वर्गिस् कुरियन्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person

वर्गिस् कुरियन् मूलतः केरळीयः । १९२१ तमे वर्षे प्राप्तजन्मा एषः प्रसिद्धस्य अमुलडैरी संस्थायाः संस्थापकः अस्ति । पूर्वं क्षीरोत्पादने भारतदेशः अत्यन्तं न्यूनताम् अनुभवन् आसीत् । तादृशं विश्वे भारतदेशं क्षीरोत्पादने अग्रगण्यकरणस्य श्रेयः कुरियन् वर्यस्य एव । अतः एषः क्षीरजनः (milkman) इत्येव ख्यातः आसीत् । अमुलडैरी उत्पन्नानि न केवलं भारते अपि तु विदेशे अपि पसिद्धाः सन्ति । अस्य क्षीरोत्पादनस्य साहसेन तदानीन्तनः प्रधानमन्त्री लालबहादुरशास्त्री अत्यन्तं प्रभावितः आसीत् । कुरियन् वर्यस्य साहसगाथायै भारतदेशस्य अत्युन्नतप्रशस्तयः प्राप्ताः आसन् - पद्मश्रीः,पद्मभूषणः,पद्मविभूषणः चेति । प्रसिद्धा म्याग्सेस्सेप्रशस्तिः अपि एतेन प्राप्ता आसीत् । १९९५तमे वर्षे राष्ट्रियडैरी-अभिवृद्धिमण्डलस्य निर्देशकत्वेन कुरियन् वर्यः नियुक्तः आसीत् । २०१२ तमवर्षस्य सप्टम्बर्मासस्य नवमे दिनाङ्के भानुवासरे एषः मरणं प्राप्तवान् ।

शैक्षणिक

कुरियन्वर्यः विविधेभ्यः विश्वविद्यालयेभ्यः गौरवडाक्टरेट्पदवीं प्राप्तवानासीत् । अधः तेषां विवरणानि दत्तम् ।

वर्षम् प्रशस्तिः/ पुरस्कारः प्रशस्तिदातारः
१९९९ पद्मविभूषणप्रशस्तिः भारतीयसर्वकारः
१९९३ वार्षिक अन्ताराष्ट्रियजनः (International Person of the Year Award) World Dairy Expo
१९८९ विश्व आहार पुरस्कारः विश्व आहार पुरस्कारसमितिः, अमेरिकासंयुक्तसंस्थानम्
१९८६ वाटेलर् शान्तिपुरस्कारः कार्निजी फौण्डेषण्, नेदेर्लाण्ड्स्
१९८६ कृषिरत्नपुरस्कारः भारतस्य सर्वकारः
१९६६ पद्मभूषणप्रशस्तिः भारतस्य सर्वकारः
१९६५ पद्मश्री-पुरस्कारः भारतस्य सर्वकारः
१९६३ रमोन् मैग्सेसे-पुरस्कारः रमोन् मैग्सेसे-पुरस्कारसमितिः

बाह्यसम्पर्कतन्तुः

Others


"https://sa.bharatpedia.org/index.php?title=वर्गिस्_कुरियन्&oldid=2525" इत्यस्माद् प्रतिप्राप्तम्