रानी रामपाल

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox sportsperson रानी रामपाल (जन्म : ४ दिसम्बर १९९४) भारतस्य काचित् हॉकी-क्रिडालुः । सा भारतीय-हॉकी-क्रीडायाः 'राज्ञी' मन्यते ।[१][२][३] २०१० तमस्य वर्षस्य विश्वचषके भागं गृहीतेषु भारतीय-हॉकी-क्रीडापटुषु सा कनिष्ठतमा आसीत् । तस्मिन् समये तस्याः आयुः १५ वर्षाणि आसीत् ।

जीवनं, परिवारश्च

सा हरियाणाराज्यस्य शाहबाद मारकण्डा-नगरे निवासति । रान्याः पिता आजीविकायै रथं चालयति ।[४] परिवारस्य भ्रातृभगिनीषु रानी कनिष्ठतमा वर्तते । रान्याः दौ अग्रजौ स्तः । तस्याः उपज्षेठभात्रा कुत्रचिद् आपणसहायकत्वेन कार्यं करोति । ज्येष्ठतमः भ्राता च लोहकारः अस्ति । स्वप्रदर्शनस्य बलेन रानी रेलवे-विभागे क्लर्क-पदं प्राप्तवती । एवं सा परिवारेण सह दलस्य अपि दायित्वं स्वीकृतवती ।[५]

वृत्तिः

रानी कदात् चतुर्भ्यः वर्षेभ्यः पूर्वं यदा सा चतुर्दशवर्षीया आसीत्, तदा प्रप्रथमम् अन्ताराष्ट्रियस्पर्धायां भागम् अवहत् । ततः २०१० तमे वर्षे पञ्चदशवर्षीया सा महिला-विश्व-चषकस्पर्धायां युवक्रीडालुः अभवत् ।[१] २००९ तमे वर्षे जम्बूद्वीपचषकस्पर्धायां भारतं होकी-क्रीडायां रजतपदकं प्रापत्, तस्यां स्पर्धायां तस्याः महत्त्वपूर्णं योगदानम् आसीत् । सा २०१० तमस्य वर्षस्य राष्ट्रमण्डलक्रीडायां, २०१० तमस्य वर्षस्य जम्बूद्वीपीयक्रीडायाः भागः आसीत् [३]

२०१३ तमे वर्षे कनिष्ठमहिला-हॉकी-दलं कांस्यपदकं प्रापत् । विश्वचषक-हॉकी-प्रतिस्पर्धायां तत् पदकं भारतं  ३८ वर्षेभ्यः अनन्तरं प्रापत् । तस्य विजयस्य श्रेयः रानी रामपाल, मनजित कौर इत्येताभ्यां गच्छति । सा सामान्यतः सेन्टर् फोर्वड्-स्थाने क्रीडति ।

उपलब्धयः

  • जूनियर-हॉकी-विश्व-कप २०१३ - प्लेयर ऑफ द टूर्नामेंट
  • २०१० तमे वर्षे १५ वर्षीया सा महिला-विश्व-चषके कनिष्ठतमा क्रीडालुः अभवत् ।
  • रॉजारियो (अर्जेंटीना) मध्ये महिला-हॉकी-विश्वचषके सा सप्तवारं 'गोल' कृत्वा सर्वश्रेष्ठयुव-फॉरवर्ड इति उपाधिं प्राप्तवती ।
  • कनिष्ठविश्वचषके ३८ वर्षेभ्यः अनन्तरं भारतस्य विजयकारणम् अभवत् सा ।
  • ‘यंग प्लेयर ऑफ द टूर्नामेंट’[६]

सन्दर्भ

"https://sa.bharatpedia.org/index.php?title=रानी_रामपाल&oldid=9009" इत्यस्माद् प्रतिप्राप्तम्