लभन्ते ब्रह्मनिर्वाणम्...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य पञ्चविंशतितमः (२५) श्लोकः ।

पदच्छेदः

लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥'

अन्वयः

क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाणं लभन्ते ।

शब्दार्थः

क्षीणकल्मषाः = नष्टपापाः
छिन्नद्वैधाः = अपगतसंशयाः
यतात्मानः = जितेन्द्रियाः
सर्वभूतहिते = सर्वभूतसुखे
रताः = आसक्ताः
ऋषयः = मुनयः
ब्रह्मनिर्वाणम् = मोक्षम्
लभन्ते = प्राप्नुवन्ति ।

अर्थः

येषां पापानि विनष्टानि सन्ति, संशयाः च विनष्टाः, चित्तं च नियन्त्रितम् अस्ति, ये सर्वभूतानां हिते रताः सन्ति ते ब्रह्मवेत्तारः ऋषयः मोक्षं प्राप्नुवन्ति ।

शाङ्करदर्शनम्

किंच लभन्ते ब्रह्मनिर्वाणं मोक्षमृषयः सम्यग्दर्शिनः समन्यासिनः क्षीणपापादिदोषाश्छन्नद्वैधाश्छन्नसंशया यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषांरभूतानां हित आनुकूल्ये रता अहिंसका इत्यर्थः।।25।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु