विद्याविनयसम्पन्ने...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य अष्टादशः (१८) श्लोकः ।

पदच्छेदः

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८ ॥

अन्वयः

पण्डिताः विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि शुनि च एव श्वपाके च समदर्शिनः भवन्ति ।

शब्दार्थः

पण्डिताः = ज्ञानिनः
विद्याविनयसम्पन्ने = विद्याविनयाभ्यां युक्ते
ब्राह्मणे = विप्रे
गवि = धेनौ
हस्तिनि = गजे
शुनि च एव = शुनके च
श्वपाके च = चण्डाले च
समदर्शिनः = समानदृष्टयः ।


अर्थः

पण्डिताः विद्याविनयसम्पन्ने ब्राह्मणे धेन्वां गजे कुक्कुरे चण्डाले च समदर्शिनः भवन्ति । एतेषु सर्वेषु अपि समानं ब्रह्म पश्यन्ति इत्यर्थः । (विद्या आत्मनो बोधः । विनयः विषयाणाम् उपशमः ।)

शाङ्करदर्शनम्

येषां ज्ञानेन नाशितमात्मनोऽज्ञानं ते पण्डिताः कथं तत्त्वं पश्यन्तीत्युच्यते-विद्येति। विद्याविनयसंपन्ने विद्या च विनयश्च विद्याविनयौ विनय उपशमस्ताभ्यांाविद्याविनयाभ्यांसंपन्नो विद्याविनयसंपन्नो विद्वान्विनीर्तश्च यो ब्राह्मणस्तस्मिन्ब्राह्मणे गवि हस्तिनि शुनि चाव श्वपाके च पण्डिताः समदर्शिनो विद्याविनयसंपन्नउत्तमसंस्कारवति ब्राह्मणे सात्त्विके मध्यमायां च राजस्यां गवि संस्कारहीनायामत्यन्तमेव केवलतामसे हस्त्यादौ च सत्त्वादिगुणैस्तज्जैश्च संस्कारैस्तथा राजसैस्तथातामसैश्च संस्कारैरत्यन्तमेवास्पृष्टं सममेकमविक्रियं ब्रह्म द्रष्टुं शीलं येषां ते पण्डिताः समदर्शिनः ।।18।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=विद्याविनयसम्पन्ने...&oldid=100" इत्यस्माद् प्रतिप्राप्तम्