रसोऽहमप्सु कौन्तेय...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य अष्टमः(८) श्लोकः ।

पदच्छेदः

रसः अहम् अप्सु कौन्तेय प्रभा अस्मि शशिसूर्ययोः प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥

अन्वयः

कौन्तेय ! अहम् अप्सु रसः, शशिसूर्ययोः प्रभा, सर्ववेदेषु प्रणवः, खे शब्दः, नृषु पौरुषम् अस्मि ।

शब्दार्थः

कौन्तेय = कुन्तीपुत्र !
अहम् अप्सु = अहम् उदके
रसः = माधुर्यरसः
शशिसूर्ययोः = चन्द्रार्कयोः
प्रभा= कान्तिः
सर्ववेदेषु = निखिलवेदेषु
प्रणवः = ओंकारः(ॐ)
खे = आकाशे
शब्दः = ध्वनिः
नृषु =मानवेषु
पौरुषम् = पुरुषत्वम्
अस्मि = भवामि ।

अर्थः

कौन्तेय ! अहम् उदकेषु माधुर्यम्, चन्द्रसूर्ययोः कान्तिः, सर्ववेदेषु ओंकारः, आकाशे ध्वनिः, मानवेषु पुरुषत्वं च अस्मि ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=रसोऽहमप्सु_कौन्तेय...&oldid=7726" इत्यस्माद् प्रतिप्राप्तम्