वस्त्रनिर्मलीकरणयन्त्रम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

वस्त्रनिर्मलीकारणयन्त्रस्य अन्य संस्कृतनामः क्षालनयन्त्रम् अस्ति । वस्त्राणि रजस्वेदादिभिः विविधैः कारणैः मलिनानि भवन्ति । अतः वस्त्राणां मालिन्यस्य दूरीकरणम् आवश्यकमेव । वस्त्रनिर्मलीनकरणकार्यं त्रिविधं वर्तते । प्रथमतः वस्त्राणि फेनमिश्रिते जले निमज्जनीयम् । अनन्तरं तानि वस्त्राणि अश्मोपरि वा लगुडेन वा ताडनीयानि, तदनन्तरं फेनमिश्रितस्य जलस्य निष्कासनाय शुद्धजले पुनरपि निमज्जनीयम् । ततः वस्त्रस्य जलापसरणाय निष्पीडनं करणीयम् । निर्मलवस्त्राणां शुष्कीकरणम् अपेक्षितम् ।

अस्य सर्वस्य कार्यस्य निर्वहणाय बहु परिश्रमः समयः च अपेक्षितः भवति । अतः अनायासेन समयाविलम्बेन कार्यनिर्वहणाय अद्यत्वे आपणे विद्युच्चालितानि वस्रनिर्मलीकरणयन्त्राणि उपलभ्यन्ते ।

आधुनिकं वस्त्रनिर्मलीकरणयन्त्रम्

यन्त्रपरिचयः

इदं यन्त्रं सामान्यतः पञ्चाशीति लिटर्मितं भारं वहति । इदं पेटिका इव वर्तते । अग्रभागे गोलाकारकः कवाटः वर्तते । अयं कवाटः ‘रब्बर्’ इति वस्तुना निर्मितः भवति । कवाटनिमीलनान्तरं विद्युत्तप्रवाहेण यन्त्रं कार्यम् आरभ्यते ।

सम्बद्धाः लेखाः