राहुल द्रविड

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox cricketer राहुल शरद द्राविड (जननम् - जनवरि २२, १९७३) भारतीयक्रिकेट् क्रीडापटुः एषः एकस्मिन् समये समूहस्य नायकः अपि आसीत् । मूलतः एषः मध्यप्रदेशीयः किन्तु पूर्णतया कन्नडीयः । टेस्ट्-क्रिकेट्मध्ये दशसहस्रात् अपि अधिक-रन् कृतवत्सु एषः तृतीयः भारतीयः । सचिन् तेण्डूल्कर, सुनिलगवास्कर च अन्यतमौ । २००७ तमस्य वर्षस्य फेब्रवरी-मासस्य २४ तमे दिनाङ्के प्रचलितायाम् अन्ताराष्ट्रियक्रीडायां दशसहस्रात् अधिक-रन् प्रान्तवत्सु अयं षष्टः । एषः २००५ तमस्य वर्षस्य अक्टोबर् मासे भारतीय-क्रिकेटगणस्य नायकस्थानं प्राप्तवान् । २००७ तमे वर्षे सप्टेम्बर् मासे तत् स्थानं त्यक्तवान् । ततः राहुल् द्राविड इदानीम् इण्डियन् प्रीमियर लीग इत्यस्मिन्, बेङ्गलूरु रायल् यालेञ्जरस् इति समूहे वर्षद्वयं “ऎकान् क्रीडापटुः” भूत्वा, इदानीं जैपुरक्षेत्रस्य समूहे क्रीडति । २००० तमे वर्षे “विसडन् क्रिकेटर्” इति गौरवं प्राप्तवान्, २००८ तमे वर्षे वर्षस्य ऎ. सि. सि. क्रिकेट पटुः, वर्षस्य टेस्ट् क्रीडापटुः इत्यपि पुरस्कारम् एषः प्राप्तवान् । राहुल् द्राविड टेस्ट क्रिकेट मध्ये अत्यधिकक्याचर (२२०) अस्ति । भारतस्य क्रिकेट् गणस्य क्रीडापटूषु एक: तथैव गणस्य भूतपूर्व: नायक: । राहु्ल द्राविड: भारतीय प्रीमियर् लीग, राय्ल चालेञ्जर्स् बेङ्गळूर् गणयो: नायक: तथा ’ऐकान् क्रीडापटु:’ च ।

बाल्यं तथा क्रिकेट् जीवनस्य प्रारम्भघट्टा:

राहु्ल शरद् द्राविड: जनवरी ११, १९७३ तम वषेर् जन्मं प्राप्तवान् । द्राविड: स्वस्य द्वादशम वयसि एव क्रिकेट् क्रीडितुम् आरम्भं कृतवान् तथा कर्नाटक राज्यस्य परतया अण्डर्- १५, अण्डर्- १७, अण्डर्- १९ समतलस्य गणेषु क्रीडितवान् । भूतपूर्व क्रिकेट् क्रीडापटु: केकी तारापोर: एतस्य प्रतिभां प्रथमम् अभिज्ञातवान् । द्राविड: स्वस्य शालायां प्रथम स्पर्धायाम् एव शतकं धावनं प्राप्तवान् । ब्याटि्टङ्ग् तथा विकेट् कीपिङ्ग् अपि एष: करोति स्म किन्तु भूतपूर्व क्रीडापटव: ये आसन् _ गुण्डप्प विश्वनाथ्, रोजर् बिन्नी, ब्रिजेश् पटे्ल तथा तारापोराना एतेषां सूचनानुसारं एष: विकेट् कीपिङ्ग् कार्यं त्यक्तवान् ।

वृत्तिजीवनम्

क्रिकेट्: १९९६ तमे वर्षत: भारत क्रिकेट् गणस्य सदस्य: राहु्ल द्राविड: दक्षिण हस्तस्य ब्याट्मान् । केकी तारापोरस्य समीपे अभ्यासं कृतवान् एष: ब्याटिङ्ग् विषये अत्युत्तम तान्त्रिकतायां प्रसिद्ध: । तीक्ष्णब्याटिङ्ग् कारणतया, क्रीडायां कदापि पराजयं न प्राप्नोति इत्यतः एतं प्रसारमाध्यमजना: ”दि वा्ल” इत्यपि वर्णयन्ति । इदानिमेव टेस्ट् क्रिकेट् इत्यस्य स्पर्धायां २५ शतकान् (माकिम् ५४मध्येेष: प्राप्तवान् अस्ति । एकदिनस्य अन्तराष्ठ्रीय स्पर्धासु एतस्य माकिम् ३९ (स्ट्रैक् रेट् -३९) । एष: तदा-तदा गणस्य कृते विकेट् कीपिङ्ग् अपि कुर्वन् भवति स्म ।

न केवलं भारत-कर्नाटकयो: कृते, द्राविड: केण्ट् तथा स्काट्लाण्ड् परतया अपि क्रीडितवानस्ति ।१९९६ तमे वषेर् भारतस्य इङ्ग्लेण्द् प्रवासे द्वितीय: टेस्ट् स्पर्धा एव एतस्य प्रथम टेस्ट् स्पधार्, इङ्ग्लेण्ड् देशस्य लार्ड् क्रीडाङ्गणे अभवत् । तस्मिन् वर्षे एव ’सिङ्गर् कप्’ इति सिङ्गपूर् मध्ये एक दिनस्य अन्ताराष्ट्रियस्पर्धायां श्रीलङ्काया: विरुद्धं क्रीडित्वा पादार्पणं कृतवान् ।

प्राप्तानि सम्माननानि

विस्डन् संस्थया एतं २००० तमे वर्षे, वर्षस्य क्रिकेट् क्रीडापटु: इति अयं सम्मानितः । २००४ तमे वर्षे भारतसर्वकारेण एतस्मैे पद्मश्री प्रश्स्तीं दत्त्वा सम्मानितम् । २००४तमे वर्षे सेप्टेम्बर् सप्तमदिनाङ्के एतस्य कृते ऐ.सि.सि.संस्था ”वर्षस्य क्रीडापटु:”, ”वर्षस्य अत्युत्तम टेस्ट् क्रीडापटु:” इत्यपि बिरुदम् अददात् । २००४ तमे वर्षे एष: भारतक्रिकेट्गणस्य उपनायक: आसीत् । यदा सौरव् गङ्गूली न भवति स्म, तदा भारतगणस्य नायकत्वं स्वीकरोति स्म । २००५ तमे वर्षे भारतस्य क्रिकेट्गणस्य नायकत्वं स्वीकृतवान् एष:, श्रीलङ्का विरुद्धस्पर्धायां जयं प्राप्य, दक्षिण-आफ़्रिका गणस्य विरुद्धं भारते यद् अभवत् तद् स्पर्धां २-२ कृत्वा ड्रा करणे यशस्वी अभवत् ।

"https://sa.bharatpedia.org/index.php?title=राहुल_द्रविड&oldid=7579" इत्यस्माद् प्रतिप्राप्तम्