रागद्वेषवियुक्तैस्तु...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement रागद्वेषवियुक्तैस्तु (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः प्रसादप्राप्तिम् (प्रसन्नतां) उपस्थापयति । पूर्वस्मिन् श्लोके मनुष्यः विषयाणां चिन्तनं कृत्वा क्रमेण रागी, कामी, क्रोधी, सम्मोही, स्मृतिविभ्रमी, नष्टबुद्धिः च भवति । सः क्रमः एव तस्य मनुष्यस्य पतनक्रमोऽपि सिद्ध्यति । तर्हि कीदृशः मनुष्यः प्रसादं प्राप्नोति इति अत्र विवृणोति । श्रीकृष्णः अर्जुनस्य चतुर्थस्य 'किं व्रजेत' इति प्रश्नस्य उत्तरम् एतस्मात् श्लोकात् आरभ्यः अध्यायान्तं यावत् कथयति ।

श्लोकः

गीतोपदेशः
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ ६४ ॥

पदच्छेदः

रागद्वेषवियुक्तैः, तु, विषयान्, इन्द्रियैः, चरन् । आत्मवश्यैः, विधेयात्मा, प्रसादम्, अधिगच्छति ॥

अन्वयः

विधेयात्मा तु रागद्वेषवियुक्तैः इन्द्रियैः आत्मवश्यैः विषयान् चरन् प्रसादम् अधिगच्छति ।

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
विधेयात्मा विधेयात्मन्-न.पुं.प्र.एक. वश्यमनस्कः
तु अव्ययम् -
रागद्वेषवियुक्तैः अ.नपुं.तृ.बहु. प्रीतिविरोधशून्यैः
आत्मवश्यैः अ.नपुं.तृ.बहु. स्वाधीनैः
इन्द्रियैः अ.नपुं.तृ.बहु. इन्द्रियैः
विषयान् अ.पुं.द्वि.बहु. शब्दादीन्
चरन् चरत्-त.पुं.प्र.एक. अनुभवन्
प्रसादम् अ.पुं.द्वि.एक. नैर्मल्यम्
अधिगच्छति अधि+√गम्लृ गतौ-पर.कर्तरि, लट्.प्रपु.एक प्राप्नोति ।

व्याकरणम्

सन्धिः

  1. रागद्वेषवियुक्तैस्तु = रागद्वेषवियुक्तैः + तु – विसर्गसन्धिः (सकारः)
  2. इन्द्रयैश्चरन् = इन्द्रियैः + चरन् – विसर्गसन्धिः (सकारः) श्चुत्वं च
  3. आत्मवश्यैर्विधेयात्मा = आत्मवश्यैः + विधेयात्मा ¬– विसर्गसन्धिः (रेफः)

समासः

  1. रागद्वेषवियुक्तैः = रागश्च द्वेषश्च रागद्वेषौ – द्वन्द्वः । रागद्वेषाभ्यां वियुक्ताः, तैः तृतीयातत्पुरुषः ।
  2. आत्मवश्यैः = आत्मनः वश्यानि, तैः षष्ठीतत्पुरुषः ।
  3. विधेयात्मा = विधेयः आत्मा यस्य सः – बहुव्रीहिः ।

कृदन्तः

  1. चरन् = चर + शतृ (कर्तरि)
  2. वियुक्तः = वि + युजिर् + क्त (कर्मणि)

अर्थः

वस्तुतः रागद्वेषपुरःसरा एव इन्द्रियाणां प्रवृत्तिः भवति । परन्तु यः मुमुक्षुः अस्ति सः ताभ्यां वियुक्तत्वात् स्ववशे वर्तमानैः श्रोत्रादिभिः इन्द्रियैः विषयान् उपसेवमानः प्रसन्नताम् अधिगच्छति ।

भावार्थः [१]

'तु' – अग्रिमे श्लोके भगवता पतनक्रमः उक्तः । अत्र च आसक्तेः अभावे उत्थानं भवति इति उपस्थापयति । तत्र बुद्धिनाशः उक्तः अत्र बुद्धेः परमात्मनि अवस्थितिं कथयति । एवम् अग्रे उक्तात् विषयात् सद्यः उपस्थाप्यमानः विषयः भिन्नः इति प्रदर्शयितुं 'तु' इत्यस्य पदस्य उपयोगः कृतः ।

'विधेयात्मा' – साधकस्य अन्तःकरणं तस्य वशे भवेत् । अन्तःकरणं वशे अकृत्वा कर्मयोगी सिद्धः न भवति, अपि तु विषयरागत्वात् पतनस्य सम्भावना भवति । वास्तव्येन अन्तःकरणं स्ववशे भवेत् इति सर्वेभ्यः साधकेभ्यः आवश्यकम् अस्ति, परन्तु कर्मयोगिभ्यः तु तस्य अधिकावश्यकता अस्ति ।

'आत्मवश्यैः रागद्वेषवियुक्तैः इन्द्रियैः' – यथा 'विधेयात्मा' इत्यस्य पदस्य अन्तःकरणं वशीकृतस्य मनुष्यस्य कृते उपयोगः अभवत्, तथैवात्र 'आत्मवश्यैः' इत्यस्य पदस्य उपयोगः वशेन्द्रियस्य कृते अभवत् । तात्पर्यम् अस्ति यत्, व्यवहारकाले इन्द्रियाणि स्ववशे स्युः । परन्तु वशेन्द्रियत्वं प्राप्तुम् इन्द्रियाणां रागद्वेषादिरहितत्वम् आवश्यकम् । अतः इन्द्रियैः रागपूर्वकं न कस्यापि विषयस्य स्वीकारः, द्वेषपूर्वकं न कस्यापि विषयस्य त्यागश्च भवेत् इति ध्यातव्यम् । यतः विषयत्यागस्य, विषयस्वीकारस्य च तावन्महत्त्वं नास्ति, यावन्महत्त्वं रागद्वेषयरहितत्वस्य प्राप्तेः अस्ति । अत एव तृतीयेऽध्याये भगवान् रागद्वेषौ साधकस्य शत्रुत्वेन परगणयति [२] । ततः पञ्चमेऽध्याये भगवान् रागद्वेषरहितं साधकं मुक्तत्वेन परिगणयति [३]

'विचारान् चरन्' – येनान्तःकरणं वशीकृतम् अस्ति तथा च यस्येन्द्रियाणि रागद्वेषरहिनानि सन्ति, सः साधकः विषयाणां सेवनं तु करोति, परन्तु तान् विषयान् न भुङ्क्ते । भोगबुद्ध्या कृतं विषयसेवनमेव पतनकारणम् । तादृशस्य भोगबुद्धेः निषेधं कर्तुम् अत्र 'विधेयात्मा', 'आत्मवश्यैः' इत्यादीनां पदानाम् उपयोगः कृतः ।

'प्रसादमधिगच्छति' – रागद्वेषरहितो भूत्वा विषयसेवकः साधकः अन्तःकरणस्य प्रसन्नतां (स्वच्छतां) प्राप्नोति । सा प्रसन्नता एव मानसिकतपः अस्ति [४] । तत् तपः शारीरिकवाचिकतपसोः अधिकं श्रेष्ठम् अस्ति । अतः साधकः न तु रागपूर्वकं विषयानां सेवनं कुर्यात्, नैव द्वेषपूर्वकं विषयानां त्यागः । यतः रागद्वेषौ मनुष्यस्य सम्बन्धः संसारेण सह योजयतः । रागद्वेषयोः रहितेन्द्रियेभ्यः विषयाणां सेवने कृते या प्रसन्नता भवति, तां प्रसन्नतां प्रति भोगाभावे, सङ्गरहितत्वे च सा प्रसन्नता परमात्मप्राप्तेः करणं भवति ।

शाङ्करभाष्यम् [५]

सर्वानर्थस्य मूलमुक्तं विषयाभिध्यानम्। अथेदानीं मोक्षकारणमिदमुच्यते - रागद्वेषेति ।

रागद्वेषवियुक्तैः  रागश्च द्वेषश्च रागद्वेषौ तत्पुरःसरा हि इन्द्रियाणां प्रवृत्तिः स्वाभाविकी तत्र यो मुमुक्षुः भवति सः ताभ्यां वियुक्तैः श्रोत्रादिभिः  इन्द्रियैः विषयान्  अवर्जनीयान्  चरन्  उपलभमानः आत्मवश्यैः  आत्मनः वश्यानि वशीभूतानि इन्द्रियाणि तैः आत्मवश्यैः  विधेयात्मा  इच्छातः विधेयः आत्मा अन्तःकरणं यस्य सः अयं  प्रसादम् अधिगच्छति । प्रसादः प्रसन्नता स्वास्थ्यम्।।

भाष्यार्थः

विषयचिन्तनं सर्वेषाम् अनर्थानां मूलत्वेन परिगणतिम् । अधुना तदेव मोक्षसाधनत्वेन प्रतिपादयति –

आसक्तिः, द्वेषश्च रागद्वेषः उच्यते । एतयोः कारणेनैव इन्द्रियाणां स्वाभाविकप्रवृत्तयः भवन्ति । परन्तु यः मुमुक्षुः स्वाधीनान्तःकरणी भवति । सः स्वाधीनान्तःकरणी मुमुक्षुः इच्छानुसारम् अन्तःकरणं वशीकरोति । तादृशः पुरुषः रागद्वेषरहितः सन् श्रोत्रादीन्द्रियैः अनिवार्यविषयाणामेव ग्रहणं कुर्वन् प्रसादं प्राप्नोति । प्रसन्नता, स्वास्थ्यं च प्रसादः उच्यते ।

रामानुजभाष्यम् [६]

उक्तेन प्रकारेण मयि सर्वेश्वरे चेतसः शुभाश्रयभूते न्यस्तमना निर्दग्धाशेषकल्मषतया  रागद्वेषवियुक्तैः आत्मवश्यैः इन्द्रियैः विषयान् चरन्  विषयान् तिरस्कृत्य वर्तमानो  विधेयात्मा  विधेयमनाः  प्रसादम् अधिगच्छति।  निर्मलान्तःकरणो भवति इत्यर्थः।

भाष्यार्थः

यः पूर्वोक्तविध्यनुसारं चित्तस्य शुभाश्रयरूपिणि मयि सर्वेश्वरे भगवति मनः निदधाति, तस्य समस्तपापानि पूर्णतया भस्मीभूतानि सन्ति सः रागद्वेषरहितः, स्ववशीभूतानाम् इन्द्रियाणां माध्यमेन विषयाणां सेवनं करोति । सः जितेन्द्रियः पुरुषः प्रसादं प्राप्नोति । अभिप्रायः अस्ति यद्, तस्य अन्तःकरणं निर्मलं भवति इति । फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. ३, श्लो. ३४
  3. गीता, अ. ५, श्लो. ३
  4. गीता, अ. १७/१६
  5. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  6. रामानुजभाष्यम्