निद्रां कारितवान् । स्वाभाविकतया सः सर्वान् ताडयति स्म । किन्तु एक रात्र्यभ्यन्तरे चिदंबरस्य शिष्यः अभवत् सः मनुष्यः ।

आशस्य हननम्

आश् तिरुनेल्वेली मण्डलस्य मण्डलाधिकारि अस्ति । सः तूत्तुकुडी तन्तुवायानाम् कार्यत्यागसङ्घर्षसमये चिदंबरस्य् बन्धनार्थं प्रवृत्तस्य सङ्घर्ष समये जनानां मध्ये कठोरतया व्यवहृतवान् । सः तूत्तुकुडी समीपस्थ मणियाच्ची रेल् स्थानके भुशुण्डी प्र्योगेन मारितः । चेङ्गोट्टै प्रदेशस्थ वाञ्ची नाम क्रान्तिकारी युवकः एतत् कार्यं साधितवान् । तत् क्षणमेव सः स्वयमपि आत्महत्यं कृतवान् । चिदंबरस्य एतादृश्याः कठोरदण्डनायाः कारणकर्ता आश् इति कारणेन एव तं मारितवान् वाञ्ची । एतां वार्तां ज्ञात्वा चिदंबरः आश्चर्यचकितः । युवकाः एवं जीवत्यागं कुर्वन्ति इति सः बहु दुःखम् अनुभूतवान् । पुनश्च सः आङ्ग्लाधिपत्यस्य् एव विरोधं कृतवान् , न आङ्ग्लेयानाम् । व.उ.चि यदा कारागृहे आसीत् तदा नौका संस्था नष्टा अभवत् । तं विहाय नौका संस्थां चालयितुं कस्यापि सामर्थ्यं नासीत् । ते नौकां विक्रीतवन्तः । तदपि एस्.एस्. गलिलियो नामिकां नौकाम् आङ्ग्लेभ्यः एव विक्रीतवन्तः । तत् शृत्वा व.उ.चि बहु खेदम् अनुभूतवान् । तां क्रेतुं सः कीदृशानि कार्याणि कृतानि आसन् तेन ! १९१२ तमे वर्षे दिसंबेर् २४ दिनाङ्के कारागृहात् मोचितः चिदंबरः । तदा राजनैथिक क्षेत्रे बहूनि परिवर्तनानि जातानि आसन् । सत्याग्रहम् इत्यादयाः सङ्घर्षाः आरब्धाः आसन् । तादृशानां सङ्घर्षाणां विषये तस्य सम्मतिः नासीत् । स्वेच्छानुसारं अनुवर्त्यते चेत् तत् स्वतन्त्रान्दोळनस्य विघ्नाय भवति । तेन पृथक् एकस्य पक्षस्य आरंभं कर्तुं शक्यम् आसीत् चेदपि सः न कृतवान् । तेन तस्य देशभक्तिं , उदारस्वभावं च अवगच्छामः ।

स्वतन्त्रानन्तरं चिदंबरस्य जीवनम्

व.उ.चि कारागृहवासं समाप्य स्वातन्त्र्य प्राप्ति अनन्तरं [[चेन्नै] , कोयम्बत्तूर् , कोविल्पट्टी , तूत्तुकुडी इत्यादीषु प्रदेशेषु वासं कृतवान् ।

चेन्नै जीवनम् ( १९१३-१९३६ )

कारागृहात् मोचनं प्राप्य सः चेन्नैं गतवान् । तत्र मृत्तैलस्य वाणिज्यं कृतवान् । किन्तु सः वणिक् रूपेण विजयं प्राप्तुं न शक्तवान् । स: उदारमनस्कः , स्नेहपूर्णहृदय युक्तः आसीत् । तेन कथं वाणिज्ये विजयं प्राप्तुं शक्यते ? १९२० तमे वर्षे कल्कत्ता नगरे काङ्ग्रेस् समावेशः आसीत् । व.उ.चि तत्र प्रतिनिधि रूपेण भागं गृहीतवान् । सः लोकमान्यतिलकस्य अनुयायी अस्ति । तिलकः कर्मवीरः । अतः चिदंबरः गान्धीवर्यस्य मार्गम् अनुसर्तुं न इष्टवान् । तेन चिन्तितम् यत् गान्धीवर्यस्य मार्गः अनुसरणीयः उत स्वमनसः इति । अन्ते स्वमनसः निश्चयम् अङ्गीकृतवान् । अतः सः राजनैथिकक्षेत्रात् दूरं गतवान् । किन्तु चिदंबरस्य ,गान्धीवर्यस्य च मनसि परस्परम् आदरः आसीत् । गान्धीवर्यः चिदंबरस्य निस्स्वार्थ कार्यकरण विषये जानाति स्म । चिदंबरस्य अपि गान्धीवर्यस्य सरल जीवनस्य ,शुद्धतायाः विषये बहुमानम् आसीत् । व.उ.चिदंबरस्य बहूनि पुस्तकानि सः यदा चेन्नै नगरे आसीत् तदा एव प्रकाशितानि । सः कारागृहं गत्वा आगतवान् इति कारणेन अधिवक्ता रूपेण कार्यं कर्तुम् अनुमतिः नासीत् । तिलकः तस्मै प्रति मासं ५० रूप्यकाणि प्रेषयन् आसीत् ।

कोयंबत्तूर् जीवनम् ( १९२०-१९२४ )

कोयंबत्तूरे कर्मकराणां सङ्घ कार्येषु तीव्रतया भागं गृहीतवान् । तत्र वित्तकोषे सञ्चालक रूपेणापि कार्यं कृतवान् । तेन प्राप्तः आयः तस्य कृते पर्याप्तमात्रं नासीत् । व.उ.चि. कारागृहे आसीत् चेदपि राजनैथिक-कारगृहवासी एव आसीत् इत्यतः अधिवक्ता रूपेण कार्यं कर्तुम् अनुमतिं ददातु इति सर्वकारस्य समीपं प्रार्थितवान् । ई.हेच्. वालस् १९०८ तमे वर्षे तिरुनेल्वेल्यां कार्यं कुर्वन्नासीत् इत्यतः सः चिदम्बरस्य सत्यसन्धतायः , चातुर्यस्य विषये सम्यक् जानाति स्म । अतः सः अनुमतिं दत्तवान् । तस्य कार्यस्य कृतज्ञतां ज्ञापयितुं स्वस्य कनिष्ठपुत्रस्य कृते “ वालेश्वरन् “ इति नामकरणं कृतवान् ।

कोविल्पट्टी जीवनम् ( १९२४-१९३२ )

कोविल्पट्यां सः अधिवक्ता रूपेण कार्यं कृतवान् । तत्रापि सः निर्धनेभ्यः , स्वातन्त्र्य सङ्घर्षवीरेभ्यः एव निश्शुल्कं वादं कृतवान् । १९२७ तमे वर्षे पुनः काङ्ग्रेस् पक्षे योजितवान् । सेलं नगरे प्रवृत्ते तृतीय संमेलने भागं गृहीत्वा अध्यक्षभाषणं कृतवान् । पक्षस्य कार्येषु परिवर्तनानि दृश्यन्ते , तद्दृष्ट्वा आनन्दम् अनुभवामि इति उक्तवान् । किन्तु सेलं मेलनानन्तरं पुनः दूरे एव स्थितवान् । पक्षस्य कार्येभ्यः दूरे तिष्ठन्नासीत् चेदपि अन्तिमपर्यन्तं तिलकस्य शिष्यः एव आसीत् । अन्तिम श्वास पर्यन्तं आङ्ग्लादिक्यस्य विरोधं कुर्वन्नेव आसीत् ।

तूत्तुकुडी जीवनम् ( १९३२-१९३६ )

१९३२ तमे वर्षे तूत्तुकुडीं प्रति आगतः । तमिळ् ग्रन्थानां लेखनेन तस्य समयः यापितः । तमिळ् साहित्य विषये मित्रैः सह चर्चाम् अपि करोति स्म । सः स्वतन्त्र भारतस्य वायुं श्वासं कर्तुम् इष्टवान् । द्वितीय लोक युद्धः भवति चेत् भारतं निश्चयेन स्वतन्त्रं प्राप्नोति इति उक्तवान् । तथैव द्वितीय लोक युद्धानन्तरं १९४७ तमे वर्षे आगस्ट् १५ दिनाङ्के भारतस्य स्वतन्त्रः प्राप्तः । व.उ.चि १९३६ तमे वर्षे नवेम्बेर् १८ दिनाङ्के दिवङ्गतः ।

तमिळ् पण्डितः व.उ.चि.

चिदंबरेण लिखिताः ग्रन्थाः

चिदंबरेण लिखिताः ४ ग्रन्थाः अपि पद्याः । ते च १. मेय्यरम् २. मेय्यरिवु ३. पाडल् तिरट्टु ४. स्वचरितम्

मेय्यरम्-१९१४

मेय्यरम् नाम सत्यधर्मः इत्यर्थः । ग्रन्थेस्मिन् १२५ अधिकाराः सन्ति । प्रत्येकाधिकारेऽपि १० श्लोकाः सन्ति । एकस्मिन् श्लोके एका पङ्तिः भवति । अस्मिन् ग्रन्थे ५ भागाः सन्ति । प्रथमः भागः छात्राणां कृते अस्ति । तस्मिन् ३० अधिकाराः सन्ति । द्वितीयः भागः गृहस्थानां कृते अस्ति । तस्मिन्नपि ३० अधिकाराः सन्ति । तृतीय भागे एकः महाराजः कथं भवेत् इति विवृतम् अस्ति । ५० अधिकाराः तृतीय भागे अन्तर्भवन्ति । चतुर्थ भागे १० अधिकाराः सन्ति । सन्मार्ग विषये सः बोधयति । अन्तिम भागे ५ अधिकाराः सन्ति । तैः कथं सत्यं प्राप्तुं शक्यम् इति बोधयति चिदंबरः ।

मेय्यरिवु-१९१५

मेय्यरिवु इत्युक्ते सत्यज्ञानम् । चिदंबरः यदा कण्णणूर् कारागृहे आसीत् धर्ममार्ग विषये कारागृहवासीन् बोधयति स्म । उपदेशम् अपि करोति । तदा ते पद्य रूपे अस्ति चेत् कण्ठपाठं कर्तुम् सरलं भवति इति उक्तवन्तः । तदर्थं तेन रचिताः एव सत्य ज्ञानम् नाम ग्रन्थः अस्ति । अस्मिन् ग्रन्थे १० अधिकाराः सन्ति । प्रत्येकाधिकारे १० श्लोकाः सन्ति । एकस्मिन् श्लोके ४ पादाः सन्ति । अस्मिन् ग्रन्थे आत्म साक्शात्कार विषये , आरोग्यस्य संरक्षण विषये , मनसः नियन्त्रण विषये च बोधयति ।

पाडल् तिरट्टु -१९१५

विभिन्नेषु अवसरेषु चिदंबरेण लिखितानां गीतानां सङ्ग्रहः अस्ति एषः ग्रन्थः । पाडल् तिरट्टु नाम गीतसङ्ग्रः इत्यर्थः भवति । एषः ग्रन्थः चिदंबरेण लिखितेषु ग्रन्तेषु श्रेष्ठतमः ग्रन्थः अस्ति ।

स्वचरितम् -१९४६

अत्र भागद्वयम् अस्ति । प्रथमः भागः १९१६ तमे वर्षे प्रकाशितः । तस्मिन् तस्य बाल्यकाल विषये , अध्यापकनां , कुटुम्भस्य अध्ययन विषये लिखितम् अस्ति । द्वितीयः भागः १९३० तमे वर्षे प्रकाशितः । तस्मिन् कारागृहवासविषये , आश् हननं , कारागृहात् मोचनम् इत्यादीषु विषयेषु लिखितवान् अस्ति । तस्य मरणात् १० वर्षानन्तरम् १९४६ तमे वर्षे एषः भागः प्रकाशितः । त्तस्मिन् वर्षे भागद्वयमपि योजयित्वा प्रकाशितवन्तः ।

चिदंबरेण लिखितानि भाष्याणि

व.उ.चि. इन्निलै , शिवध्यान बोधं , तिरुक्कुरळ् इत्यादीनां ग्रन्थानां कृते भाष्यं लिखितवान् ।

इन्निलै-१९१७

व.उ.चिदंबरः रत्नकविरायेन लिखितस्य इन्निलै नाम ग्रन्थस्य कृते भाष्यं लिखितवान् । तस्य ग्रन्थस्य पठनेन चिदंबरस्य व्याकरण ज्ञानम् अवगंयते ।

शिवज्ञानबोधम् -१९३५

शिवज्ञानबोधं एकः भक्तिग्रन्थः । एतस्य ग्रन्थस्य भाष्यं चिदंबरेण अत्युत्तमतया लिखितम् । एतस्य ग्रन्थस्य विषये व.उ.चि. अघात चिन्तनं कृतवान् इत्यतः तत्त्व , भक्ति विषययोः श्रेष्ठः अभवत् । एतस्मिन् ग्रन्थे चिदंबरः मतभेदत्व विषये खण्डयति । “ अहं , मम इति येषां ममत्वम् अस्ति ते एव मतभेदत्वं कल्पयन्ति । देशस्य अस्याम् अवस्थायां भेदत्व कल्पनं हानिकरं भवति इति लिखितवान् अस्ति ।

तिरुक्कुरळ् -१९३५

पुरातन तमिळ् साहित्य ग्रन्थेषु तिरुक्कुरळ् , तोल्काप्पियम् इत्येतौ ग्रन्थौ चिदंबरस्य प्रियतमौ स्तः । तस्य भाष्येण तस्य गाढ व्याकरणज्ञानम् अवगंयते । तस्य अर्थ कथन शैली , अन्य ग्रन्थैः सह तोलन शैली , व्याकरण टिप्पण्यः च तस्य ज्ञानस्य वैशाल्यं सूचयन्ति ।

व.उ.चिदम्बरेण प्रकाशिताः ग्रन्थाः

1. तिरुक्कुरळ् ( मणक्कुडवर् भाष्य सहितम् )- १९१७ 2. तोल्काप्पियम् ( इळंपूरनार् भाष्य सहितम् ) -१९२८

चिदंबरेण लिखिताः लेखाः

व.उ.चिदम्बरं पिळ्ळै विभिन्न विषयान् अधिकृत्य विभिन्नासु पत्रिकासु लेखाः लिखितवान् अस्ति । धनस्य अभावेन ताः न प्रकाशिताः । दौर्भाग्य वशात् हस्तेन लिखिताः अपि न प्राप्यन्ते ।

व.उ.चिदंबरस्य राजनैथिक भाषणम्

चिदंबरः श्रेष्ठः भाषकः अस्ति । सेलं नगरे तेन कृतं भाषणं “ एनदु पेरुञ्चोल् “ ( मम महा वाक्यं ) नाम्नि पुस्तक रूपेण प्रकाशितम् अस्ति ।

पत्रिकायाः संपादकः व.उ.चिदम्बरं पिळ्ळै

व.उ.चिदम्बरं पिळ्ळै “ विवेकभानु “ , “ इन्दुनेसन् “ , “ दि नेशनल् “ पत्रिकासु सम्पादकः आसीत् ।

अनुवादकः व.उ.चि

व.उ.चिदम्बरं पिळ्ळै ४ पुस्तकानाम् अनुवादं कृतवान् अस्ति । तानि सर्वाणि अपि जेम्स् आलन् वर्येन लिखितानि । अनुवादने अपि सः चतुरः आसीत् ।

अवमर्शः

“ व.उ.चिदंबरस्य भाषणं , महाकवि भारतेः गीतानि च शृणोति चेत् शवः अपि जीवं प्राप्नोति “ १९०८ तमे वर्षे यदा मरणदण्डना द्वयं प्रदत्तं तदा न्यायादीशेन लिखितं वाक्यम् एतत् । एतेन चिदंबरस्य स्वतन्त्र प्राप्तेः उद्वेगः अवगंयते । चिदंबरः स्वस्य आरोग्यं , सम्पत् सर्वम् अपि देशस्य कृते एव समर्पितवान् । कठोराणि शिक्षणानि प्राप्तवान् । मातृभूमेः कृते सः सर्वं सोढवान् । सः धीरः अस्ति । स्वदेशी नौका चालने , समान्यानां कृते सङ्घर्ष चालने , कर्मकरेभयः सङ्घानाम् सम्स्थापने अग्रेसरः आसीत् चिदंबरः । काङ्ग्रेस् पक्षस्य कार्येण सह अभिप्राय भेदः आसीत् चेदपि अन्तिम श्वासपर्यन्तं काङ्ग्रेस् पक्षे आसीत् । व.उ.चि सद्गुणैः पूरितः । तमिळ्भाषायाः उपरि अपि तस्य बहु आसक्तिः आसीत् । प्राविण्यमपि आसीत् । भारतस्य नेतृणां कृते उदाहरणपुरुषः आसीत् ।

प्रथिमाः

1. चेन्नै नगरे रायपेट्टै प्रदेशे काङ्रस् कार्यालये ( १९३९ ) अस्ति । 2. तिरुनेल्वेली नगरे पाळयङ्कोट्टै प्रदेशे अस्ति । 3. चेन्नै मरीना समुद्रतटे अस्ति । 4. तूत्तुकुडी समुद्रतटे अस्ति । ( पूर्वतन प्रधानमन्त्र्या इण्द्रागान्ध्या स्थापिता ) 5. मदुरै सिम्मक्कल् प्रदेशे अस्ति । ( मुख्यमन्त्री- एम्.जी.रामचन्द्रेण स्थापिता ) 6. तिरुनेल्वेली व.उ.चिदम्बरं पिळ्ळै स्मारकभवने अस्ति । ( मुख्यमन्त्री-जेयललितया स्थापिता ) इतोपि विभिन्नेषु स्थलेषु तस्य प्रथिमाः स्थापिताः सन्ति । मार्गेभ्यः , विद्यालयेभ्यः , भवनेभ्यः तस्य नामकरणं कृतम् अस्ति ।

"https://sa.bharatpedia.org/index.php?title=व_उ_चिदम्बरम्_पिळ्ळै&oldid=10333" इत्यस्माद् प्रतिप्राप्तम्