युधामन्युश्च विक्रान्त...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य षष्ठः (६) श्लोकः ।

पदच्छेदः

युधामन्युः, च, विक्रान्तः, उत्तमौजाः, च, वीर्यवान् । सौभद्रः, द्रौपदेयाः, च, सर्वे, एव, महारथाः ॥६॥

अन्वयः

च विक्रान्तः युधामन्युः च वीर्यवान् उत्तमौजाः सौभद्रः च द्रौपदेयाः सर्वे एव महारथाः ।

शब्दार्थः

च विक्रान्तः = पराक्रमशीलः
युधामन्युः च = युधामन्युः
वीर्यवान् = वीरः
उत्तमौजाः = बलवान्
सौभद्रः च = अभिमन्युः
द्रौपदेयाः = द्रौपद्याः पञ्च पुत्राः उपपाण्डवाः
सर्वे एव = सकलाः एव
महारथाः = महारथाः एव

अर्थः

अत्र पाण्डवसैन्ये युयुधानः विराटः इत्यादयः भीमा र्जुनसमाः शूराः सर्वे धनुर्धराः महारथाः एव सन्ति ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः