विश्वगुणादर्शचम्पू

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

[[

VISWAGUNAADARSHA CHAMPU.jpg

search?q=vishwagunadarsha+champu&rlz=1C1ASVC_enIN915IN915&sxsrf=APq-WBu_pxeTwjFXvgwWPqrSK3DAvrpjGA:1650466566047&source=lnms&tbm=isch&sa=X&ved=2ahUKEwjc3YeL86L3AhW7aGwGHaZrAy0Q_AUoAnoECAEQBA&biw=1707&bih=757&dpr=0.8#imgrc=1-DJljv7D6orJM [[ लघुचित्रम् [[

विश्वगुणादर्शचम्पू.jpg

]] ]] ]] विश्वगुणादर्शचम्पूItalic text

विश्वगुणादर्शाख्यं प्रथितेषु पञ्चचम्पूकाव्येष्वन्यतमं संस्कृतसाहित्यक्षेत्रे गारिमाणमावहति । इदं काव्यं तत्र भवता कविना सीताम्बारघुनाथदीक्षितयोः पुत्रेण वेङ्कटाध्वरिणा आरचितं वर्तते । एषः कविः नीलकण्ठविजयचम्पूकाव्यकृतः नीलकण्ठदीक्षितस्य समकालीनः सन् सप्तदशशतके अवर्तत इति इतिहासकाराः आमनन्ति ।

विश्वगुणादर्शचम्पूकाव्यं विशिष्टं काव्यम् । यतो हि भारते स्थितानां विविधानां तीर्थक्षेत्रवर्णनं विभिन्नतया अत्र निरूपितम् अस्ति । तन्नाम कविः देशस्य विविधेषु प्रदेशेषु पर्यटनं कृत्वा देशज्ञानं, जनस्वभावज्ञानं च प्राप्तवान् आसीत् इति अनेन काव्येन निश्चप्रचं वक्तुं प्रभवामः । तथा च व्याकरणवेदान्तादिशास्त्राणां तच्छास्त्रविदां गुणदोषविवेकः तस्मिन् आसीत् इत्यपि अवगन्तुं शक्नुमः ।

विश्वावलोकस्पृहया कदाचित् विमानमारुह्य समानवेषम् । कृशानुविश्वावसु नामधेयं गन्धर्वयुग्मं गगने चचार ।

कृशानुविश्वावस्याभिधौ समानवेषौ गन्धर्वौ विमानमारुह्य विश्वावलोकनार्थम् आकाशे सञ्चरन्तौ आस्ताम् ।

तयोः स्वभावः कीदृशः आसीत् इति काव्यस्यास्य श्लोकोयं स्पष्टं वक्ति -

कृशानुरकृशासूयः पुरोभागिपदं गतः । विश्वावसुरभूद्विश्वगुणग्रहणकौतुकी ।।

कृशानुः असूयायुक्तः, दोषामात्रान्वेशकः च आसीत् । विश्वावसुः गुणग्राही, सद्गुणप्रशंसकः च आसीत् । कृशानुः ईक्षितप्रदेशे वा व्यक्तौ वा विद्यामानदोषमेव अवलोकयन् तस्य निन्दां करोति । विश्वावसुः गुणमात्रं दृष्ट्वा प्रशंसति । एवं तन्त्रम् आदृत्य वेङ्कटाध्वरिणा इदं काव्यं व्यरचि । अस्य काव्यस्य पठनेन सप्तदशशतके कीदृशाः जनाः आसन् ? तेषां जीवनशैली कीदृशी ? प्रदेशस्य वातावरणं कथम् अवर्तत? प्रदेशस्य वा जनानां वा गुणदोषाः के? इत्यादिप्रश्नेभ्यः उत्तराणि लभ्यन्ते । तथा च अस्मिन् काव्ये काव्यत्वम् अधिकं वर्तते इति कृत्वा एतत् काव्यं सहृदयानां हृदयहारि अपि अस्ति ।

तिमिरेभ्यो न हि भयं दीपश्चेल्लभ्यते महान् ।

कष्टं शिष्टक्षतिकृतिकार्श्यमृच्छन्ति विद्याः ।।

गव्यं दुग्धमपास्य पास्यति जनः को वा यवागूरसम् ।

इत्यादिसुभाषितवाक्यानि बहूनि काव्ये दृश्यन्ते इति तु अस्य काव्यपठितृणां सहृदयानां मोदाभिवृद्धै अपरं‌ कारणम् अस्ति ।

"https://sa.bharatpedia.org/index.php?title=विश्वगुणादर्शचम्पू&oldid=9874" इत्यस्माद् प्रतिप्राप्तम्