राजमहेन्द्री (नगरम्)

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

एतत् नगरम् आन्ध्रप्रदेशस्य प्रमुखं नगरम् अस्ति । ५२ शक्तिपीठेषु अन्यतमम् । चेन्नै हौराधूमशकटमार्गे स्थितं किञ्चन निस्थानमस्ति राजमहेन्द्री । गोदावरीनद्याः वामपार्श्वे स्थितं सुन्दरं प्रसिद्धं स्थलमेतत् । धूमशकटगमनार्थं रचिता बृहत्सेतुः ९००० पादपरिमितदीर्घा अस्ति । प्रति ४५ मीटर् अन्तरेण वक्रभित्तयः (तोरणानि) रचिताः सन्ति । भारते एव अतिदीर्घा सेतुः इति ख्याता अस्ति । नदीतीरे स्नानघट्टाः सन्ति । कोटिलिङ्गघाट् अतीव प्रसिद्धम् अस्ति । अत्र द्वादशवर्षेषु एकवारं गोदावरीपुष्कर 'स्नानोत्सवः भवति । तदा लक्षान्तरजनाः अत्र आगच्छन्ति । सेतुतः नदीदर्शनम् अतीवानन्दाय भवति । राजमहेन्द्रीनगरे प्रसन्नाञ्जनेयस्वामिदेवालयः वेणुगोपालदेवालयः मार्कण्डेश्वरदेवालयः च दर्शनीयाः सन्ति । नगरे वासः कर्तुं शक्यते ।

मार्गः

बेङ्गळूरुतः ८४० कि.मी । काकिनाडतः ५४ कि.मी । विजयवाडातः १५० कि.मी । विशाखापट्टाणतः २०० कि.मी

धूमशकटमार्गः

राजमहेन्द्रीनिस्थानम् अस्ति ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=राजमहेन्द्री_(नगरम्)&oldid=10050" इत्यस्माद् प्रतिप्राप्तम्