राजन्संस्मृत्य संस्मृत्य...
नेविगेशन पर जाएँ
खोज पर जाएँ
श्लोकः
- राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।
- केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ ७६ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षट्सप्ततितम(७६) श्लोकः ।
पदच्छेदः
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुम् केशवार्जुनयोः पुण्यं हृष्यामि च मुहुः मुहुः ॥
अन्वयः
राजन् ! अद्भुतं पुण्यं केशवार्जुनयोः इमं संवादं संस्मृत्य संस्मृत्य मुहुः मुहुः च हृष्यामि ।
शब्दार्थः
अद्भुतम् = आश्चर्यम्
- पुण्यम् = पापहरम्
- केशवार्जुनयोः = कृष्णार्जुनयोः
- संवादम् = संलापम्
- संस्मृत्य संस्मृत्य = पुनः पुनः स्मृत्वा
- मुहुः मुहुः = भूयो भूयः
- हृष्यामि = तुष्यामि ।
अर्थः
राजन्, धृतराष्ट्र ! आश्चर्यं पापहरं कृष्णार्जुनयोः एनम् संलापं पुनः पुनः स्मृत्वा भूयो भूयः च तुष्यामि।