वनस्पतिकषायम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
वनजीरिकासस्यम्
दत्तूरसस्यम्
वनस्पतिसस्यम्
काकमाचीसस्यम्

वनस्पतिपत्रैः निर्मितं कषायम् एव वनस्पतिकषायम् । एषा वनस्पतिः आङ्ग्लभाषायां Centella asiatica इति वदन्ति ।

अस्य वनस्पतिकषायस्य प्रयोजनानि

१ एतत् वनस्पतिकषायम् आरोग्यार्थं बहु उत्तमम् ।
२ वनस्पतिकषायस्य पानेन पीनसः, कासः, कफः, उदरवेदना, कीटबाधा, शिरोवेदना इत्यादयः रोगाः बहु शीघ्रम् अपगच्छन्ति ।
३ शैत्यकालस्य वृष्टिकालस्य च आरम्भे पूर्वजागरूकतायाः दृष्ट्या एतत् वनस्पतिकषायम् पातुं शक्यते ।
४ बालानां कृते मासत्रयाभ्यन्तरे वा एकवारम् एतादृशं वनस्पतिकषायं दातव्यम् ।
५ वनस्पतिकषायस्य पानेन स्मरणशक्तिः अपि वर्धते ।
६ अस्य वनस्पतिकषायस्य पानेन रोगनिरोधकशक्तिः अपि वर्धते ।
७ एतत् वनस्पतिकषायं विभिन्नैः वनस्पतिपतत्रैः पृथक् पृथक् अपि निर्मातुं शक्यते । सर्वाणि पत्राणि योजयित्वा अपि निर्मातुं शक्यते ।

अस्य वनस्पतिकषायस्य निर्माणम्

वनस्पतिपत्राणि सम्यक् कुट्टनीयानि । अनन्तरं चषकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र गुडं, जीरिकाचूर्णं, मरीचचूर्णं, हरिद्रां च योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।

"https://sa.bharatpedia.org/index.php?title=वनस्पतिकषायम्&oldid=5850" इत्यस्माद् प्रतिप्राप्तम्