रजो रागात्मकं विद्धि...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
रजो रागात्मकं विद्धि तृष्णासङ्गसमुवम् ।
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदः

रजः रागात्मकं विद्धि तृष्णासङ्गसमुवम् तत् निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥

अन्वयः

कौन्तेय ! तृष्णासङ्गसमुवं रजः रागात्मकं विद्धि । तत् कर्मसङ्गेन देहिनम् निबध्नाति ।

शब्दार्थः

रागात्मकम् = कामस्वरूपम्
तृष्णासङ्गसमुवम् = अभिलाषासक्तिसमुत्पन्नम्
कर्मसङ्गेन = कर्मसम्बन्धेन
देहिनम् = आत्मानम् ।

अर्थः

अर्जुन ! अप्राप्ते वस्तुनि अभिलाषः तृष्णा, प्राप्ते वस्तुनि अभिलाषः सङ्गः । आभ्यां यो रागः सम्भवति तदात्मकः अयं रजोगुणः । अयं च आत्मानं कर्मसु प्रवर्तयति । प्रवृत्तश्च सः तत्र बद्धो भवति ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=रजो_रागात्मकं_विद्धि...&oldid=3644" इत्यस्माद् प्रतिप्राप्तम्