रघूत्तमतीर्थः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्रीरघूत्तमतीर्थश्रीपादः भारतीयः तत्त्वज्ञः यतिः च आसीत् | ते भावबोधाचार्यः इति नाम्ना अपि प्रसिद्धः आसन् | असौ द्वैततत्त्वप्रतिपादकः उत्तरादिमठसंस्थानस्य चतुर्दशतमः पीठाधिपतिः आसीत्| अनेन श्रीमन्मध्वाचार्यः श्रीजयतीर्थः आदिभिः विरचितानां ग्रन्थानां उपरि भाष्यानि लिकितानि |

श्रीरघूत्तमतीर्थश्रीपादः

जीवनकालम्

श्रीपादमहोदयस्य जन्म कर्णाटकप्रान्तस्य विजयपुरे मण्णूरु इति ग्रामे एकस्मिन् ब्राह्मणपरिवारे १५४८ तमे वर्षे अभवत् | तेषां माता गङ्गाबाई पिता ग्रामस्य भूमिपतिः सुब्बभट्टः च | बाल्ये रामचन्द्रः इति नाम आसीत् महोदयस्य | एकदा उत्तरादिमठसंस्थानस्य पीठाधिपतिः श्रीरघुवर्यतीर्थमहोदयः भिक्षाटनार्थं मण्णूरु ग्रामं आगच्छत् | सुब्बभट्ट-गङ्गाबाई दम्पतिः यादा पुत्रहीनः आसीत् तदा तौ श्रीरघुवर्यतीर्थमहोदयं पूजयित्वा एव असौ सुपुत्रं प्राप्तवन्तौ | एतदर्थं तं रामचन्द्रं श्रीरघुवर्यतीर्थमहोदयं समर्पयन्तः स्म | रघुवर्यतीर्थेन पालितः रामचन्द्रः यदा सप्तवर्षीयः आसीत् तदा उपनयनं कृत्वा सन्यासदीक्षां स्वीकृतवान् | सन्यासाश्रमं प्रविष्य तु महोदयः "रघूत्तमतीर्थः" इति नाम्ना ज्ञायते स्म | अस्मिन् काले महोदयेन श्रीमान् आद्यवरदाचार्यः नाम पण्डितस्य निदेशे उपनिशत् , वेदान्तः, न्यायसुधादि ग्रन्थाः प्राधिगताः |

१५५७ तमे वर्षे श्रीरघुवर्यतीर्थश्रीपादस्य विष्णुपादप्राप्तिरनन्तरं श्रीरघूत्तमतीर्थश्रीपादः उत्तरादिमठमहासंस्थानस्य पीठाधिपतेः रूपे कार्यं आरब्धवान् | अस्मिन् वेलायां संस्थाने आध्यात्मिकी तथा लोकायिका सम्पदं प्रभूत्प्रमाणे वर्धिता आसीत् | सर्वत्र स्र्वदा च महोदयस्य आदरं राजासन-मुकुट-पुंयान-छत्र-चामर-ध्वज-पुष्पैः सह कृतवत् आसीत् | श्रीपादमहोदयेन भक्तानां हिताय अनेके चमत्काराः कृताः |

३९ वर्षपर्यन्तं संस्थानस्य नेतृत्वं निर्वहन् श्रीरघूत्तमतीर्थश्रीपादः १५९५ तमे वर्षे स्वशिष्यं श्रीवेदव्यासतीर्थश्रीपादं प्रदाय पौषमासस्य शुक्लपक्षस्य एकादशिदिने बृन्दावनं प्रविष्टवान् | अद्यापि तमिळ्नाडुप्रान्तस्य तिरुकोविल्लूरु नगरेस्थः तेषां बृन्दावनं द्रष्टुं आराधयितुं च सहस्राः जनाः यान्ति |


कृतयः

कृतिनाम विषयम्
विष्नुतत्त्वनिर्णय भावबोध श्रीजयतीर्थविरचितविष्नुतत्त्वनिर्णयटीकायाः भाष्यं
तत्त्वप्रकाशिक भावबोध श्रीजयतीर्थविरचिततत्त्वप्रकाशिकायाः भाष्यं
न्यायविवरण भावबोध श्रीमन्मध्वाचार्यविरचितन्यायविवरणस्य भाष्यं
न्यारत्नसम्बन्धदीपिका अनुब्याख्यानम् अस्य भाष्यं
ब्रिहदारण्यक भावबोध श्रीमन्मध्वाचार्यविरचितब्रिहदारण्यकोपनिशदभाष्यं अस्य भाष्यं
गीताभाष्यभावबोध श्रीजयतीर्थविरचितगीताभाष्यप्रमेयदीपिका अस्य भाष्यं
विवरणोध्धार श्रीजयतीर्थविरचिततत्त्वप्रकाशिकायाः न्यायविवरण विषये लेखनम्
सन्यायविवृत्ति श्रीपद्मनाभतीर्थविरचितसन्यायरत्नावलिः अस्य भाष्यं
तैत्तरीयविनिर्णय श्रीमन्मध्वाचार्यविरचिततैत्तरीयोपनिशिदभाष्यम् अस्य भाष्यं
तारतम्य स्तोत्रम् स्तोत्रम्
"https://sa.bharatpedia.org/index.php?title=रघूत्तमतीर्थः&oldid=10422" इत्यस्माद् प्रतिप्राप्तम्