राजविद्या राजगुह्यं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य द्वितीयः(२) श्लोकः ।

पदच्छेदः

राजविद्या राजगुह्यं पवित्रम् इदम् उत्तमम् प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् ॥ २ ॥

अन्वयः

इदं राजविद्या राजगुह्यं पवित्रम् उत्तमं प्रत्यक्षावगमं धर्म्यं कर्तुं सुसुखम् अव्ययम् ।

शब्दार्थः

इदम् = एतद् ज्ञानम्
राजविद्या = उत्तमविद्या
राजगुह्यम् = अतीव गोप्यम्
पवित्रम् = पावनम्
उत्तमम् = श्रेष्ठम्
प्रत्यक्षावगमम् = स्फुटबोधम्
धर्म्यम् = धर्मोपेतम्
कर्तुम् = आचरितुम्
सुसुखम् = अक्लिष्टम्
अव्ययम् = अविनाशि ।

अर्थः

उपासनसहितं यत् इदं ज्ञानमस्ति तत् विद्यासु श्रेम्, गोपनीयेषु अपि श्रें पावनं च । किञ्च अस्य प्रतीतिरपि स्फुटा भवति । तादृशमिदं सुखेन आचरणयोग्यम् अनश्वरं च ।

सम्बद्धसम्प्र्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=राजविद्या_राजगुह्यं...&oldid=556" इत्यस्माद् प्रतिप्राप्तम्