युञ्जन्नेवं सदात्मानं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ १५ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य पञ्चदशः(१५) श्लोकः।

पदच्छेदः

युञ्जन् एवं सदा आत्मानं योगी नियतमानसः शान्तिं निर्वाणपरमां मत्संस्थाम् अधिगच्छति ॥

अन्वयः

नियतमानसः योगी एवं सदा आत्मानं युञ्जन् निर्वाणपरमां मत्संस्थां शान्तिम् अधिगच्छति ।

शब्दार्थः

नियतमानसः = निगृहीतचित्तः
योगी = युक्तः
एवम् = इत्थम्
सदा = सर्वदा
आत्मानम् = स्वम्
युञ्जन् = योजयन्
निर्वाणपरमाम् = मोक्षाख्याम्
मत्संस्थाम् = मयि स्थिताम्
शान्तिम् = संसारोपरतिम्
अधिगच्छति = प्राप्नोति ।

अर्थः

अनेन प्रकारेण निगृहीतमानसः सन् यः आत्मानं ध्यायेत् सः आनन्दरूपं मयि स्थितं संसारनाशं प्राप्नोति ।

शाङ्करभाष्यम्

अथेदानीं योगफलमुच्यते-युञ्जन्निति। युञ्जन्समाधानं कुर्वन्नेवं यथोक्तेन विधानेन सदात्मानं योगी न्यतमानसो न्यतं संयतं मानसं मनो यस्य सोऽयं नियतमानसः स शान्तिमुपरतिं निर्वाणपरमां निर्वाणं मोक्षस्तत्परमा निष्ठा यस्याः शान्तेः सा निर्वाणपरमा तां निर्वाणपरमां मत्संस्थां मदधीनामधिगच्छति प्राप्नोति ।।15।।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः