रायगडमण्डलम्(महाराष्ट्रम्)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

रायगडमण्डलं (फलकम्:Lang-mr, फलकम्:Lang-en) महाराष्ट्रराज्यस्य कोङ्कणविभागे स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् अलिबाग् इति नगरम् । इदं मण्डलं समुद्रतटेभ्यः तत्र विद्यमानेभ्यः स्थलेभ्यश्च प्रसिद्धम् अस्ति ।

भौगोलिकम्

रायगडमण्डलस्य विस्तारः ७१४८ च.कि.मी. मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि पुणेमण्डलं, पश्चिमदिशि अरबीसागरः, उत्तरदिशि ठाणेमण्डलं, दक्षिणदिशि रत्नगिरिमण्डलम् अस्ति । अस्मिन् मण्डले ३८८४ मि.मी. मितः वार्षिकवृष्टिपातः भवति । मण्डलमिदं समुद्रतटे अस्ति अतः आर्द्रवातावरणं भवति । अस्मिन्मण्डले न्यूनतमं १६ अंश C मितम्, अधिकतमं ४० अंश C मितं तापमानं च भवति ।

कृषिः

तण्डुलः, रागिका, ‘वरी’, ‘कोद्रा’, माषः, 'तूर्', पूगीफलं(betel-nut), हरिद्रा, मरीचिका, इत्येतानि प्रमुखसस्योत्पादनानि मण्डलेऽस्मिन् उत्पाद्यन्ते । आम्र-कदली-नारिकेलफलानाम् उत्पादनमपि भवत्यत्र ।

जनसङ्ख्या

रायगडमण्डलस्य जनसङ्ख्या(२०११) २६,३४,२०० अस्ति । अस्मिन् ११,१७,६२८ पुरुषाः, १३,४४,३४५ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. ३६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ३६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.३६% आसीत् । अत्र पुं.-स्त्री अनुपातः १०००-९५५ अस्ति । अत्र साक्षरता ६०.४ % ।

उपमण्डलानि

अस्मिन् मण्डले पञ्चदश उपमण्डलानि सन्ति । तानि मण्डलानि प्रशासनसौकर्यार्थं ४ विभागेषु विभक्तानि -

१ 'अलिबाग्' - अलिबाग्, पेण, मुरूड २ 'पनवेल' - पनवेल, कर्जत, खालापूर, उरण ३ 'माणगाव' - माणगाव, सुधागड, रोहा, तळा ४ 'महाड' - महाड, श्रीवर्धन, म्हसाळा, पोलादपुर

लोकजीवनम्

६३.१७% जनाः ग्रामेषु, ३६.८३% जनाः नगरेषु च निवसन्ति । ग्रामीणभागे कृषिः, कृषिसम्बन्धितानि कार्याणि एव प्रमुखजीविकारूपेण सन्ति । नगरभागे उद्यमाः सन्ति । जनाः तेषु कार्यरताः । कोङ्कणविभागे स्थितमिदं मण्डलम् कोङ्कणीविशेषान् उद्वहति । जनानां लघुगृहाणि, तेषां विशिष्टा संस्कृतिश्च अत्रस्थ विशेषः ।


वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।

मराठासाम्राज्यस्य महान् राजा शिवाजी रायगडदुर्गं निर्मापितवान् । तस्य साम्राज्यस्य एषः मुख्यः दुर्गः आसीत् । इतः एव छत्रपतेः साम्राज्यस्य सञ्चालनं भवति स्म । अतः एषः दुर्गः राजधानीत्वेन आवासितः महाराजेन । अत्रैव महाराजस्य राज्याभिषेकसमारोहः अभवत् । एतस्मिन् दुर्गे महाराजस्य स्मारकं, गङ्गासागरतडागः, जगदीश्वरमन्दिरं च अस्ति ।

यदा 'सिद्दी'वंशीयराजानाम् आधिपत्यम् आसीत्, तदा तेषां साम्राज्यराजधानी आसीत् एषः दुर्गः । एषः जलदुर्गः । ३५० वर्षाणि यावत् एषः दुर्ग अजेयः आसीत् । अत्रस्थाः राजप्रासादाः, गह्वराः च वीक्षणीयस्थलानि ।

  • 'समुद्रतीराणि' ः

- माण्डवा - हरिहरेश्वरः - नागाव - काशीद

  • 'मन्दिराणि'

- बल्लाळेश्वरगणपतिमन्दिरम्, पाली - वरदविनायकगणपतिमन्दिरम्, महाड - बिरला-गणेशमन्दिरम्, अलिबाग - एलिफन्टा-गह्वराः - कनकेश्वरमन्दिरम् - शिवथरघळ

बाह्यसम्पर्कतन्तुः

फलकम्:Geographic location

फलकम्:महाराष्ट्रराज्यस्य मण्डलानि