रामनाथः कोविन्दः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Indian politician रामनाथः कोविन्दः भारतगणराज्यस्य चतुर्दशः राष्ट्रपतिः वर्तते, यः २५ जुलै २०१७[१] तः दायित्वम् अगृह्णात्। सः पूर्वं बिहारराज्यस्य राज्यपालपदे कार्यम् अकरोत्।[२][३] सश्च १९९४ तः २००६ पर्यन्तं राज्यसभायाः सदस्योऽपि आसीत्। राष्ट्रिय-जनतान्त्रिक-सन्धानेन (NDA) कोविन्दः राष्ट्रपतिपदस्य प्रत्याशित्वेन उद्घोषितः। ततः २०१७ तमवर्षे राष्ट्रपतिनिर्वाचने विजितः कोविन्दः राष्ट्रपतिः अभवत्। सः द्वितीयः 'आर्तः' (oppressed) राष्ट्रपतिः।[४] राजनीतौ सक्रियतायाः पूर्वं सः देहली-उच्चन्यायालये, १९९३ पर्यन्तं सर्वोच्चन्यायालये च षोडश वर्षाणि वाक्कीलः (अधिवक्ता) आसीत्।[५]

जन्म, कुटुम्बञ्च

कोविन्दस्य जन्म १९४५ तमवर्षस्य अक्तूबरमासस्य प्रथमे (१-१०-१९४५) दिनाङ्के उत्तरप्रदेशस्य कानपुरमण्डलस्य प्ररौंख-नामके ग्रामे अभवत्।[६][७] कोरि-जातीयः भूमिहीनः तस्य पिता मैकुलालः परिवारस्य साहाय्येन आपणं चालयति स्म। श्रीकोविन्दः पञ्चसु भ्रातृषु कनिष्ठतमः आसीत्, तस्य च द्वे भगिन्यौ आस्ताम्। तस्य जन्म मृत्कुटीरे जातः आसीत्, यत् कालान्तरे नष्टम् अभवत्। श्रीकोविन्दः यदा पञ्च वर्षीयः आसीत्, तदा तस्य गृहं केनापि अग्नौ समर्पितम्। तस्मिन् अग्निकाण्डे तस्य माता दिवङ्गता। पश्चात् श्रीकोविन्दः तां कुटीरभूमिं स्वसमुदायाय दानत्वेन प्रत्यार्पयत्।[८]

विवाहः

३० मई १९७४ दिनाङ्के श्रीकोविन्दस्य विवाहः सविता-नामिकया कन्यया सह जातः। तयोः प्रशान्तकुमार-नामकः पुत्रः, स्वाती-नाम्ना पुत्री चास्ति।[६]

शिक्षणम्

तस्य प्राथमिकशिक्षणे सम्पन्ने सति स माध्यमिकशिक्षणाय प्रतिदिनम् अष्टौ (८) किलोमीटर्परिमतं दूरं कानुपुरग्रामं पद्भ्यां गच्छति स्म। यतः ग्रामे कस्यापि पार्श्वे द्विचक्रिका नासीत्।[९] ततः सः DAV-महाविद्यालयात् वाणिज्य-विषयम् अधिकृत्य स्नातकोऽभवत्। तस्मात् महाविद्यालयादेव सः LLB अभवत्। (सः महाविद्यायः कानपुरविश्वविद्यालस्य अन्तर्भूतः आसीत्।)[१०][११][६] कानपुर-महाविद्यालयात् स्नातको भूत्वा श्रीकोविन्दः देहलीं शासकीयसेवायाः परीक्षायै सज्जतां कर्तुं गतः। तृतीये प्रयासे सः परीक्षाम् उत्तीर्णवान्। परन्तु तत्र न गतः। यतः तस्य चयनं भारतीय-प्रशासन-सेवायाः स्थाने तत्सम्बद्धायै सेवायै जातम् आसीत्। अतः सः अधिवक्तृत्वेन अभ्यासम् (practice) आरभत। [१२]

वृत्तिः

अधिवक्ता

१९७१ तमवर्षे देहल्याः विधिजीविवर्गेण (bar) सह श्रीकोविन्दस्य अधिवक्तृत्वेन पञ्जीकरणम् अभवत्। १९७७ तः १९७९ मध्ये तत्र सः केन्द्रीय-सर्वकारस्य अधिवक्ता आसीत्। १९७७, १९७८ च मध्ये सः तत्कालीनस्य प्रधानमन्त्रिणः मोरारजी देसाई-महोदयस्य व्यक्तिगतः सहायकोऽपि आसीत्।[१३] १९७८ तमवर्षे सः सर्वोच्चन्यायालयस्य advocate-on-record इत्यस्मिन् पदे आरूढः। १९८० तः १९९३ पर्यन्तं तस्मिन् पदे भूत्वा सः केन्द्रीयसर्वकाराय स्थायिवाक्कीलत्वेन सेवाम् अयच्छत्। १९९३ पर्यन्तं सः देहली-उच्चन्यायालये, सर्वोच्चन्यायालये च अभ्यासम् (practice) अकरोत्। वाक्कीलत्वेन सः आर्तवर्गेभ्यः, महिलाभ्यः, दीनेभ्यः च देहल्याः निःशुल्क-न्याय-संसाधन-समुदायस्य अन्तर्गततया निःशुल्कतया न्यायियकं साहाय्यम् अयच्छत्।[१०]

भाजपस्य सदस्यः

श्रीकोविन्दः १९९१ तमवर्षे भाजपेन सह सँल्लग्नः।[१३] सः १९९८ तः २००२ मध्ये भाजपस्य आर्त-मोर्चा-दलस्य अध्यक्षः आसीत्। सः अखिलभारतीय-कोरी-समाजस्य अध्यक्षोऽपि आसीत्। सः दलस्य राष्ट्रिय-प्रवक्ता आसीत्।[१४] सः डेरपुरे स्थितां स्वस्य पैतृकभूमिं राष्ट्रियस्वयंसेवकसङ्घाय दानत्वेन अयच्छत्।[१३] भाजपेन संलग्नोत्तरं शीघ्रमेव सः घटमपुरात् लोकसभायै प्रत्याशित्वेन चितः। परन्तु सः पराजितः। ततः सः भोगनिपुरात् (२००७) लोकसभायै प्रत्याशी अभवत्। परन्तु तत्रापि पुनः सः पराजितः।[१५]

१९९७ तमवर्षे कोविन्दः केन्द्रसर्वकारस्य केषाञ्चन आदेशानां विरुद्धम् आन्दोलने भागम् अवहत्। ते आदेशाः अनुसूचितजातेः, अनुसूचितजनजातेः च कर्मकरेषु विपरीतं प्रभावम् अजनयन्। पश्चात् अटलबिहारी वाजपेयी-महोदयस्य सर्वकारस्य कालखण्डे तेषाम् आदेशानां समाप्त्यै संविधाने त्रयः अध्यादेशाः तेन रचिताः।[१६]

राज्यसभा

१९९४ तमवर्षस्य अप्रैलमासे उत्तरप्रदेशराजात् श्रीकोविन्दः राज्यसभायाः सांसदोऽभवत्। मार्च २००६ पर्यन्तं सः द्वादशवर्षाणि अर्थात् सततं सत्रद्वयं तत्र सेवाम् अकरोत्। सांसदत्वेन सः संसदीय-समितौ अनुसूचित-जाति-जनजातेः कल्याणाय, गृहसम्बद्धकार्येभ्यः, तैलीय-प्राकृतिवायुभ्यां, सामाजिकन्याय-उत्कर्षाभ्यां, विधये, न्यायाय च सेवाम् अयच्छत्। सः राज्यसभायाः गृहसमितेः आध्यक्षत्वेनापि कार्यम् अकरोत्। सांसदत्वेन स्वस्य आजीविकायां सः संसत्स्थानीयक्षेत्रविकासयोजनायाः सदस्याः इत्यस्य अन्तर्गततया उत्तरप्रदेशे, उत्तराखण्डे च ग्रामीणक्षेत्रे शालानिर्माणाय बलपूर्वकं योदानम् अयच्छत्। सांसदत्वेन सः थाईलैण्ड, नेपाल, पाकिस्थानं, सिंगापुर, जर्मनी, स्वीत्झर्लैण्ड, फ्रान्स, युके, युएस इत्येतेषां देशानाम् अध्ययनयात्राः आकरोत्।[११]

अन्यानि दायित्वानि

अम्बेडकर-विश्वविद्यालयस्य प्रबन्धकमण्डलस्य, आईआईएम-कोलकाता-संस्थायाः सञ्चालमण्डलस्य च सदस्यत्वेन कार्यम् अकरोत्। अक्तूबर २००२ मध्ये सः संयुक्तराष्ट्रसङ्घस्य संयुक्तराष्ट्र-सामान्य-सभायाम् अपि भारतस्य प्रतिनिधित्वम् अकरोत्।[१७]

राज्यपालः

०८/०८/२०१५ दिनाङ्के भारतस्य राष्ट्रपतिः बिहारराज्यस्य राज्यपालत्वेन श्रीकोविन्दस्य नियुक्तिम् अकरोत्।[१८] १६/०८/२०१५ दिनाङ्के पटना-उच्चन्यायालयस्य कार्यकारि-मुख्यन्यायाधीशत्वेन कार्यरतः इकबाल एहमद अन्सारी इत्येषः बिहारराज्यस्य पञ्चत्रिंशत्तम-राज्यपालत्वेन कोविन्देन प्रतिज्ञां कारितवान्। सः प्रतिज्ञाकार्यक्रमः पटना-महानगरस्य राजभवने समायोजितः आसीत्।[१९]

श्रीकोविन्दस्य नियुक्तिविषये तत्कालीनेन मुख्यमन्त्रिणा नीतीशकुमारेण आरोचना कृता आसीत्। यतः एषः राज्य-विधानसभायाः निर्वाचनात् एकमासपूर्वं, राज्यस्य सर्वकारीय-समितेः परामर्शं विना च राज्यपालत्वेन नियुक्ततः जातः आसीत्।[२०] परन्तु श्रीकोविन्दस्य राज्यपालत्वेन कार्यकालः अयोग्यानां शिक्षकाणां पदोन्नत्याम् अनियमितायाः समीक्षायै, विश्वविद्यालयेषु[१३] अयोग्यप्रत्याशिनां नियुक्त्याम् अनियमितायै च न्यायिकसमितेः निर्माणाय प्रशंसनीयः आसीत्। जून २०१७ मध्ये यदा श्रीकोविन्दः राष्ट्रपतिनिर्वाचनस्य प्रत्याशित्वेन घोषितः, तदा नीतीशकुमारः श्रीकोविन्दस्य चयनम् समार्थयत्। सः प्रशंसां च कुर्वन् उक्तवान् यत्, राज्यपालत्वेन निष्पक्षतया, सामीप्येन च राज्यसर्वकारेण सह श्रीकोविन्दः कार्यं कृतवान् इति।[२१]

२०१७ राष्ट्रपतनिर्वाचनस्य अभियानम्

राष्ट्रपतेः प्रत्याशित्वेन घोषितः श्रीकोविन्दः बिहारराज्यस्य राज्यपालपदात् त्यागपत्रम् अयच्छत्, तच्च २० जून २०१७ दिनाङ्के तत्कालीनेन राष्ट्रपतिना प्रणब मुखर्जी-महाभागेन स्वीकृतम्।[२२] श्रीकोविन्दः २० जूलाई २०१७ दिनाङ्के निर्वाचने विजयं प्राप्तवान्।[२३]

राष्ट्रपतित्वेन

२५ जूलाई २०१७ दिनाङ्के भारतगणराज्यस्य चतुर्दशः राष्ट्रपतित्वेन श्रीकोविन्दः शपथम् अगृह्णात्।[२४]

राष्ट्रपतित्वेन यात्राः

देशः क्षेत्रयात्राः दिनाङ्काः कारणम् सन्दर्भाः
फलकम्:Flag जिबूटी-नगरम् ३-४ अक्तूबर राज्ययात्रा [२५][२६]
फलकम्:Flag असीत अबाबा ५-६ अक्तूबर राज्ययात्रा [२७][२८][२९]

विवादाः

२०१० मध्ये श्रीकोविन्दस्य विरुद्धम् आक्षेपः जातः आसीत्। सः उक्तवान् आसीत् यत्, इस्लाम, क्रिश्चानिटी च धर्मयोः अनुयायिनः वैदेशिकाः सन्ति इति। तस्मिन् समये सः भाजपस्य प्रवक्ता आसीत्। समाचारपत्रानुसारं सः रामनाथमिश्रसमित्यै प्रत्युत्तरं दातुम् उक्तं निवेदनं कृतवान् आसीत्। सा समितिः राज्यसर्वकारीयवृत्तिषु धार्मिकस्य, भाषाकीयस्य आरक्षणस्य च कृते १५ प्रतिशतानि आरक्षणस्य संस्तुतिम् अकरोत्। यद्यपि समनन्तरमेव वार्तावाहिनीषु समस्या इयं चर्चिता यत्, विरोधिनः तस्य वचनस्य दुस्सन्दर्भं तु न स्व्यकरोत्? यतः सः उक्तवान् आसीत् यत्, इस्लाम, क्रीश्चानीटी च उभौ धर्मौ (जातेः) विदेशिन्यौ स्तः इति धारणा अस्ति। परन्तु विरोधपक्षः तस्य विपरीतार्थम् अकरोत् इति।

फलकम्:भारतस्य राष्ट्रपतिक्रमः

फलकम्:भारतस्य राष्ट्रपतयः

सम्बद्धाः लेखाः

सन्दर्भाः

फलकम्:Reflist

"https://sa.bharatpedia.org/index.php?title=रामनाथः_कोविन्दः&oldid=3911" इत्यस्माद् प्रतिप्राप्तम्