रामनाथमिश्रः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox writer

रमानाथमिश्रस्य प्रतिभाया विकास उत्कलस्य विद्वन्मण्डितबालेश्वरनगरे सञ्जातः । एतस्मान्नगरान्नातिदूरे मणिखम्भनामके ग्रामेऽसौ १९०४ ख्रीष्टाब्दे जन्म लेभे। अनेनानेकरूपकाणि विरचितानि। तेषु चाणक्यविजयं, पुरातनवालेश्वरं, समाधानं, प्रायश्चित्तम्, आत्मविक्रयं, कर्मफलं श्रीरामविजयञ्चेति सुप्रसिद्धानि ।

चाणक्यविजयम्

चाणक्यविजयं कवेः श्रेष्ठं रूपकं मन्यते। अस्मिन् पञ्चाङ्काः विद्यन्ते । नाटकमिदं १९३८ ख्रीष्टाब्दे विरचितम् । अस्याभिनयोऽखिलभारतीयप्राच्य-सम्मेलनस्य विंशतमे अधिवेशने भुवनेश्वरे सञ्चातः ।

मुद्राराक्षसं नाम नाटकमस्य उपजीव्यमस्ति, तथापि कविनेदं विलक्षणप्रतिभाबलेन नूतनरूपपरिमण्डितं कृतम् । अस्मिन् रूपके नन्दवधस्य चन्द्रगुप्तराज्याभिषेकस्य च वर्णनमुपलभ्यते ।

श्रीरामविजयम्

श्रीरामविजये नाटके पञ्चाङ्काः सन्ति । रूपकेऽस्मिन् ताडकावधतो रावणवधपर्यन्तं कथास्ति ।

समाधानम्

समाधानं पञ्चस्वङ्केषु संविभक्तम् । रूपकेऽस्मिन् योरपीय-पद्धतिम् अनुसृत्य छात्राणां गन्धर्वरीत्या वैवाहिकसमस्यायाः समाधानं प्रस्तुतम् ।

सम्बद्धाः लेखाः

नाट्यशास्त्रम्

महाभारतम्

महाराणा प्रताप

संस्कृतम्

उद्धरणम्

फलकम्:Reflist

फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=रामनाथमिश्रः&oldid=6485" इत्यस्माद् प्रतिप्राप्तम्