लदाख

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

लदाख् वा लद्दाख़् (लदाखी - ལ་དྭགས; फलकम्:Lang-en) भारतत्वेन केन्द्रशासितप्रदेशेन प्रशासितः प्रदेशः यत् बृहत्तरस्य कश्मीरप्रदेशस्य भागं भवति, १९४७ तः भारतम् पाकिस्थानम् चीन मध्ये विवादस्य विषयः अभवत् च । अल्पः तिब्बतः (Little Tibet), चन्द्रभूमि (the Moonland), अन्तिम शाङ्ग्रीला (Last Shangrila) इत्येतानि लदाख् प्रदेशस्य अपरनामानि । एषः प्रदेशः टिब्बतदेशसंस्कृतियुक्तः अस्ति । पूर्वं चीनदेशं गन्तुम् एषः प्रदेशः मार्गस्थं विश्रान्तिधाम आसीत् । अधुना सार्वजनिकानां प्रवेशः नास्ति । केवलं सैनिककेन्द्रम् अस्ति । लेहराजगृहे सर्वजनानां प्रवेशः अस्ति । अत्र आगन्तु विमानसौकर्यमस्ति । श्रीनगरतः ४३४ कि.मी दूरे एषः प्रदेशः अस्ति । अत्र समीपे ‘गोम्पा’ (बुद्धमन्दिरम्), बुद्धस्य विग्रहाः च सन्ति । समीपे अनेकस्थलेषु “गोम्पाः” बुद्धमन्दिराणि सन्ति ।

२०१९ अगस्तमासे जम्मूकाश्मीरपुनर्गठनम् अधिनियमानुसरणं लद्दाखस्य स्थापना भारतस्य केन्द्रशासितप्रदेशरूपेण कृता । ततः पूर्वं जम्मूकाश्मीरराज्याः भागः आसीत् । लद्दाखः बृहत्तमः द्वितीयः न्यूनतमः जनसंख्यायुक्तः भारतस्य केन्द्रशासितप्रदेशः च ।

कालः

जूनमासतः सप्तम्बरपर्यन्तम् एव अत्र वासः कर्तुं शक्यते । अन्यमासेषु अतीवशैत्यं भवति ।

सम्बद्धाः लेखाः

उल्लेखाः

"https://sa.bharatpedia.org/index.php?title=लदाख&oldid=3538" इत्यस्माद् प्रतिप्राप्तम्