लक्ष्मणसेनः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox royalty

लक्ष्मणसेन वङ्गप्रदेशस्य अन्तिमहिन्दूराजत्वेन प्रसिद्धः। नृपबल्लालसेनादनन्तरं तदात्मजः ‘लक्ष्मणसेनः' योग्यतापुरःसरं गौडक्ष्मां ररक्ष । ख्रीष्टस्य सप्तत्यधिकैकादशाब्देऽयं राज्यसिंहासनारूढोऽभवत्। त्रिंशद्वर्षाणि ( ३० ब० ) स राज्यं चकार । लक्ष्मणसंवदब्दप्रतिष्ठापकोऽयं लक्ष्मणसेनः कृत्याकृत्यविवेक्ताऽभूत् । तद्राजमन्दिरे कश्चिदपि मलिनच्छिन्नवस्त्रो वा निर्हेमभूषणो वाल्यपरिच्छदो वा न व्यलोकि। आर्तेभ्यो मुक्तहस्तो दानं ददौ। तदीये शासनकाले प्रजाजनः सन्तोषस्य वृद्धेश्चाभ्युन्नतिम् असाधयत् । असौ त्रिंशद्वर्षाणि शासनं विधाय ख्रीष्टस्य द्वादशशततमे वर्षे परलोकम् अयासीत् । हलायुधः गौडक्षितिपालस्य लक्ष्मणसेनस्य धर्माध्यक्षः आसीत्। लक्ष्मणसेनस्य समयः वि० स० १२२७-१२३७ (ईशवीयस्तु ११७०-१२°° ) विद्यते।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=लक्ष्मणसेनः&oldid=279" इत्यस्माद् प्रतिप्राप्तम्