राणा भगवानदास

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox officeholder न्यायमूर्तिः (सेवानिवृत्तः) राणा भगवानदास (२० दिसम्बर १९४२ - २३ फरवरी २०१५), पाकिस्थानीयायाः न्यायपालिकायाः कश्चन उच्च-सम्मानितः जनः आसीत्, यः पाकिस्थानीय-सर्वोच्च-न्यायालयस्य न्यायधीशः, कार्यवाहक-मुख्य-न्यायधीशः च आसीत्। सः पाकिस्थाने २००७ वर्षस्य न्यायिकसङ्कटकाले, अल्प-समयस्य कृते पदारूढः इफ्तिखार-मोहम्मद-चौधरी-महोदयः २००५ एवञ्च २००६ विदेशयात्राम् आसीत्, तस्मिन् समये कार्यवाहक-मुख्य-न्यायाधीशस्य कार्यभारम् अवहत्।[१]एवं सः वारद्वयं प्रथमः हिन्दूः, द्वितीयः मुस्लिमभिन्नः च जनः आसीत्, यः पाकिस्थान-उच्चतम-न्यायालयस्य प्रमुख-कार्यभारी जातः।[२] भगवानदासः पाकिस्थानस्य सङ्घीय-लोक-सेवा-आयोगस्य अध्यक्षरूपेण अपि कार्यम् अकरोत्। २००९ मध्ये सः सङ्घीय-नागरिक-सेवायाः चयनाय पीठस्य मुख्यकर्ता आसीत्।

जीवनम्

भगवानदासस्य जन्म २० दिसम्बर १९४२ दिनाङ्के सिन्ध-प्रदेशस्य नसीराबाद-जनपदे जातः आसीत्। तस्य जन्म कराची-महानगरस्य हिन्दू-सिन्धी-परिवारे अभवत्। सः अधिवक्तुः अध्ययनं कृत्वा इस्लामी-अध्ययने अनुस्नातकः जातः।[२] २३ फरवरी २०१५ दिनाङ्के तस्य निधनम् अभवत्।[३]

कार्यवाहकः मुख्यः न्यायाधीशः

९ मार्च २००७ दिनाङ्के पाकिस्थानीयः राष्ट्रपतिः मुशर्रफ-महाशयः मुख्य-न्यायाधीशं पदच्युतम् अकरोत्।[४] ततः पाकिस्थानस्य सर्वोच्चन्यायिकपरिषद् (एसजेसी) तस्य विरुद्धम् आरोपान् निश्चितान् अकरोत्। अतः न्यायाधीशः भगवानदासः कार्यवाहकः मुख्यन्यायाधीशः अभवत्। परन्तु सः कानिचन दिनानि यावत् अज्ञातवासे निवस्य उक्तवान् यत्, सः हबारत-यात्रां गतवान् आसीत्। १५ मार्च २००७ दिनाङ्के तस्य तत्कालीन-निवासस्य घोषणायै पाकिस्थान-सर्वकारस्य आग्रहे सति उच्चतम-न्यायालये याचिका अभवत्।[५] सः २३ मार्च दिनाङ्के पुनः गृहम् अगच्छत्। सः पाकिस्थाने प्रचल्यमानानां घटनानां विषये परिचितः आसीत्। भारतात् प्रत्यागत्य सः कार्यवाहक-उच्चन्याधीषस्य पदं स्वीकृतवान्। तस्य कार्यकालः २४ मार्च तः २० जुलाई २००७ यावत् आसीत्। तावत् पर्यन्तं पाकिस्थानस्य उच्चतम-न्यायालयः इफतिखार-मुहम्मद-चौधरी-महोदयं पुनः पदारूढम् अकरोत्।[६]

सन्दर्भः

फलकम्:Reflist

"https://sa.bharatpedia.org/index.php?title=राणा_भगवानदास&oldid=6590" इत्यस्माद् प्रतिप्राप्तम्