रत्नगिरिमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox settlement

रत्नगिरिमण्डलं (फलकम्:Lang-mr, फलकम्:Lang-en) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति रत्नागिरि इति नगरम् । अत्रस्थम् उष्ण-आर्द्रतायुक्तं वातावरणं फलोत्पादनाय अतीव उपयुक्तम् । अस्य मण्डलस्य ‘रत्नागिरी-हापुस’ इति आम्रप्रजातिः विश्वप्रसिद्धा ।

सुवर्णगडदुर्गः

भौगोलिकम्

रत्नगिरिमण्डलस्य विस्तारः ८,२०८ च.कि.मी.मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि सातारामण्डलं, साङ्गलीमण्डलं च, पश्चिमदिशि अरबीसमुद्रः, उत्तरदिशि रायगडमण्डलं, दक्षिणदिशि सिन्धुदुर्गमण्डलं च अस्ति । अत्र प्रवहन्त्यः मुख्याः नद्यः सन्ति - शास्त्री, बोर, मुचकुन्दी, काजळी, सावित्री, वासिष्ठी च । अस्मिन् मण्डले आर्द्रवातावरणं वर्तते । अत्र बहुवृष्टिपातः भवति ।


कृषिः

आम्रफलं, भल्लातकफलं, पनसफलं च अस्मिन् मण्डले उत्पाद्यते । तण्डुलः, रागिका, चणकं, माषः(black gram) च रत्नगिरिमण्डले उत्पाद्यमानानि कृष्युत्पादनानि सन्ति । मण्डलेऽस्मिन् ३०% अरण्यक्षेत्रम् अस्ति । अरण्ये वंशवृक्षाः, किकि(cocoa palm)-वरदारु(teak)-शिसव-ऐन-काष्ठप्रजातिवृक्षाश्च सन्ति ।

जनसङ्ख्या

रत्नगिरिमण्डलस्य जनसङ्ख्या (२०११) १६,१५,०६९ अस्ति । अत्र ७,६१,१२१ पुरुषाः, ८,५३,९४८ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. १९७ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. १९७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ४.८२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-११२२ अस्ति । अत्र साक्षरता ८२.१८ % अस्ति ।

लोकजीवनम्

  • वेशभूषा – वृद्धपुरुषाः वेष्टिं, गान्धि-टोपिकां च धरन्ति । महिलाः शाटिकां, कञ्चुकं च धरन्ति ।
  • अत्रस्थजनानाम् ओदनं, व्यञ्जनम्, मत्स्याः च मुख्याहारः अस्ति ।
  • ब्राह्मण, कुणबी-मराठा, वाणी, भण्डारी, हरिजनाः, मुस्लिमाः, क्रैस्ताः च अत्र निवसन्ति ।
  • कीर्तन-प्रवचन-दशावतारी खेळ-गोन्धळ इत्येताः लोककलाः अत्र दृश्यन्ते । गणेशोत्सवः, दीपावलिः अत्र आचर्यमाणाः प्रमुखोत्सवाः ।

उपमण्डलानि

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-

१ मण्डणगड
२ दापोली
३ खेड
४ चिपळूण
५ गुहागर
६ सङ्गमेश्वर
रत्नागिरि
८ लाञ्जा
९ राजापुर

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

१ अस्य मण्डलस्य केन्द्रं रत्नागिरि लोकमान्यटिळकवर्यस्य जन्मस्थानम् । सुव्यवस्थितं नगरमिदम् । लोकमान्यटिळकस्मारकं, 'सागरजीवसंशोधन संस्था', रत्नदुर्गः, ‘मिरे’ इत्यत्र नौनिर्माणोद्यमः, थिबा राजप्रासादः, गीताभवनं, दीपगृहं च अस्मिन्नगरे विद्यमानानि प्रेक्षणीयस्थानानि ।
२ मन्दिराणि : गणपतीपुळे, सङ्गमेश्वरः, पावस, मार्लेश्वरः, वेळणेश्वरः, हेदवी, राजापुर
३ गुहाः - सङ्गमेश्वरः, पन्हाळेकाजी
४ दुर्गाः - पूर्णगड, रत्नदुर्गः
५ सागरतीराणि : माण्डवी, केळशी, मुरूड, गुहागर, गणपतीपुळे, आञ्जर्ले, वेळणेश्वरः ।

बाह्यानुबन्धाः

फलकम्:Geographic location

फलकम्:महाराष्ट्रराज्यस्य मण्डलानि

"https://sa.bharatpedia.org/index.php?title=रत्नगिरिमण्डलम्&oldid=7077" इत्यस्माद् प्रतिप्राप्तम्