रायल् ओरियण्ट् रैल्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


रायल् ओरियण्ट् रैल् (प्रवासी धूमशकटयान) भारतस्य विविधस्थलानां दर्शनार्थं विशेषतया व्यवस्थितं धूमशकटयानमिदम् । अस्मिन् धूमशकटयाने सुवातव्यवस्थायाः चतुर्दशनिकटनि सन्ति । तेषु विश्रामस्थानानि शयनप्रकोष्ठाः, वाचनालयः, सभाङ्गणं, दूरदर्शनम्, शितोदकोष्णोदकस्नानगृहाणि सङ्गीतव्यवस्था भोजनव्यवस्था इत्याद्याः विलाल्सव्यवस्थाः भवन्ति । एतत् धूमशकटयानं देहलीतः चित्तौड् उदयपुरं, जुनागड्, विरावल, सोमनाथः, सासनगिरम्, पालिटान् सर्केज् अहमदाबादनगरं जैपुरनगरं च नयति । वीक्षणार्थं समीचीनं मार्गदर्शनं कुर्वन्ति । प्रवासार्थं गुजरातप्रवासोद्यमसंस्थया सम्पर्कः करणीयः भवति । अस्य सम्पर्ककेन्द्रं देहलीनगरे अपि अस्ति ।

"https://sa.bharatpedia.org/index.php?title=रायल्_ओरियण्ट्_रैल्&oldid=4844" इत्यस्माद् प्रतिप्राप्तम्