लियाण्डर् पेस्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Use Indian English फलकम्:Use dmy dates फलकम्:Infobox tennis biography

लियाण्डर् पेस् भारतस्य प्रसिद्धः लानं टेन्निस् क्रीडालुः वर्तते ।

बाल्यम्

लियाण्डर् पेस् १९७३ तमे वर्षे जून्-मासस्य १७ दिनाङ्के गोवाराज्ये जन्म प्राप्तवान् । अस्य पिता वेस् पेस् (Vece Paes), माता जेनिफर् पेस् (Jennifer Paes) । अस्य पालनं, पोषणं कोलकतानगरे अभवत् । अस्य उन्नतविद्याभ्यासः कोलकतायाः लोयला-महाविद्यालये अभवत् । अस्य पिता हाकीक्रीडालुः । अस्य माता बास्केट्बाल्-क्रीडालुः । १९८५ तमे वर्षे लियाण्डर्-वर्यः चेन्नैनगरे बृटानिया अमृतराज् लानं टेन्निस् संस्था इत्यत्र नामाङ्कनं कृतवान् । एषः डेव् ओमेरा(Dave O'Meara)वर्यस्य मार्गदर्शनं प्राप्तवान् ।

अन्ताराष्ट्रियचरितम्

१९९०

१९९१-१९९७

  • १९९१ तमे वर्षे वृत्तिजीवनक्रीडायां निपुणतां प्राप्तवान् ।
  • १९९२ तमे वर्षे ओलम्पिक्-क्रीडोत्सवः बार्सेलोनानगरे रमेशकृष्णन्वर्येण सह पुरुषाणां युगलप्रागुपान्त्यक्रीडा पर्यन्तं क्रीडितवन्तौ ।
  • १९९३ तमे वर्षे प्रथमवारं ए टि पि सर्क्यूट्क्रीडायां यू एस् ओपन् युगलक्रीडायां सबास्टियन् लुरो(Sébastien Lareau)वर्येण सह क्रीडितवान् ।
  • १९९६ तमे वर्षे अट्लाण्टा नगरे ओलिम्पिक्-क्रीडोत्सवे फर्नाण्डो मेलिजिनि (Fernando Meligeni) विरुद्धं जयं प्राप्य कांस्यपुरस्कारं स्वीकृतवान् ।

१९९८-२००२

  • १९९८ तमे वर्षे पुरुषाणां युगलक्रीडायां त्रिषु ग्राण्ड्स्लां प्रागुपान्त्यपर्यन्तं लियाण्डर्, महेशभूपतिः च क्रिडितवन्तौ । ते,
  1. आस्ट्रेलियन् ओपन्
  2. फ्रेञ्च् ओपन्
  3. यू एस् ओपन्
  • लियाण्डर्-वर्यः अत्युत्तमतया द्वौ ए टि पि क्रीडायां क्रीडितवान् । तौ,
  1. न्यूपोर्ट्(Newport),संयुक्त अधिराज्य
  2. पीट् साम्प्रस्(Pete Sampras) विरुद्धं न्यूहेवन्(New Haven),संयुक्तानि राज्यानि स्थाने जितवान् ।
  • १९९९ तमे वर्षे[विम्बल्डन् क्रीडीयां,फ्रेञ्च् ओपन् क्रीडायाञ्च प्रथमवारं भारतदेशारत् पुरुषाणां युगलक्रीडायां जयं प्राप्तवान् ।
  • पुरुषमहिलानां मिलितः युगलक्रीडायां लिसा रेमण्ड्(Lisa Raymond) सह विम्बल्डन्क्रीडायां जितवान् । विश्वश्रेण्यां १ स्थानञ्च प्राप्तवान् ।
  • २००२ तमे वर्षे [[दक्षिणकोरिया देशे बूसन्(Busan)नगरे पुरुषाणां युगलक्रीडायां महेशभूपतिना सह स्वर्णपुरस्कारं प्राप्तवन् ।

२००३-२००७

  • २००३ तमे वर्षे मार्टिना नव्राटिलोवा(Martina Navratilova) सह आस्ट्रेलियन् ओपन् क्रीडा, विम्बल्डन् पुरुषमहिलानां मिलितः युगलक्रीडायां जयं प्राप्तवान् ।
  • २००४ तमे वर्षे यवनदेशे, अथेन्स् नगरे ओलिम्पिक्-क्रीडोत्सवः] पुरुषाणां युगलक्रीडायां महेशभूपतिना सह प्रागुपान्त्यक्रीडा पर्यन्तं क्रीडतः ।
  • २००६ तमे वर्षे यू एस् ओपन् पुरुषाणां युगलक्रीडायां मार्टिन् डाम्(Martin Damm)क्रीडालुः सह सम्यक्तया क्रीडा प्रदर्शनं दत्तवान् ।
  • २००६ तमे वर्षे एशियन् क्रीडायां कतार्-देशे दोहा(Doha) नगरे पुरुषाणां युगलक्रीडायां महेशभूपतिनासह स्वर्णपुरस्कारं प्राप्तवान् ।
  • २००६ तमे वर्षे एशियन् क्रीडायां कतार्-देशे दोहा(Doha)नगरे पुरुषमहिलानां मिलितः युगलक्रीडायां सानिया मिर्जावर्यायाः सह स्वर्णपुरस्कारं प्राप्तवान् ।
  • २००५ तमात्वर्षादारभ्य २००७ तमवर्षपर्यन्तं विश्वश्रेण्यां युगलक्रीडायां २० तमस्थानं रक्षितवान् ।

२००८

२००९

  • यू एस् ओपन्, फ्रेञ्च् ओपन् क्रीडायाञ्च पुरुषाणां युगलक्रीडायां लुकास् ड्लाव्(Lukáš Dlouhý) सह जितवान् ।
  • यू एस् ओपन् पुरुषमहिलानां मिलितः युगलक्रीडायां सान्त्वानपुरस्कारं प्राप्तवान् ।

२०१०

  • आस्ट्रेलियन् ओपन् पुरुषमहिलानां मिलितः युगलक्रीडायां कारा ब्लाक्(Cara Black) वर्यायाः सह जितवान् ।

२०१२

अभिनयनम्

लियाण्डर्-वर्यस्य अभिनयने अपि इच्छा आसीत् । सः अशोककोह्लिवर्यस्य राजधानी एक्स्प्रेस्स् हिन्दीचलनचित्रे अभिनयनं कृतवान् । तस्मिन् चलनचित्रे तस्य नाम केशवः आसीत् ।

"https://sa.bharatpedia.org/index.php?title=लियाण्डर्_पेस्&oldid=3023" इत्यस्माद् प्रतिप्राप्तम्