लाभशङ्कर ठाकर

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


लाभशंकरः ठाकरः

लाभशंकरः जादवजी ठाकरः गुजरातस्य प्रख्यातः साहित्यकारः वर्तते । सः कविः, नाट्यकारः, नवलकथाकारः, निब्धन्धकारः, आयुर्वेदचिकित्सकश्च आसीत । तस्य जन्म सुरेन्द्रनगरमण्डलस्य पादडीग्रामे अभूत् । तस्य जन्म १४-१-१९३५ तमे वर्षे सेडलाग्रामे अभूत् ।

शिक्षणम्

लाभशंकर: गुजरातीविषयम् अधिकृत्य १९५७ तमे वर्षे स्नतकः, १९५९ तमे वर्षे अनुस्नातकः, १९६४ तमे वर्षे शुद्धे आयुर्वेदिके डिप्लोमापदवीम् प्राप्त्वान् ।

उद्योग:

लाभशंकर: ठाकर: प्राय: ७ वर्षाणि अहमदाबाद् नगरस्य निविधेषु महाविद्यालयेषु प्राध्यापक: आसीत् । तरनन्तरं स्वीये चिकित्सालये आयुर्वेदिकचिकित्सकत्वेन उद्योगं कृतवान् ।

परिचयः

सप्तमे दशके गान्धियुगस्य सौन्दर्यपद्यानि विहाय आधुनिकप्रकृतेः काव्यानि अवलोक्य कवयः गुजरातीकाव्यानि प्रविष्टाः । तेषु लाभशङ्कर ठाकर: एकतम: आसीत् । बहुषु कृतिसु छन्दसाम् उपयोग:, साम्प्रतात् अतीतं प्रति गमनं, प्रकृते: तत्त्वानि प्रति आकर्षणम् इत्यादित्वात् पुरोगामिकाव्यै: सह अनुसन्धानं रक्षति कवि: । तथापि ‘तडको’ रचना परम्परां भित्त्वा प्रयोगशीलतां प्रति गतिं कुर्वती शक्ति_ वर्तते । छान्दस-अछान्दमिश्रिता:, कल्पनाप्रधाना वाच्यार्थे अतार्किली शैल, गाम्भीय्, प्रमोद:, लयवैविध्यं व्यक्तित्वस्य खण्डितता निर्भ्रान्तेश्वे अनुभव: इत्यादिल्क्ष्‌अणयुक्ता: कृतय: कविंम् आधुनिककविषु अग्रेसरं कुर्वन्ति ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=लाभशङ्कर_ठाकर&oldid=3346" इत्यस्माद् प्रतिप्राप्तम्