विराट् कोहली

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox cricketer विराट् कोहली (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) भारतदेशस्य क्रिकेट-क्रीडायाः कश्चित् क्रिडापटुः । तेन अनेके पुरस्काराः प्राप्ताः । तेषु अर्जुनपुरस्कारः, 'पीपल्स् चाय्स्'-पुरस्कारः च अन्तर्भवतः । एषः २००८ तमे वर्षे भारतस्य एकोनविंशतिवर्षेभ्यः लघुवयस्कानां क्रिकेट्-दलस्य नायकः आसीत् । तस्य नेतृत्वे भारतेन विश्ववैजन्ती स्वायत्तीकृता । तथा च 'इण्डियन् प्रिमियर् लीग्'-क्रीडायां 'रोयल् चेलेन्जरस् बैंगलोर'-नामकस्य दलस्य नायकः आसीत् एषः । विराट् भारतस्य लोकप्रियः क्रीडालुः वर्तते । क्रिकेट्-क्रीडा इव टेन्निस्-क्रीडा अपि तस्मै बहु रोचते । तस्य प्रियक्रीडापटुः राजर् फेडरर् वर्तते [१] । प्रथमश्रेण्याः क्रिकेट-क्रीडायां विराट् देहली-दलस्य प्रतिनिधित्वं करोति ।

क्रिकेट्-क्रीडायां योगदानम्

विराट् निकषकाले

विराट् मध्यमीयः याष्टिकः, मध्यमगत्याः कन्दुकक्षेपकः च अस्ति [२] । सः प्रथमश्रेण्याः क्रिकेट-दले देहली-महानगरस्य प्रतिनिधित्वं करोति । 'इण्डियन् प्रीमियर् लीग्'-क्रीडायां 'रॉयल् चैलेञ्जर्स् बङ्गळुरु'-दलस्य नायकः अस्ति [३] । विराट् दक्षिणदेहली अकादमी-दले अपि क्रीडति स्म । विराट् भारतीययाष्टिकेषु सर्वापेक्षया शीघ्रतया शतधावानाङ्ककर्ता अस्ति । २००८ तमे वर्षे विराट् अन्ताराष्ट्रिय-क्रिकेट्-क्रीडायाः (एकदिवसीयक्रीडा) क्रीडकः अभवत् । २०११ तमे वर्षे विश्वचषकविजेतृदले विराट् अपि क्रीडाकः आसीत् । विराट् किङ्ग्सटन्-मध्ये वेस्टइण्डिज-देशस्य विरुद्धं २०११ तमे वर्षे स्वस्य प्रप्रथमां निकषस्पर्धाम् अक्रीडत् । विराट् २०१२ तमे वर्षे 'आईसीसी'- एकदिवसीयक्रीडालुपुरस्कारस्य विजेता अभवत् । २०१३ तमस्य वर्षस्य नवम्बर-मासे विराट् प्रप्रथमम् एकदिवसीयक्रीडायाः प्रथमकमाङ्कस्य क्रीडकः अभवत् [४]

जन्म, परिवारश्च

१९८८ तमस्य वर्षस्य नवम्बर-मासस्य पञ्चमे (५/११/१९८८) दिनाङ्के भारतस्य देहली-महानगरे अभवत् [५] । तस्य पितुः नाम प्रेम, तस्य मातुश्च नाम सरोज अस्ति [६] । प्रेमवर्यः वाक्कीलः, सरोजवर्या गृहिणी च आसीत् । २००६ तमस्य वर्षस्य दिसम्बर-मासे विराजः पिता दिवङ्गतः । तस्य एकः अग्रजः विकासः, एका अनुजा भावना च वर्तेते । देहली-महानगरस्य विशालभारती-नामके विद्यालये सः अध्ययनम् अकरोत् [७]

क्रीडायाः आरम्भः

विराजः क्रिकेट्-क्रीडायाः आरम्भेषु[८] दिनेषु यदा स्वस्य पितुः निधनदिनेऽपि देहली-पक्षतः कर्णाटक-राज्यविरुद्धं रणजी-जयस्तम्भाय (trophy) क्रीडन् आसीत्, तदा तस्य निष्ठया प्रभाविताः पत्रकाराः समाचारपत्रेषु, समाचारप्रणालिषु (news channel) च विराजः उल्लेखम् अकुर्वन् । विराट् मलेशिया-देशे आयोजिते २००८ तमस्य वर्षस्य नवदशवयस्कात् लघु-क्रिकेट-क्रीडकानां विश्वचषके विजयिभारतीयदलस्य नायकः आसीत् । चतुर्थे क्रमाङ्के क्रीडन् सः सप्तचत्वारिंशत्प्रतिशतेन (४७) षड्स्पर्धासु द्विशताधिकपञ्चत्रिंशद्धावनाङ्कान् अकरोत् । तेषु धावनाङ्केषु वेस्टइण्डिज-देशस्य विरुद्धं कृतं शतकम् अपि अन्तर्भवति । खेलप्रतियोगितायां सः सधैर्यं क्रीडति । २००९ तमस्य वर्षस्य 'इमर्जिङ्ग् प्लेयर्स्-खेलप्रतियोगितायां विराट् ऑस्ट्रेलिया-देशस्य विरुद्धं भारतस्य विजये महत्त्वपूर्णां भूमिकाम् अवहत् । तस्याः प्रतियोगितायाः चरमस्पर्धायां दक्षिण-अफ्रीका-देशस्य विरुद्धं विराट् शतकम् अकरोत् । तस्यां स्पर्धायां भारतस्य सप्तदश (१७) धावनाङ्कैः विजयः अभवत् ।

अन्ताराष्ट्रियक्रीडायां वृत्तिः (career)

२००८ तमे वर्षे ऑस्ट्रेलिया-देशे 'इमर्जिङ्ग् प्लेयर्स्'-प्रतियोगितायां[९] शतकम् अकरोत् । ततः विराट् तस्मिन् एव वर्षे श्रीलङ्कायाः यात्रायै भारतस्य एकदिवसीयक्रीडादलस्य क्रीडालुत्वेन चितः । तदा सचिन तेण्डुलकर, वीरेन्द्र सहवाग च आहतौ आस्ताम् । २००८ तमे वर्षे 'आइडिया'-चषकाय श्रीलङ्का-देशस्य विरुद्धम् एकदिवसीयया अन्ताराष्ट्रियस्पर्धया विराजा स्वस्य अन्ताराष्ट्रियवृत्तेः (International Career) आरम्भः कृतः ।

स्वस्य प्रप्रथमायां स्पर्धायां सः द्वादशधावनाङ्कान् कृत्वैव 'रन् आउट्' अभवत् । तस्याः प्रतियोगितायाः चतुर्थ्यां स्पर्धायां विराट् अर्धशतकम् अकरोत् । तस्यां स्पर्धायां तस्य धावनाङ्काः चतुःपञ्चाशत् (५४) आसन् । भारतस्य तस्यां प्रतियोगितायां विजयः अपि अभवत् ।

क्रीडावेलायां युवराजेन विराट् अकस्मात् आहतोऽभवत् । ततः २००९ तमे वर्षे 'आईसीसी चैम्पियन्स्'-जयस्तम्भप्रतियोगितायां सः भागम् अवहत् । २००९ तमे वर्षे सः नियततया एकदिवसीयक्रीडालत्वेन निश्चितः अभवत् । ऑस्ट्रेलिया-देशेन सह भारते आयोज्यमानायां प्रतियोगितायां युवराजस्य पुनःक्रीडारम्भेण विराट् तस्यां श्रृङ्खलायाम् अधिकायां स्पर्धायां भागं वोढुं न शक्तवान् । परन्तु तस्याः श्रृङ्खलायाः चतर्थ्यां स्पर्धायां तेन स्वस्य प्रप्रथमं शतकं कृतम् । तस्यां स्पर्धायां तृतीये क्रमे विराट-गौतमयोः २२४ धावनाङ्कानां सहयोगः आसीत् । तस्यां श्रृङ्खलायां भारतस्य ३-१ अन्तरेण विजयः अभवत् ।

विराट् २०१० तमस्य वर्षस्य जून-मासे जिम्बाब्वे-देशे त्रिकोणस्पर्धायां भागम् अवहत् । तस्यां स्पर्धायां जिम्बाब्वे, श्रीलङ्का, भारतं च त्रिकोणियस्पर्धाम् अकुर्वन् । तस्यां श्रृङ्खलायां जिम्बाब्वे-श्रीलङ्का-देशयोः विरुद्धं सः दलस्य उपनायकत्वेन नियुक्तः अभवत् । तस्यां श्रृङ्खलायामेव विराट् एकदिवसीयक्रीडायाः शीघ्रतया एकसहस्रधावनाङ्ककर्ता भारतीयः क्रीडकः अभवत् [१०] । विराट् ४७.३८ प्रतिशतेन पञ्चविंशत्यां (२५) स्पर्धासु नवशताधिकपञ्चनवतिः (९९५) धावनाङ्कान् अकरोत् । तेषु धावनाङअकेषु त्रीणि (३) शतकानि अन्तर्भवन्ति । २०१० तमे वर्षे विराट् भारतस्य क्रीडकेषु अधिकधावनाङ्ककर्ता क्रीडकः आसीत् । २०१० तमस्य वर्षस्य जून-मासे जिम्बाब्वे-देशस्य विरुद्धं T20 श्रृङ्खलायां भारतीयदले विराट् अपि आसीत् ।

निकषस्पर्धायाः (Test Match) आरम्भः

२०११ तमस्य वर्षस्य जून-मासे, जुलाई-मासे च भारतीयदलस्य वेस्टइण्डिज-देशेन सह श्रृङ्खलायाः आयोजनम् आसीत् । तस्यां श्रृङ्खलायां सचिन तेन्दुलकर विश्रामं स्वीकृतवान् । गौतमः, वीरेन्द्रश्च आहतौ आस्ताम् । अतः नवीनानां त्रयाणां क्रीडकाणां प्रवेशोऽनुमतः । तेषु त्रिषु विराट् अपि अन्यतमः आसीत् । भारतेन सा निकषश्रृङ्खला १-० अन्तरेण विजीता । परन्तु विराट् निकषस्पर्धायाः प्रारूपे तेन बहुः सङ्घर्षः कृतः । मुख्यरूपेण सः पञ्चसु स्पर्धासु (५) भागम् अवहत् । तासु पञ्चस्पर्धासु तेन केवलं षड्सप्ततिः (७६) धावनाङ्काः कृताः । तस्यां श्रृङ्खलायां विराजः मुख्यसमस्या आसीत् वेगेन कन्दुकक्षेपकः फिडेल एडवर्ड्स् । सः वारत्रयं विराजं बहिः (Out) अकरोत् ।

२०११ तमस्य वर्षस्य इङ्ग्लैण्ड-श्रृङ्खला

२०११ तमस्य वर्षस्य जुलाई-मासस्य इङ्ग्लैण्ड-श्रृङ्खलायाम्[११] इङ्ग्लैण्ड्-देशस्य विरुद्धं भारतस्य चतस्रः निकषस्पर्धाः आसन् । परन्तु पूर्वकृतेन न्यूनधावकाङ्केन विराजः चयनं भारतीयदले नाभवत् । ततः युवराजः आहतः अभवत् । अतः विराजः दले प्रवेशः अभवत् । परन्तु सः एकस्याम् अपि स्पर्धायाम् अक्रीडत् । ततः एकदिवसीयस्पर्धायां सः अक्रीडत् । परन्तु तस्यां श्रृङ्खलायां ३-० अन्तरेण भारतस्य पराजयः अभवत् । पञ्चस्पर्धायाम् एकशताधिकचतुर्नवतिः (१९४) धावनाङ्काः विराजा कृताः । तेषु धावनाङ्केषु एकं शतकम् अपि अन्तर्भवति । तस्मिन् एव वर्षे अक्तूबर-मासे इङ्ग्लैण्ड-देशस्य दलं भारतस्य प्रवासार्थं गतम् । एवम् इङ्ग्लैण्ड-भारतदेशयोः मध्ये द्वितीयश्रृङ्खलायाः आयोजनम् अभवत् । तस्यां श्रृङ्खलायां पञ्चैकदिवसीयस्पर्धायाः आसन् । तासु पञ्चस्पर्धासु भारतस्य ५-० अन्तरेण विजयः अभवत् । विराजा पञ्चस्पर्धासु द्विशताधिकसप्ततिः (२७०) आवनाङ्काः कृता । तस्यां श्रृङ्खलायां विराट् सर्वाधिकधावनाङ्ककर्ता क्रीडालुः आसीत् । तेन तस्याः श्रृङ्खलायाः एकस्यां स्पर्धायाम् एकशताधिकद्वादश (११२) धावनाङ्कानाः कृताः ।

२०११ वेस्टइण्डिज-देशे भारतीयदलम्

२०११ तमस्य वर्षस्य नवम्बर-मासे, दिसम्बर-मासे च वेस्ट इण्डिज-देशे श्रृङ्खलायाः आयोजनम् आसीत् । तस्यां श्रृङ्खलायां तिस्र निकषस्पर्धाः, पञ्चैकदिवसीयस्पर्धाः अन्तर्भूताः आसन् । इङ्ग्लैण्ड्-देशस्य विरुद्धं पूर्वस्मिन् मासे योग्यप्रदर्शनेन विराजः चयनं वेस्ट इण्डिज्-देशस्य श्रृङ्खलायै अभवत् । निकषस्पर्धायां तु विराट् एकस्यां स्पर्धायाम् एव अक्रीडत् । तस्यां निकषश्रृङ्खलायां भारतस्य ०-२ अन्तरेण विजयः भवत् । एकदिवसीयश्रृङ्खलायां भारतस्य ४-१ अन्तरेण विजयः अभवत् । विराट् एकस्यां स्पर्धायां शताधिकसप्दश (११७) धावनाङ्कान् अकरोत् । तस्यां श्रृङ्खलायां ६०.७५ प्रतिशदा द्विशताधिकत्रिचत्वारिंशत् (२४३) धावनाङ्काः विराजा कृताः [१२]

२०११ क्रिकेट-विश्वचषके योगदानम्

२०११ तमस्य वर्षस्य विश्वचषकाय प्रथमायां स्पर्धायां शतककर्तृषु भारतीयक्रीडकेषु विराट् प्रप्रथमः क्रीडालुः अभवत् । तेन वेस्ट इण्डिज-देशस्य विरुद्धम् एकोनषष्टिः (५९) धावनाङ्काः कृताः । तस्यां स्पर्धायां तस्य युवराजस्य च एकशताधिकद्वाविंशतिः (१२२) धावनाङ्कानां सहयोगः (Partnership) आसीत् । अन्तिमस्पर्धायां तस्य, गौतमस्य च त्र्याशीतेः (८३) धावनाङ्कानां सहयोगेन भारताय श्रीलङ्का-देशस्य विरुद्धं महत्त्वपूर्णं योगदानम् अभवत् । सः ३५.२५ प्रतिशतेन नवसु (९) स्पर्धासु द्विशताधिकद्वयाशीतिः (२८२) धावनाङ्कान् अकरोत् [१३]

ऑस्ट्रेलिया-देशे अभायासश्रृङ्खला, सी.बी.-श्रृङ्खला

२०११ तमस्य वर्षस्य दिसम्बर-मासे एव ऑस्ट्रेलिया-देशस्य श्रृङ्खलायै [१४] विराजः चयनं जातम् आसीत् । मेलबर्न-नगरे प्रप्रथमा निकषस्पर्धा आसीत् । तस्मिन् दिने विरोटेन अनुभूतं यत्, निकषस्पर्धायां तस्य स्थितिः सुदृढा नास्ति इति । ततः सिडनी-नगरे द्वितीयायाम् निकषस्पर्धायां यदा विराट् क्षेत्ररक्षणं (fielding) कुर्वन् आसीत्, तदा ऑस्ट्रेलिया-देशस्य प्रशंसकाः तस्य अपमानम् अकुर्वन् । तस्य अपमानस्य प्रत्युत्तरं यच्छन् विराट् क्रोधम् अकरोत् । प्रशंसकैः कृतः सः व्यवहारः अयोग्यः आसीत् इति सिद्धे सति तस्य वेतस्य अर्धः भागः दण्डरूपेण व्यवस्थापकैः स्वीकृतः । तस्याः घटनायाः अनन्तरम् एकस्मिन् साक्षात्कारे विराट् अवदत्, "एकदिवसीयस्पर्धायां मम रीत्याः उत स्वभावस्य विषये सर्वे किमर्थं विरोधं कुर्वन्ति इति अहं न जाने । परन्तु अधुना एषा स्थितिः मम अनुभवग्रहणस्य अवस्था अस्ति । अहम् ऑस्ट्रेलिया-देशे विकटपरिस्थित्यां क्रीडन् अस्मि" इति । तस्यां श्रृङ्खलायां भारतस्य ४-० अन्तरेण पराजयः अभवत् । तस्यां श्रृङ्खलायां भारतदले सर्वाधिकधावनाङ्ककर्ता क्रीडालुः विराट् आसीत् ।

तस्याः श्रृङ्खलायाः अनन्तरमेव ऑस्ट्रेलिया-देशे एव त्रिकोणश्रृङ्खलायाः आयोजनम् आसीत् । भारतस्य दलं भारतं न प्रत्यागतम्, अपि तु तत्र स्थित्वैव निकषः कृतः । सा त्रिकोणश्रृङ्खला ऑस्ट्रेलिया-श्रीलङ्का-भारतदेशानां दलेषु आसीत् । तस्यां श्रृङ्खलायां सर्वाः एकदिवसीयस्पर्धाः आसन् । तस्यां श्रृङ्खलायां भारतीयदले सर्वाधिकधावनाङ्काः विराजा कृताः । तस्यां श्रृङ्खलायां तेन त्रिशताधिकत्रिसप्ततिः (३७३) धावनाङ्काः कृताः । तेषु धावनाङ्केषु द्वे अर्धशतके अन्तर्भवतः । तथा च एकं शतकम् अपि अन्तर्भवति । तस्यां श्रृङ्खलायां भारतदेशस्य दलम् चरमस्पर्धां यावत् नाक्रीडत् [१५]

२०१२ एशियाचषकः

२०१२ तमस्य वर्षस्य मार्च-मासे एशिया-चषकस्य आरम्भः अभवत् । तस्याः प्रतिस्पर्धायाः एकदिवसीयस्पर्धायाः उपनायकत्वेन विराट् दायित्वम् अवहत् । सः एशिया-चषके पञ्चम्यां स्पर्धायां पाकिस्थान-देशस्य विरुद्धम् एकशताधिकाष्टचत्वारिंशत् (१४८) कन्दुकेषु एकशताधिकत्र्याशीतिः (१८३) धावनाङ्कान् अकरोत् । तस्यां स्पर्धायां पाकिस्थान-देशेन त्रिशताधिकत्रिंशत् (३३०) धावनाङ्कानां लक्ष्यं भारतस्य सम्मुखं स्थापितम् आसीत् । तस्य लक्ष्यस्य प्राप्त्यै विराजा द्वाविंशतिः (२२) चतुराङ्काः, एकवारं षडाङ्काः कृताः । तस्य योगदानेन तस्यां श्रृङ्खलायां भारतस्य विजयः अभवत् । तस्यां स्पर्धायां कृताः धावनाङ्काः एकदिवसीयस्पर्धायां तस्य उच्चतमः प्राप्ताङ्कः आसीत् । एशिया-चषके एकशताधिकत्र्याशीतिः (१८३) धावनाङ्काः सर्वाधिकः व्यक्तिगतः प्राप्ताङ्कः वर्तते । पाकिस्थान-देशस्य विरुद्धं सर्वाधिकव्यक्तिगतधावनाङ्कानां विश्वविक्रमः वेस्ट इण्डिज-देशस्य ब्रायन लारा इत्यस्य नाम्ना आसीत् । परन्तु विराजा तस्य विश्वविक्रमः अतिक्रान्तः [१६]

२०१२ न्यूजीलैण्ड-देशे भारतीयदलम्

न्यूजीलैण्ड-देशे क्रीडामग्नः विराट्

न्यूजीलैण्ड-देशे द्वे निकषस्पर्धे आस्ताम् । प्रथमायां स्पर्धायां विरोटेन एकशताधिकषड्प्रतिशतेन (१०६) द्विशताधिकद्वादश (२१२) धावनाङ्काः कृताः । तेषु धावनाङ्केषु एकं शतकं, द्वे अर्धशतके च अन्तर्भवन्ति । बेङ्गळुरु-महानगरे यदा निकषस्पर्धायां सः अक्रीडत्, तदा तेन निकषस्पर्धायाः द्वितीयं शतकं कृतम् । निकषस्पर्धायाः प्रथमस्पर्धायाम् एक षडाङ्कः, चतुर्दश (१४) चतुरङ्काः च कृताः । एवं तेन एकशताधिकत्रयः (१०३) धावनाङ्काः कृताः । द्वितीयायां स्पर्धायां सः बहिरगत्वा (not out) ५१ * धावनाङ्कान् अकरोत् । तस्याम् निकषस्पर्धायां विराट् 'मैन ऑफ द मैच'-सम्माननं प्रापत् [१७]

आय.पी.एल वृत्तिः

विराजः IPL मध्ये प्रदर्शनम् (२०१५) पर्यन्तम् [१८]

विराट् 'इन्डियन प्रीमियर लीग' मध्ये आरम्भादेव 'रॉयल चैलेञ्जर बेङ्गलोर'-दलपक्षतः क्रीडति । आइ. पी. एल्. मध्ये विराट् शताधिकस्पर्धासु भागम् अवहत् । सः तस्य दलस्य नायकः अपि अस्ति [१९]

एकदिवसीयस्पर्धायां विराजः स्थितिः

वर्षः स्पर्धा धावनाङ्काः प्रतिशतम् SR महत्तमधावनाङ्काः १०० ५०
2014 21 1054 58.55 99.62 139* 4 5 94 20
2013 34 1268 52.83 97.53 115* 4 7 137 20
2012 17 1026 68.40 93.78 183 5 3 92 5
2011 34 1381 47.62 85.56 117 4 8 127 7
2010 25 995 47.38 85.11 118 3 7 90 4
2009 10 325 54.16 84.41 107 1 2 36 3
2008 5 159 31.80 66.52 54 0 1 21 1

स्रोतः: [१]

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

फलकम्:Reflist

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=विराट्_कोहली&oldid=7700" इत्यस्माद् प्रतिप्राप्तम्