ये हि संस्पर्शजा भोगाः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
ये हि संस्पर्शजा भोगाः दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य द्वाविंशतितमः (२२) श्लोकः ।

पदच्छेदः

ये हि संस्पर्शजाः भोगाः दुःखयोनयः एव ते आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२ ॥

अन्वयः

कौन्तेय ! ये संस्पर्शजाः भोगाः ते आद्यन्तवन्तः दुःखयोनयः एव हि । बुधः तेषु न रमते ।

शब्दार्थः

कौन्तेय = हे अर्जुन !
ये हि = यस्मात् अमी
संस्पर्शजाः = विषयजन्याः
भोगाः = आनन्दाः (सन्ति)
ते = ते आनन्दाः
आद्यन्तवन्तः = उत्पत्तिविनाशसहिताः
दुःखयोनयः एव = विषादहेतवः एव
बुधः = पण्डितः
तेषु = भोगेषु
न रमते = न क्रीडति ।

अर्थः

कौन्तेय ! विषयजन्याः सर्वेऽपि भोगाः परिमिताः दुःखजनकाश्च भवन्ति । तस्मात् विद्वान् तेषु भोगेषु न रमते ।

शाङ्करदर्शनम्

इतश्च निवर्तयेत्-ये हि यस्मात्संस्पर्शजा विषयेन्द्रियसंस्पर्शेभ्यो जाता भोगा भुक्तयो दुःखयोनय एव तेऽविद्याकृतत्वात्। दृश्यन्ते ह्याध्यात्मिकादीनि दुःखानितन्निमित्तान्येव। यथेह लोके तथा परलोकेऽपीति गम्यत एवशब्दात्। न संसारे सुखस्य गन्धमात्रमप्यस्तीति बुद्ध्वा विषयमृगतृष्णिकाया इन्द्रियाणि निवर्तयेत्। नकेवलं दुःखयोनय आद्यन्तवन्तश्चादिर्विषयेन्द्रियसंयोगो भोगानामन्तश्च तद्वियोग एवात आद्यन्तवन्तोऽनित्या मध्यक्षणभावित्वादित्यर्थः। कौन्तेय, न तेषु रमते बुधोभोगेषु विवेक्यवगतपरमार्थतत्त्वोऽत्यन्तमूढानामेव हि विषयेषु रतिर्द्दश्यते यथा पशुप्रभृतीनाम् ।।22।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु