रामकृष्ण हेगडे

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Indian politician

उत्तरकन्नडमण्डलस्य सिद्धपुरोपमण्डलस्य केन्द्रतः १७कि.मी दूरे विद्यमाने दोड्मने इति लघुग्रामात् देहली पर्यन्तं संवृद्धः माहानायकः रामकृष्णहेगडे महोदयः । राजकीयेऽपि सांस्कृतिकां गरिमां सङ्गृहीतवान् विशिष्टः राजकीयपटुः हेगडेमहोदयः । सर्वेषां वचांसि शृण्वन् अपि स्वान्तरङ्गस्य ध्वनिं श्रोतुं न विस्मरति स्म । तदृशः अतिविरलराजकीयपटुषु अन्यतमः रामकृष्णमहोदयः । सदा महत्स्वप्नं पश्यन् तस्य साकारार्थं सततप्रयत्नशीलः राजतन्त्रे यशः प्राप्नोत् ।

बाल्यं शिक्षा च

रामकृष्ण हेगडेमहोदयः पश्चिमपर्वतश्रेण्यां काननैः परिवृते ग्रामे विशिष्टसंस्कारयुक्ते हव्यकब्राह्मणकुटुम्बे क्रि.श. १९२७तमे वर्षे अगष्ट् २७दिनाङ्के महाबलेआश्वर हेग्डे सरस्वतम्मा दम्पत्योः पुत्रत्वेन जातः । तदा अस्य गृहे स्वातन्त्र्यस्य देशप्रेम्णः च वातारणम् आसीत् । ज्येष्टपितृव्यः कृष्ण हेगडे महोदयः स्वातन्त्र्यसङ्ग्रामे भागं वहन् रात्रिगोष्ठीं सञ्चालयति स्म । अनेन बालः रामकृष्णः प्रभावितः । नैके स्वातन्त्र्यप्रेमिणः अस्य गृहे वसन्ति स्म । आङ्ग्लाधिकारिणः प्रकरणम् आरोप्य यान् अन्वष्यन्ति स्म ते अस्य गृहे रहसि वसन्ति स्म । एतादृशे परिसरे अविभक्ते कुटुम्बे संवर्धितः रामकृष्ण हेगडे महोदयः सिद्धापुरे प्रौढशालाशिक्षां समापितवान् । शान्तस्वभावस्य उत्तमचिन्तनस्य बालकः रामकृष्णाः अग्रे पठितुम् आसक्तः चेदपि कौटुम्बिकोपजीविकार्थं पूगकृषिः अनिवार्या अभवत् । अतः पूर्णकालिकः कृषकः अभवत् । गान्धिमहात्मनः स्वातन्त्र्यसङ्ग्रामविषये श्रुतवान् रामकृष्णः तेन प्रभावितः टोपिकां धरति स्म । अक्कमहादेव्या विनोबा भावेमहोदयस्य परिचयः अभवत् । युवानः रामकृष्णस्य जीवने विनोबा भावे बहुधा प्रभावम् अकरोत् । मेट्रिक् पिपूसि परिक्षाम् समानकाले समाप्य बि.ए.समानां पदवी शास्त्री परीक्षाम् उत्तीर्णवान् । उन्नतविद्यां प्राप्तुं लखनौ नगरम् अगच्छत् । तत्र राज्यशास्त्रे स्नातकोत्तरपदवीम् अधुनिकन्यायशास्त्रपदवीं च प्राप्तवान् । अनन्तरं शकुन्तला नाम हव्यककन्यां परिणीतवान् । कुटुम्बजीवनस्य फलरूपेण पुत्रः पुत्र्यौ च सञ्जाताः । अस्य लखनौवासस्य अवसरे लालबहाद्दूरशास्त्रिमहोदयस्य राममोहन लोहियामहोदयस्य च परिचयः अभवत् । शिरसिनगरे न्यायवादिनः वृत्तिम् आरब्धवान् । दीनकृषिकानां परतया विना शुल्कं न्यायवादं कृतवान् ।

राजकीयजीवनम्

पञ्चवर्षानन्तरं क्रि.श.१९५४तमे वर्षे स्वमण्डले एव राजकीयरङ्गं प्राविशत् । काङ्ग्रेस् पक्षस्य मण्डलाध्यक्षः भूत्वा वर्षत्रयं सेवां कृतवान् । मण्डलस्य समग्राभिवृद्धये यतमानः रामकृष्णमहोदयः विख्यातः अभवत् । १९५४ तमे वर्षे सः काङ्ग्रेस्पक्षस्य मण्डलाध्यक्षरूपेण राजनैतिकक्षेत्रं प्राविशत् । १९५७ तमे वर्षे ऐदम्प्राथम्येन सः कर्णाटकविधानसभायाः सदस्यत्वेन चितः ।

फलकम्:कर्णाटकस्य मुख्यमन्त्रिणः

"https://sa.bharatpedia.org/index.php?title=रामकृष्ण_हेगडे&oldid=8763" इत्यस्माद् प्रतिप्राप्तम्