रेणुकाजलबन्धः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


पीठिका

कर्णाटकराज्यस्य हावेरीमण्डलस्य सवदत्ति उपमण्डलस्य मुनवळ्ळिग्रामस्य समीपे नविलुतीर्थम् इति स्थले मलप्रभानदीम् अवरुध्य रेणुकाजलबन्धः निर्मितः । अस्य जलबन्धस्य दैर्घ्यं १५४.५३मी. औन्नन्त्यं तु ४०.२३मी. स्तः । जलबन्धस्य जलसङ्ग्रहसामर्थ्यं ३०.२६घनमीटर् अस्ति ।

कुल्याः

मलप्रभानद्याः रेणुकाजलबन्धस्य वामतटीया १५०कि.मी. दीर्घा कुल्या ५३१३६हेक्टेर् कृषिभूमेः जलसेचनं करोति । उत्तरकर्णाटकस्य निर्माणाभियन्ता एस्.जि.बाळेकुन्द्रि महोदयस्य बहुमानार्थं अस्याः कुल्यायाः नाम बाळेकुन्द्रिकुल्या इत्येव अङ्कितम् । अस्य रेणुकाजलबन्धस्य दक्षिणतटकुल्या १४२कि.मी.दीर्घा १३९६९१हेक्टेर् कृषिभूमिं सफलां करोति । कर्णाटकस्य हुब्बळ्ळिधारवाड इति यमलनगरयोः पानजलप्रकल्पः इतः एव भवति ।

फलकम्:कर्णाटकस्य जलबन्धाः

"https://sa.bharatpedia.org/index.php?title=रेणुकाजलबन्धः&oldid=9860" इत्यस्माद् प्रतिप्राप्तम्