राफेल् नडाल्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox tennis biography

राफेल् नडाल् इति ख्यातः टेन्निस् क्रीडान्नुः १९८६ तमे वर्षे जून् त्रुतीय दिनाङ्के जन्म लेभे।सः स्पेन् देशस्य वृत्तिनिरतानां टेन्निस् क्रीडालूनां सङ्घद्वा जगतः द्वितीय श्रेयाङ्कितो वर्तते।सार्वकालिक श्रेष्ठक्रीडालुषु अन्यतमः एषः। मृदङ्कणे एतस्य यशस्विता एतस्मै "मृदङ्कणसार्वभौम" इति ख्यातिं आनयत्। अतः कृत्वैव एषः "सार्थकालिक श्रेष्ठमृदङ्कण क्रीडालुः" इति तत् क्षेत्रे श्रेष्ठः मन्यन्ते।

नडाल् एतावत् काल पर्यन्तं दश ग्राण्डस्लाम्स् जितवान् अस्ति। षड्वारं फ्रेञ्च क्रीडा सरणिं पारितोषिकम्,२००८ वर्षस्य ओलम्पिक्स् क्रीडोत्सवस्य टेन्निस् विभागस्य सुवर्णपदकम्,विक्रमः इति १९ वारं ए.टि.पि विश्तपर्यटकश्रेष्ठ सहस्रप्रश्स्तिसरणिषु अग्रः आसीत्। २००४,२००८,२००९ वर्षेषु च स्पैन् देशस्य डेविस् कप् प्रशस्ति भाजगणेपि एषः आसीत्। एषः २०१० वर्षस्य अमिरीका देशस्य टेन्निस् पारितोशकम् विजित्य तस्य जीवन श्रेष्ठ स्थाधनम् संसाध्य,जगतः तादृशेषु सप्त जनेषु अन्यतमः अभवत्। आण्ड्रे आगस्सी अनन्तरं एष एव क्रीडालुः यो चतुर्षुसु अपि स्पर्धासु जयं प्राप्य ओलिम्पिक्स् स्पर्धायां च सुवर्ण पदकं च जितवान् अस्ति।

नडाल् इत्येतस्य एषः विक्रमः यदेषः ३२ क्रीडा स्पर्धायां जितवानस्तीति। २००८ मास्टर्स् सरणिः हमबर्ग् इतः आरभ्य २००८ विस्टर्न् सदर्न फैनान्षियल् गृप् मास्टर्स् स्पर्धासरणि पर्यन्तम् एषः विजेता एवातिष्ठत्। एतद्सन्दर्भे एव एषः हमबर्ग्,फ्रेञ्च् मुक्त(यस्यम् एषः एकस्मिन्नपि सेट् मध्ये अपराजितः),क्वीन्स् क्लब्,प्रथमवारं विम्बल्डन्,रोजर्स् च एताः प्रषस्ती: अलभत।२०११ तमे वर्षे मान्टे कार्लो मास्टर्स् प्रशस्तिं विजित्य,एषः पुनः विक्रममेकं साधितवान्-यत् आजगति एषः एव एकस्याः सरण्याः स्प्तवारं नैरन्तर्येण जयसाधकः ए.टि.पि. स्तरे इति।

एषः विश्वस्य द्वितीयां श्रेणीं १६० सप्ताहा पर्यन्तम् प्राप्तवान् आसीत्। तदनन्तरम् एषः १८ आगस्ट् २००८ तः जुलै ५,२००९ पर्यन्तं जगतः प्रथमश्रेणीं अलङ्करोतिस्म। पुनः विश्व टेन्निस् सार्वभ्ॐअ पदं जून् १७,२०१० तः प्राप्तवान् फेञ्च् क्रीडा पारितोषिकं विजित्य।

बाल्यम्- एषः क्रीडालुः स्पेन् देशस्य मजोर्का प्रदेशस्य मनकोर् स्थाने जन्म अलभत। एतस्य पिता सेबास्टियन् नडाल् अस्ति यो सा पुण्टा नाम उपहारगृहं चालयन् वणिक् वर्तते,काचः तथा काचवातायन निर्माण संस्थां,च,चालायति,स्वकीयं विमा संस्थामपि चालयति। एतस्य माता अनामरिया परेरा इति। मरिया इसाबेल् इति एतस्य अनुजा। तस्य मातुलः मिर्गल् अञ्जेल् नडाल् भुतपूर्वं वृत्तिनरित पादकन्दुक क्रीडालुः भूत्व RCD Mallaroca,FC Barcelona कृते क्रीडितवान् आसीत्। सः स्पेन् राष्ट्रियगणेपि भूत्वा क्रीडाः क्रीडितवानआसीत्। नडाल् Real Madrid,RCD Mallorca क्रीडागणयोः च समर्थकः आसीत्। टेन्निस् क्रीडायां नडालस्य स्वाभाविकी सामर्थ्यञ्च दृष्ट्वा तस्यापरः मातुलः टोनी नडाल् पूर्वं वृत्तिपर टेन्निस् क्रीडालुः आसीत् सः तं टेन्निस् क्रीडायाः कृते परिचायितवान्।

यदा सः अष्टमे वयसि आसीत् तदा सः १२ वर्षेभ्योपि न्यूनवयस्कानां स्थानीय टेन्निस् क्रीडासरण्यां जयं प्राप्तवान्। तत् समये सः आशास्पद कुन्दुकक्रीडालुः इत्यपि रोहन्नासीत्। अतः टोनी नडाल् रफेल् नडाल् कृते प्रशिक्षणं अधिकं कृत्वा वामहस्तेन क्रीडितुं चोदितवान् यतोहि टेन्निस् क्रीडालुभ्यः प्राकृतिकं अनुकूल्यं भवतीति तथैव सः एतद् दृष्टवान् च यत् नडाल् पार्ष्णिमूल आधतं स्वस्य हस्तद्वयमपि उपयुज्य क्रीड्तिस्म इति। यदा रफेल् द्वादश वर्षीयः आसीत् सः स्पेन् देशस्य च यूरोप् टेन्निस् क्रीडोत्सवेषु स्वस्य वय़ोगुण सरणिषु पारितोषिकान् जितवान् असीत्। तत्सन्दभै सः सर्वदा टेन्निस् ,पादकन्दुकक्रीडां च खेलतिस्म। यदा नडाल्पित्रा सः पृष्टः यत् सः टेन्निस् क्रीडति वा पादकन्दुकमेव क्रीडति वेति तदा नडाल् अवदत् "अह्ं टेन्निस् क्रीडां चितवान्,तदैव पादकन्दुकक्रीडा साक्षात् स्थगिताएव अभवत्। तस्य शालाभ्यासः पूर्णतया क्षीणः न भवेदिति पुत्रा चिन्तितं सफलं जातम्" इति।

यदा सः १४ वर्षीयः जातः तदा स्पेन् देशस्य ट्न्निस् संस्था(स्पानिष टेन्निस् फेडरेषन्) तं मजोर्का स्थानं त्यवत्वा बार्सिलोना मधे अभ्यासं कुर्यात् इति प्रार्थितवती।परन्तु नडालस्य परिवार जानाः एतां प्रार्थ्अनां,तस्य अध्यासं बाधा भवेत् इति शङ्कया तिरस्कृतवन्तः। तस्य मातालोपि "स्वस्थाने एव भूत्वा श्रेष्ठ क्रीडालुः भवितुमर्हति। अमएरिका,अन्यप्रदेशं गत्वैव श्रेष्ठ क्रीडालुः भवति इति वादः निराधरः इत्यपि उक्तवान्। तेन स्वस्थाने एव अभ्यासकरणेन तस्याः संस्थातः अतिन्यूनवित्तीय सहकारः लभते स्म। किन्तु तस्य पित्रा एतत् परिहृतम्। यद्ध्नं तया संस्थया प्राप्तत्यमासीत् तद् सः स्वयमेव त्ययितवान्। २००९ वर्षस्य मे मासे भूतपूर्व ग्राण्डस्लाम् विजेतारं पयाट् क्याश् इति क्रीडालुः मृण्मय क्रीडाङ्गणे आहनरवेले एव पराजितवान्।

पञ्चदशे वर्षे सः "प्रो" जातः। तस्मिन् वयसि सः अन्ताराष्ट्रीय ट्न्निस् संस्यायाः कनीयसां स्पर्धाद्वये भागमूढवान्। २००२ तमे वषै षोडषवर्षीयः सः विम्बल्डन् मध्ये प्रचलितायां बालकानां व्यक्तिगत सरण्यां उपान्तिमस्तरं च प्रविष्टवानासीत्।

सप्तगश् वर्ष एव रोजर् फेडरर् उपरि (तयोर्मधे प्रथमवारं क्रीडाप्राचलत्) जयं स्म्पाध्य,बोरिस् बेकर् अनन्तरं वेम्बलडन् तृतीयं ध्यदृं प्रविष्टवति अति कनीयः क्रीडालुरभवत्। तस्य अष्टादशे वयसि स्पेन् देशः जूनियर् डेविस् कप् सरण्यां,अमेरिका देशगणस्य उपरि स्वस्य द्वितीयए,अन्तिमे च रवेले(डेविस् कप् सरण्याः ऐ.टि.पि. कनीयसां सरणिषु)जयं प्राप्तुं सहकारं दत्तवान्। नवदशे वर्षे,नडाल् तस्य प्रथमायां फ्रेञ्चमुक्त टेन्निस् स्पर्धायामेव जयं संप्राप्य विंशति वषैभ्यः न केनापि साधितं विक्रममसाध्यत्। रोलाण्ड मारोस् मध्ये एवमेव क्रीडन् चतुर्वारं तां प्रशस्तिं लब्धवान् सः। २००३ तमे वर्षे सः ऐ.टि.पि. वर्षस्यनूतनागन्तृषु श्रेष्ठः इति प्रशस्तिमभजत। जितानि सर्वामपि पुरस्कारवस्तूनि एषः सन्दस्य स्वाभ्यासं अनुवर्तितवान्।

टिप्पणी

फलकम्:Reflist

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=राफेल्_नडाल्&oldid=6921" इत्यस्माद् प्रतिप्राप्तम्