वत्सराजः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox writer वत्सराजस्य किरातार्जुनीयं व्यायोगः, कपूरचरितं भाणो, रुक्मिणीहरणमीहामृगस्त्रिपुरदाहं डिमो, हास्यचूणामणिः प्रहसनं, समुद्रमथनं समवकारश्चेति कृतयो विलसन्ति। कालजराधीशेन परमर्दिदेवेन तत्पुत्रेण त्रैलोक्यमल्लेन च सभाजितोऽयं कविराजः तयोरमात्यो बभूव । परमर्दिदेवः ११६५ ख्रीष्टाब्दतः १२०२ पर्यन्तं कालजरं वीरभूमिं शशास, ततश्च १२०५ ख्रीष्टाब्दतः १२४१ पर्यन्तं त्रैलोक्यमल्लः प्रजापालकोऽभवत्।

नवमीं शताब्दीमारभ्य आ त्रयोदश्याः कालञ्जरा मध्यदेशे वीरप्रसूतयोऽप्रतिमानां काव्यप्रतिभानां भूमयश्चासत्। अत्रत्यानां चन्देलराजानां प्रथमस्तावज्जयशक्ती राजाभूद् यस्य नाम्नायं प्रदेशो जेजाकभुक्तिरित्यगीयत । द्वितीयो महान् विजेता यशोवर्मा दशम्यां शताब्द्यां बहून् भारतभागान् विजित्य खजूराभोगे विष्णुमन्दिरं निरमापयत्, तत्रैव जलाशयमप कारितवान् । तस्यात्मजो धङ्गः पितुरपि भूयान् प्रतापेन ६८६ ई० मध्ये राज्यसंघसमवेतः ‘सुबुक्तगीन' इत्येतेन सह रणलीलां चकार, खजूराभोगे देवालयांश्चापि निर्मापयामास । तदात्मजो गण्डः प्रतिहारनरपतिः राज्यपालं दण्डयितुं १०१८ अब्दे स्वपुत्रं विद्याधरं ससैन्यं प्रस्थापयति स्म । विद्याधरे च १०१९ वर्षे राज्यासीने तच्छासनावधौ ‘महमूदगजनवी' इत्यनेन द्विः कालिञ्जरा आक्रान्ताः । पश्चादेतद्वश्यः कीर्तिवर्मा प्रसिद्धिमगाद्, यदाश्रयेण प्रबोधचन्द्रोदयस्य प्रथमोऽभिनयः सम्पन्नः ।

१२२६ ख्रीष्टाब्दमभितोऽस्य वंशस्य प्रदीपो मदनवर्मा गीतविजयश्लोको ‘महोबा' पुरे मदनसागरं नाम बृहत् सरोवरं खानयामास । एतेषां राज्ञां परम्परामनुपालयन् ११६५ वर्षे परमददेवो राज्यधुरं स्वीकृतवान् । बहुशः स पृथ्वीराजचाहमानेनायुध्यत । १२०२ वर्षे ऐबकः कुतुबुद्दीनः कालजरानाक्रम्य जितवान्। १२०५ वर्षे पुण्यश्लोकप्रतापो विजयश्रीवृतस्त्रैलोक्य वर्मा कालजरान् स्वाधीनांश्चकार। उक्तेन विवरणेन भारतभुवस्तत्समये युद्धजर्जरतानुमीयते इतिहासकैरैः। राजामात्यः कविः परस्परं विजिगीषून् भारतभूमेः : शासकानवलोकयन् - औदार्य-वीर्य-रसिकाः सुखयन्तु भूपाः ।[१] न्यायोपाय-प्रवृत्ती अवनिमवनिपाः पालयन्तः प्रसक्ताः । किरा० भरतवाक्यम इति सन्दिशति । क्षत्रियाणां कृते धर्मरक्षामुपदिशन्नसौ तपःपूतत्वमायुधव्रतं च पुरस्करोति -

एकः करः कलयति स्फटिकाक्षमालां घोरं धनुस्तदितरश्च बिर्भात हस्तः।

धर्मः कराल-कलिकाल-कदर्थ्यमानः सत्क्षत्रियस्य शरणं किमिवानुयातः।।[२]

मध्यकाले कविरमात्य इति विलक्षणोऽयं मणिकाञ्चन-योगो वत्सराजमुत्कर्षभाजं विदधाति । काव्यकौतूहलो ह्यसौ समसामयिकस्य कान्यकुब्जाश्रितस्य महाविदुषः श्रीहर्षस्य सनाभितां वहति, सान्धिविग्रहिकश्च भवंश्चाणक्यं स्मारयति।

किरातार्जुनीय-व्यायोगः

महाभारतीयां कथामाश्रित्य भारविणा कृतं किरातार्जुनीयं नाममहाकाव्यं वत्सराजस्योत्प्रेरकं लक्ष्यते। श्रव्यस्य प्रबन्धस्य दृश्यतां कवयन्नसौ यथापेक्षं परिवर्तयति, नवं कल्पयति, युगानुरूपं चादधाति स्वादुत्वम् । अस्त्येव कश्चिद् वाग्विशेषो येन रसिकानां मनसि प्रत्यग्रैव कापि रसस्फूर्तिरुज्जागर्ति सर्वाङ्गीणं परिष्वजमाना। अहो अस्य प्रसादगुणाग्रहः -

अपार्थः पार्थोऽहं धनुरधिगुणं निगुणमिदं विसारा एतेऽपि प्रसरणपराः सम्प्रति शराः।

न यावन्नो राजा समरभुवि कौरव्य-बलवत्कबन्धानां नृत्यैरनुभवति नेत्रोत्सवसुखम्॥

अस्त्येव किंचित् कविकर्मलाघवं यद् विरोधाभासेऽपि अविरोधि भवति रससिद्धेः । अपि च वराहवर्णने -

कुद्दालीयति सान्द्रकन्दपटले, बाढं कुठारीयति

स्कन्धाग्रेषु, परश्वधीयत शिखाशाखास सम्पातिनी।

दंष्ट्रेय विकटाकिटेः प्रतिपदं मार्गदुमद्रोणिषु

कुरक्रूरपराक्रमप्रणयिनी किं किं न सम्पद्यते।।

इति नामधातूनां प्राचुर्येऽपि प्रासादिकता नैव हीयते । अपार्थाधीनामेव कामावाप्तिमुद्दिशन् वत्सराज इमं व्यायोगं विरचितवान् । अत एवायं वीररसमेव प्रधानीकृत्य प्रस्तावयति -

येनोत्तम्भित-दुर्मदान्धकतनुच्छत्रस्य दण्डायितं

यत् प्राप्यायुधमङ्गनापि दनुजध्वंसं चकाराम्बिका।

यद् दृष्ट्वैव विडौजसो लिखितवद् दम्भोलिरासीत् करे

चन्द्रार्धाभरणस्य तद् भगवतः शूलं शिवायोस्तु वः।।

कपूरचरितभाणः

कपूरचरिताख्यो भाणो वत्सराजस्यापरा कृतिर्नीलकण्ठयात्रामहोत्सवे समवेतानां विदग्धरसिकानामभिलाषं पूरयितुमभ्यनीयत प्रातःकाले। अत्र विदेशादागतस्य कर्पूरकस्य नाम धूर्तस्य चन्दनकेन धूर्तेन सहालाप आकाशभाषितरीत्यावजितः। छद्मव्यापारेणैव महान्ति कार्याणि काम-राम-विष्णुप्रमुखाः देवाः अपि साधयांचक्रुः इति धूर्त मायामहिमानं स्तुवन्नेकाकी द्यूतशालामभिव्रजन् कर्पूरकश्चन्दनकेनाभिमुखायातेन तदाहूतेन द्यूतागारेऽनुपस्थितस्य ते मुखमपि न द्रष्टुमीहे, किमिव त्वमासप्ताष्टदिवसमनुपस्थितो द्यूतं छलयसीयुक्तो दारिद्र्योपहतत्वान्नागन्तुमुदसहे' इति प्रत्युवाच । विलासवत्या समर्पित-स्वसुमनोमाल्यस्य किं ते हीयते ? इति चन्दनकेन प्रेरितः कर्पूरकः क्रोडगतां वीणां दर्शयन्नवोचत् - अनया वादितया मे प्रिया गायति -

रतिरमणप्रियसुहृदा शशाङ्कसुभगेन निर्वृतिकरेण।

कर्पूरकेण वियोगो भगवति रुद्राणि मा भवतु॥[३]

अथ च पौनःपुन्येन द्यूते दत्तपराजयां विलासवतीं समाश्लेषणमजैषमिति, इयं विलासवती चन्द्रमसो व्याजेन मामुपालभत इति च सौभाग्यं स्वमुख-कन्दरेण बहिर्गमय्यासो भूयिष्ठं स्वाचरितपूर्वं धूर्ताचारं वर्णयितुमारेभे। कविकर्मकौशलमलङ्कारनैपुणीमनुरुणद्धि। सा च वत्सराजमुनुरुन्धती चकास्ति । यथा -

इहास्ति नूनं तुहिनांशु-बिम्बे कलङ्कधूमानुमितो हुताशः।

अस्यांशुपूरः कथमन्यथासौ ज्वालावली-डम्बरमातनोति॥[४]

अनेन भाणेन कविः धूर्तवञ्चनाजालादात्मानं रक्षितुमुपदिशति लोकम् -

उत्सङ्गे सिन्धुभर्तुर्वसति मधुरिपुगढमाश्लिष्य लक्ष्मीम्

अध्यास्ते वित्तनाथो निधिनिवहमुपादाय कैलासशैलम्।

शुक्रः कल्पद्रुमादीन् कनकशिखरिणोऽधित्यकासु न्यधासीद्

धूर्तेभ्यस्त्रासमित्थं दधति दिविषदो मानवाः के वराकाः।।

रुक्मिणीहरणेहामृगः

वत्सराजस्य कृतिरेषा रुक्मिणीहरणाख्य ईहामृगो वर्तते । विरला एवेहामृगा लभ्यन्ते। भासस्य प्रतिज्ञायौगन्धरायणमहामृगो निगद्यते कैश्चिन्न सर्वसम्मतिं दधाति । शास्त्रेषुदाहृतास्ते न प्राकाश्यमायान्तीति वत्सराजस्येयं कृतिर्महत्त्वं भजते ।

हरिवंशपुराणे भागवतादौ च कथानकमिदमीहामृगोपयुक्तमेव वर्तत इति तत एवादाय वत्सराज ईहामिमां रूपयति। मूलकथायां सुबुद्धि-संवत्सला-गरुडादीनि पात्राणि चित्रप्रकरणं च विनियोज्य स्वयंवर-गन्तुकामानां राज्ञां यात्रावर्णनं च प्रकल्प्य नवतामभिनयोत्कर्षं च सम्पादयति कविः।

एकोक्तयो, निरर्थकघटनागुम्फनेन अर्थोपक्षेपकैश्च रूपकमिदं बृहदीकृतम् । काव्य-योजनालोभोऽपि वत्सराजं विस्ताराय प्रयोजयति । यदि काव्यसौष्ठवमुन्मीलयितुमेवाग्रहः तर्हि साफल्यं भजत्येव कवेः। यथा गरुडः शक्तिं विकत्थते -

पक्षानिलैः प्रसभमम्बु निधिं धुनोमि त्वं चेदधोभुवनजिष्णुतयोत्सकोऽसि।

उत्कण्ठितोऽसि यदि तेषु तदानयामि तानिन्दुशेखर-विरञ्चि-पुरन्दरादीन्॥[५]

त्रिपुरदाहं डिमः

वत्सराजस्य चतुरङ्कोऽयं डिमस्त्रिपुरदाहं रचितपूर्वस्य कस्यापि डिमस्यानुपलब्धेरैतिहासिकदृष्ट्या महत्त्वं भजते । पौराणिकं कथावस्तु दृश्यरूपेण प्रणयन् देवानां संघबद्धं प्रयासं निबध्नन् नारदादीनि कपटपात्राणि कपटत्रिपुरीं च प्रथयन् कविः तात्कालिकीं रुचिं राजनीतिकीश्च स्थितीरनुवदति । दशम्यां शताब्द्यां राजसंघं निर्माय धङ्गेन यथा सुबुक्तगीनः पराभूतस्तथा देवा अपि संघशक्त्या त्रिपुरं विजेतुं प्राभवन्निति।

नाट्यशिल्पमधिकृत्य केचन विशेषाः परिलक्ष्यन्ते । यथा त्रिपुरदाहस्य प्रथमयोरङ्कयोः अधमपात्रद्वयकृतोऽर्थोपक्षेपको विष्कम्भकनाम्ना दशितः । शास्त्रदृशा तेन प्रवेशकेन भाव्यम् । रङ्गमवतरिष्यतः पात्रस्य पूर्वसूचना केनापि व्याजेन ददत् कविः पूर्वनाट्यकारानतिशेते। अत्र चूलिकाभिर्भाविभूतघटनानां सूचनापि भूयसी कृता। कपटपात्राणां कुटनारद-ब्रह्मादीनां प्रयोगः किमपि औत्सुक्यं वर्धयन्तीमभिख्यां तनोति। तृतीयेऽङ्के सर्वतापो दानव आग्नेयास्त्रं प्रयुक्ते । तन्निबर्हणाय कुमारेण बाणवर्षा तन्यत इति रंगे युद्धाभिनयो सविशेष एव । किं च स्वप्नशकुनादयः पूर्वसूचनायै प्रयुक्ता नव्यं तत्त्वमेव । छायात्रिपुर्याः कुटत्रिपुर्याः वा समायोगेन छायानाट्यत्वं स्पष्टमेव शोभते। हिमालयोऽपि मानवरूपो भाषते । यथा -

अहह किमिह कुर्मो नायकस्यामराणां

कुलिश-दलित-पक्षाः पङ्गवो यत् कृताः स्मः।

असम-चय-भराढ्याः स्वैरमुड्डीयमानाः

किमुत दनुजसार्थं खेचरं चूणयामः॥[६]

समेषां राज्ञां संघ एव विजातीयेषु जयिनीं श्रियमधिकरोति, नैकः कोऽपि प्रभुरिति सामयिकं सन्देशं दधाति कविः -

वैकुण्ठः पद्मजन्मा त्रिदशपरिवृढः पावकः प्रेतनाथो

रक्षो वारामधीशः पवनधनपती सूर्यचन्द्रौ कुमारः।

धर्मः शेषाद् विराजावहमपि तरलः षोडशः कौतुकार्थी

मामेवैक किमित्थं त्रिपुरदधविधौ श्लाघसे नारद त्वम्॥[७]

हास्यचूडामणिप्रहसनम्

फलकम्:Main

हास्यचूडामणिप्रहसनम् अङ्कद्वयात्मकं वत्सराजस्य अनुत्तमा कृतिर्भगवदज्जुकीयादनन्तरं प्रशस्तिमर्हति। नीलकण्ठयात्रोत्सवे प्रभातवेलायामस्याभिनयः परमददेवेन कारितः ।

समुद्रमथन-समवकारः

समुद्रमंथननामा वत्सराजस्याङ्कत्रयग्रथितं समवकारकोटिकं प्रथमं रूपकम् । परिमर्दिदेवस्य परितोषायैष प्रत्यूषेऽभ्यनीयत । कथानकं तु पुराणप्रसिद्धमादाय कविना रूपकायितम्।

कथावस्तु

देवाः, असुराश्च समुद्रमथनेन भूयिष्ठां रत्नोपलब्धिं सम्भाव्य ब्रह्म-हरिहरैः सम्मन्त्र्य मन्दरेण मन्थनीकृतेन प्राक्रामन्त यथाविनियोगम् । विष्णुपदी समुद्रपत्नी लक्ष्म्याश्चित्रं विष्णुं तस्य च तां दर्शयित्वा परस्परेण स्पृहणीयतां निनाय। जलकुञ्जरमारूढा लक्ष्मी रुद्राणीं पूजयितुं लज्जाधृतिभ्यां समुद्रादुज्जगाम । अर्चन्ती च सा गाथां पपाठ -

तह अच्चिदा सि पव्वदि लच्छीए विविहकुसुममालाहिं ।

अच्चेदु तुअ पसाआ जह कण्हं णअणकमलेहि।।[८]

इत्यनन्तरं परिचरेणार्पिते चित्रे सा कृष्णमपूजयत् । ततो वात्याचक्रेणान्धीकृतदशदिशा वृक्षानुत्पाट्य नभो नयता भीषिता लक्ष्मीः सागरोत्संगं गता।

अथ वृत्ते मन्थने लक्ष्मीः विष्णुमभि, अमृतमसुरानभि, विषं च शिवमभि कृतम्। नाम्ना मोहिनिका कपटकामिनीरूपो हरिरसुरान् प्रवञ्च्य सुधां ग्रहीतुं गरुडेन निपुणिकानाम्ना सख्यानुयातो ययौ। तत्र च बलिः कुजम्भेन परिचरेण सद्वितीयः प्राप्तः । कामिनीं तां प्रेक्ष्योत्कमना स निपुणिकया सूचितः - लक्ष्म्या इयं स्वसेति । पुनश्च तां स्वप्नदृष्टं युवानं प्रत्यासक्तामवोचत् -

अग्धादि करुणअं का झंपवि का मलअगंधवहं।

का जीविदे सतण्हा कलअंठ-कुहू-झुणिं सुणइ॥ [९]

किञ्च, त्वामेव ननु सा स्वप्ने ददति च निशम्य बले रागोऽवर्धत। अत्रान्तरे सुधाप्राशनायाहूतो बलिः । तत्र शुक्राचार्यो बलेर्मुखात् प्रणयवृत्तं श्रुत्वा तं सम्यक् प्रोत्साहितवान् । नेपथ्ये तावदेव श्रुयते स्म - युद्धे दानवाः सर्वे पराजिता देवैः दिशो नीताः, समुद्राच्च लब्धं रत्नजातमाच्छिद्य स्वायत्तीकृतमिति । आकर्ण्य च बलिः सुधाकुम्भं मोहिनिकायां निक्षिप्य देवान् विजिगीषुः स्वसैन्यान् | सर्वाश्च सहायानामन्त्रयांबभूव । सा मोहनिकां सप्रणयमुवाच -

पीयूषमेतद् दयिते गृहाण त्वमेव पीयूषमिदं वृथा मे।

सम्पूर्णकामा कतिचिन्मुहूर्तैः भव प्रिये, यामि रणोत्सवाय।।[१०]

इति कलशमादाय सा द्वित्राणि मुहूर्तानि त्वां प्रतीक्ष्यानागते त्वयि निरुपायमिदं शरीरमग्निसात् करिष्यामीति तं सान्त्वयांबभूव । गते बलौ विलम्बिते च तत्प्रत्यागमने मौहनिकाग्निमाहूय कृततत्प्रवेशनिश्चया बभूव शुक्राचार्येण प्रत्यागमिष्यन्तं बलिं प्रतीक्षितुमुक्तापि मैवं वदाचार्य, इति ब्रुवती प्रवेशं च नाटयन्ती प्रविलुप्ता । शुक्रोऽशोचत् -

धिग् धिक् सुधां वार्धि-विलोडनोत्थां धिग धिक् च तद् दुर्लभ-वस्तु-जातम्।

किं नाम नाप्तं दनुज-प्रवीरैः वैकुण्ठ यत् त्वं महिलाकृतोऽसि॥ [११]

ततः शुकः शिवरूपमात्मनो विधाय विष्णुं प्रति प्रावोचत् -

कृष्ण कृष्ण विलीयन्ते ममाङ्गानि विषोष्मणा।

देहि देहि तदेतन्मे पीयूषं किं विलम्बसे।।[१२]

इति शृण्वन् भगवति शिवे कः कालकूटस्य प्रभाव इति विमृशन् ध्यानेन शुक्रं कपटशिवरूपं जानन् निर्भर्त्स्यापसारयामास हरिः

अथ समुद्रः शिवेनानुज्ञातो विष्णवे लक्ष्मीः कौस्तुभं च, वरुणाय वारुणीं, सर्पेभ्यो विषमग्नये च पीयूषं विभज्य ददौ।

सम्बद्धाः लेखाः

नाट्यशास्त्रम्

वङ्गप्रदेशः

साहित्यम्

संस्कृतम्

उद्धरणम्

फलकम्:Reflist

फलकम्:शिखरं गच्छतु

  1. स० म० ३.१४
  2. किरा० ३६
  3. १०
  4. १२
  5. ४.२१
  6. १.३५
  7. ४.२२
  8. १.१२
  9. २५
  10. २.१२
  11. २.१६
  12. ३.७
"https://sa.bharatpedia.org/index.php?title=वत्सराजः&oldid=9389" इत्यस्माद् प्रतिप्राप्तम्