संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा...
१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् ।
६.लिङ् । ७.लोट् । ८.लुट् । ९.ऌट् । १०.ऌङ् ।
एते दश लकाराः द्विधा विभक्ताः सन्ति ।
- सार्वधातुकाः / सविकरणकालार्थाः
- अर्धधातुकाः / अविकरणकालार्थाः
तत्र लोट् लकारः विधिं (आज्ञां प्रार्थनां च) बोधयति ।
पठ् धातोः लोट् लकारे रूपाणि
लट् लकारः(परस्मैपदम्) |
एकवचनम् |
द्विवचनम् |
बहुवचनम्
|
प्रथमपुरुषः |
पठतु/पठतात् |
पठताम् |
पठन्तु
|
मध्यमपुरुषः |
पठ |
पठतम् |
पठत
|
उत्तमपुरुषः |
पठानि |
पठाव |
पठाम
|
लट् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लोट् लकारः(परस्मैपदम्) |
एकवचनम् |
द्विवचनम् |
बहुवचनम्
|
प्रथमपुरुषः |
तु/तात् |
ताम् |
अन्तु
|
मध्यमपुरुषः |
- |
तम् |
त
|
उत्तमपुरुषः |
आनि |
आव |
आम
|
सेव् धातोः लोट् लकारे रूपाणि
लोट् लकारः(आत्मनेपदम्) |
एकवचनम् |
द्विवचनम् |
बहुवचनम्
|
प्रथमपुरुषः |
सेवताम् |
सेवेताम् |
सेवन्ताम्
|
मध्यमपुरुषः |
सेवस्व |
सेवेथाम् |
सेवध्वम्
|
उत्तमपुरुषः |
सेवै |
सेवावहै |
सेवामहै
|
लोट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लोट् लकारः(आत्मनेपदम्) |
एकवचनम् |
द्विवचनम् |
बहुवचनम्
|
प्रथमपुरुषः |
ताम् |
इताम् |
अन्ताम्
|
मध्यमपुरुषः |
स्व |
इथाम् |
ध्वम्
|
उत्तमपुरुषः |
ई |
आवहै |
आमहै
|
इमे अपि पश्यन्तु