वराहमिहिरसिद्धान्तः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

वराहमिहिरसिद्धान्तः ज्योतिषशास्त्रस्य कश्चन सिद्धान्तः। पञ्चसिद्धान्तिकायां वराहमिहिरेण स्वसिद्धान्तः प्रतिपादितः वर्तते। यद्यपि ज्योतिषशास्त्रे वराहमिहिरस्य सर्वातिशायि स्थानं तथापि तस्य मौलिकसिद्धान्तं तु सम्प्रत्यपि नैवास्मान् प्रसादीकरोति प्रकटनेन । तस्य पञ्चसिद्धान्तिकेति सिद्धान्तग्रन्थो लभ्यते श्रूयते च तस्य जातकार्णवो नाम करणग्रन्थोऽप्यस्तीति बृहत्संहिताऽग्रभागस्थाद् त्रिपाठिनः अवधबिहारिणोऽवतारिकालेखाज्ज्ञायते च । उक्तञ्च तेनैव बृहत्संहितायाम् -

‘वक्रानुवक़ास्तमयोदयाद्यास्ताराग्रहाण करणे मयोक्ताः'[१] इति ।

भट्टोत्पलस्तु ‘करणे इत्येतस्य पञ्चसिद्धान्तिकायाम् इति व्याख्याति किन्तु पञ्चसिद्धान्तिका हि न वराहस्य मौलिकसिद्धान्तवाहिकाऽपितु पुनरुक्तः सङ्ग्रहग्रन्थ एव । क्वचित्तु तत्र श्लोक एव ग्रन्थान्तरादनूदितो दृश्यते .यथा‘पञ्चदशाध्यायस्य त्रयोविंशतितमः श्लोकः-‘उदयो यो लङ्कायाम्०' इत्यादिः आर्यभटीयस्य गोलपादस्य त्रयोदशतमं पद्यम् । तथापि पञ्चसिद्धान्तिकायामपि वराहमिहिरस्य स्वकीयं चिन्तनमेव नास्तीति नैव वक्तुं शक्यते । तथाहि तत्रोक्तम्

‘अष्टादशभिर्बद्ध्वा ताराग्रहतन्त्रमेतदायभिः ।।

वरमिह वराहमिहिरो ददाति निर्मत्सरः करणम् ॥'[२]

इति कथनेन तस्य करणभागस्तु तस्यैव मौलिकी रचना प्रतीयते । तस्यायं प्रथमः कल्पः--

‘आकरणाद्रविभागाः दिवसाश्चारणिका रवौ कार्याः ।

अधिका यदा दिनेभ्यो भागा ज्ञेयास्तदा चक्रात् ।।' इति ।[३]

अपरत्र स सूर्यसिद्धान्तागतमध्यमग्रहे बीजसंस्कारमपि ददाति ।

यथा‘क्षेप्याः शरेन्द् (१५) विफलाः प्रतिवर्ष मध्यमक्षितिजे ।

दश दश गुरोविंशोध्याः शनैश्चरे सार्द्धसप्तयुताः ।

पञ्चद्वया (२५) विशोध्याः सिते बुधे खाश्विचन्द्र(१२० )युताः ।' इति ।

यदि हि वराहमिहिरेण स्वकीयोऽपि सिद्धान्तः प्रणीतोऽभविष्यत्तदा सौरे बीजसंस्कारो नैवापितोऽभविष्यत्, सिद्धान्ते एव संशोधितरूपप्रस्तुतिसम्भवात् । तथापि -

‘यत्तत्पर रहस्यं भ्रमति मतियंत्र तन्त्रकाराणाम् ।

तहमपहाय मत्सरमस्मिन् वक्ष्ये ग्रहे भानोः ॥

इति कथनेन तस्य मौलिक चिन्तनं प्रतिभात्येव । एवमेव---

‘प्रद्युम्नो भूतनये जीवे सौरे च विजयनन्दी ।

भग्नावतः स्फुटमिदं करणं दृष्टं वराहमिहिरेण ॥' इत्यपि ।

एतावता एतदेव सिध्यति यद्वराहः स्वसिद्धान्तप्रणयनापेक्षया प्रचलितसिद्धान्तानेव सामयिकीकृत्य गृह्णातीति । तथाकरणे तत्र यावानेव मौलिको भागस्तावानेव तस्य मौलिकः सिद्धान्तः । एतत्तु स्पष्टमेव यद्वराहः प्राचीनसूर्यसिद्धान्तमेवात्मसात्करोतीति । विशेषतो देशान्तरे छायासाधने ग्रहणे छेद्यके च स मूलतो विचिन्तयति तत्र तत्राशुद्धिसम्भवात् । परोन्नत्यसहिष्णुप्रकृतिको ब्रह्मगुप्ताचार्योऽपि वराहमिहिर नैव तथा विनिन्दति यद्यपि स वराहेण ग्रहणहेतुत्वेन भूच्छाया चन्द्रमसि प्रविष्टो राहुरित्यपि नोक्त इत्यालोचयत्येव । भास्कराचार्यस्तु तं स्तोत्यपि । ( सि० शि० १२ ) । वराहमिहिरः कामं सिद्धान्तप्रवर्तनेन नैव स्वाचार्यत्वं प्रदर्शितवान् किन्तु तस्य हि ज्योतिषाचार्यत्वं सर्वातिशायि । तस्य बृहज्जातक सम्प्रति जातकस्कन्धचूडामणित्वेन गृह्यते सर्वैः । तस्य बृहत्संहिता संहितास्कन्धस्य पृष्ठास्थि ।

वराहमिहिरेण हि प्रद्युम्नविजयनन्दिलाटदेवादीनां सिद्धान्तप्रसङ्ग मययवनमणित्थशक्तिविष्णुगुप्तदेवस्वामिसिद्धसेनजीवशर्मसत्याचार्याणां नामानि संहिताहोराप्रसङ्ग स्मृतानि, किन्तु तेषां विशेषपरिचयः कृतयश्च नाधुनाऽप्यस्माकं ज्ञाताः । आचार्यान्तरवद्वराहाचार्योऽपि स्वस्थितिकालजन्मस्थानविषये मौनमालम्बते । एतत्तु कथ्यते यत्स अवन्तीपुर्यामासीत् । यथा स एव बृहज्जातकान्ते कथयति-

‘आदित्यदासतनयस्तदवाप्तबोधः कापित्थके सवितृलब्धवरप्रसादः ।

अवन्तिको मुनिमतान्यवलोक्य सम्यक् होरां वराहमिहिरो रुचिरा चकार' ।। इति ॥ ९ ॥

किन्तु पद्येऽस्मिन् ‘चकार' इति लिटः प्रयोगेण श्लोकस्यास्य पश्चादवक्षिप्तत्वं स्पष्टयते । यदि हि श्लोकोऽयं वराहमिहिरेण स्वयं प्रणीतोऽभविष्यत्तदा ‘चकार' इत्येतस्य स्थाने अकार्षीत् अकार्ष वा प्रयुक्तमभविष्यत् । 'होरां वराहमिहिरो रुचिरामकार्षीत् यद्वा ‘होरां वराहमिहिरो रुचिरामकार्षम्' इति पाठः पूर्वपाठापेक्षया साधुतरोऽपि लगति । तेन नास्याचार्यप्रणीतत्वमिति स्पष्टमेव । अपरञ्च तत्रैव-‘मया कृतः ( २८/६ ), मया कृतं ( २८/७ ), यद्वा मया कुकृतमल्पमिहाकृतं वा' ( २८/८ ) इति उत्तमपुरुषप्रयोगप्रसङ्गे चकारेत्यन्यपुरुषप्रयोग एवाप्रासङ्गिकः । एतदप्युच्यते यत् नवाधिकपञ्चशतसंख्याकशाके वराहमिहिराचार्यों दिवं गतः इति । एतदप्युच्यते -

'स्वस्तिश्रीनृपसूर्यं सुनुजशके याते द्विवेदाम्बर-

त्रैमानाब्दमिते ( ३०४२ ) त्वनेहसि जये वर्षे वसन्तादिके ।

चैत्रे श्वेतदले शुभे वसुतिथावादित्यदासादभूद्

वेदाङ्गे निपुणो वराहमिहिरो विप्रो रवेराशिभिः ।।

किन्त्वेतदपि न विश्वासयोग्यं संवत्सरस्यैव सङ्गत्यभावात् । ज्योतिविदाभरणाख्ये ग्रन्थे वराहमिहिरस्य विक्रमार्कस्य सभासत्त्वमुक्तं किन्तु नैतदपि विश्वासास्पदं, यतो हि तत्रैव ३०६८ मितकलिगतवर्षे ग्रन्थक्रियोपक्रम उच्यते, . यद्धि २४ मितवैक्रमाब्दसंवादि । तत्रैव -

'शाकः शराम्भोधियुगो ( ४४५ ) मितो हृतो ।

मानं खतरयनांशकाः स्युः ।।

इति ४४५ शकाब्दा अपि चोल्लिख्यन्ते । स हि पञ्चसिद्धान्तिकायामार्यभट स्मरतीति ४२१ शकाब्दा एव तस्य स्थितिकालस्य पूर्वसीमा उत्तरसीमा च ५०९ मितशकोब्दः । अत एव वराहमिहिराचार्य आर्यभटसमकालिक एव ।

श्रीषेणविष्णुचन्द्रयोः सिद्धान्तः

ज्योतिषशास्त्रस्य कश्चन सिद्धान्त। यथा हि लाटदेवेन पोलिशरोमकसिद्धान्तौ व्याख्यातो, यथा च विजयनन्दिना वासिष्ठो हि सिद्धान्तः तथैव श्रीषेणेन लाटदेवात् मध्यसूर्याचन्द्रमसौ चन्द्रोच्चचन्द्रपातौ कुजबुधादीन्मध्यांश्च वासिष्ठाद्युगपातवर्षभगणान् आर्य सिद्धान्तान् मन्दोच्चपरिधिपातस्पष्टीकरणादीन् चादाय रोमकसिद्धान्तः प्रोक्तः, एतान्येवादाय विष्णुचन्द्रेण वासिष्ठसिद्धान्तः प्रोक्त इति लाटदेवविजयनन्दिश्रीषेणविष्णुचन्द्राणामपि सिद्धान्तकर्तृकत्वम् । तत्तद्विषये ब्रह्मगुप्तः कथयति -

‘पोलिशरोमकवासिष्ठसौरपैतामहेषु यत्प्रोक्तम् ।

तन्नक्षत्रानयनं नार्यभटोक्तं तदुक्तिरतः ॥'[४]

‘मेषादितः प्रवृत्ता नार्यभटस्य स्फुटा युगस्यादौ ।

श्रीषेणस्य कुजाद्याः सूर्याद्या विष्णुचन्द्रस्य ।।

दूरभ्रष्टाः स्पष्टाः श्रीषेणार्यभटविष्णुचन्द्रेषु ।

यस्मात्कुजादयस्तेषु न विदुषामादरस्तस्मात् ॥'[५]

श्रीषेणविष्णुचन्द्रप्रद्युम्नार्यभटलाटसिंहानाम् ।

ग्रहणादिविसंवादात् प्रतिदिवस सिद्धमकृत्वम् ।।[६]

'तयुगवधो महायुगमुक्तं श्रीषेणविष्णुचन्द्राचैः' ।[७]

‘कृत्वाऽपि दृष्टिकर्म श्रीषेणार्यभटविष्णुचन्द्रोक्तम् ।

प्रतिदिनमुदयेऽस्ते वा न भवन्ति दृग्गणितयोरैक्यम् ॥'[८]

तत्र लाटदेवंप्रद्युम्नविजयनन्दिनो वराहमिहिरोऽपि पञ्चसिद्धान्तिकायां स्मरतीति तेषां तत्पूर्ववतत्वं स्पष्टमेव, तथैव श्रीषेणविष्णुचन्द्रयोस्तु वराहविष्णुगुप्तांन्तरालवर्ती स्थितिकाल आचेनास्मृतत्वादन्त्येन खण्डितमण्डितत्वात् तत्सिद्धान्तयोः ।

सम्बद्धाः लेखाः

सन्दर्भाः

फलकम्:Reflist

  1. १।१०
  2. १८/६५
  3. १८/६६
  4. १४/४६
  5. २।४६-४७
  6. ११॥४६
  7. ११॥५५
  8. १०।१३
"https://sa.bharatpedia.org/index.php?title=वराहमिहिरसिद्धान्तः&oldid=3594" इत्यस्माद् प्रतिप्राप्तम्