राष्ट्रियभूभौतिकानुसन्धानसंस्था

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


राष्ट्रियभूभौतिकानुसन्धानसंस्था (National Geophysical Research Institute) वैज्ञानिक-औद्योगिकानुसन्धानपरिषदः सङ्घटकप्रयोगशाला वर्तते । पृथ्वीविज्ञानक्षेत्रे विविधेषु विषयेषु संशोधनानि कर्तव्यानि इति धिया इदं संस्थानं १९६१ तमे वर्षे संस्थापितम् । अत्र पञ्चशताधिकाः विज्ञानिनः तान्त्रिकसहायकाश्च कार्यरताः सन्ति येषु द्विशताधिकाः विज्ञाने कृतभूरिपरिश्रमाः येषां संशोधनप्रबन्धाः राष्ट्रियान्तराष्ट्रियासु पत्रिकासु प्रकाश्यन्ते ।

अनेन संस्थानेन भूकम्पः, भूपर्यावरणं, भूमेः अन्तारचना, भूभौतिकोपकरणानाम् अविषकारः, खनिजाविष्कारः, भूजलस्रोतसः आविष्कारः, हैड्रोकार्बन्-कोल्-आविष्कारः इत्यादिषु विषयेषु संशोधनानि क्रियन्ते ।

बाह्यसम्पर्कतन्तवः