युक्तः कर्मफलं त्यक्त्वा...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ १२ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य द्वादशः (१२) श्लोकः ।

पदच्छेदः

युक्तः कर्मफलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् अयुक्तः कामकारेण फले सक्तः निबध्यते ॥ १२ ॥

अन्वयः

युक्तः कर्मफलं त्यक्वा नैष्ठिकीं शान्तिम् आप्नोति । अयुक्तः कामकारेण फले सक्तः निबध्यते ।

शब्दार्थः

युक्तः = समाहितः
कर्मफलम् = कर्मणां प्रयोजनम्
त्यक्त्वा = परित्यज्य
नैष्ठिकीं शान्तिम् = मोक्षम्, (निष्ठा = स्वाभाविकी स्थितिः, तत्सम्बन्धिनीं शान्तिम्)
आप्नोति = विन्दते
अयुक्तः = असमाहितः
कामकारेण = इच्छावशात् प्रवृत्त्या
फले = प्रयोजने
सक्तः = सम्बद्धः
निबध्यते = बन्धं प्राप्नोति ।

अर्थः

ईश्वराय कर्माणि करोमि, न फलाय' इति भावयन् समाहितः कर्मफलानि त्यक्त्वा मोक्षं प्राप्नोति । यस्तु फलाकाङ्क्षी कर्मसु प्रवर्तते सः बद्धो भवति ।

शाङ्करभाष्यम्

यस्माच्च-युक्त ईश्वराय कर्माणि करोमि न मम फलायेत्येवं समाहितः सन्कर्मफलं त्यक्त्वा परित्यज्य शान्तिं मोक्षाख्यामाप्नोति नैष्ठिकिं निष्ठायां भवा सत्त्वशुद्धुज्ञानप्राप्तिसर्वकर्मसंन्यासज्ञाननिष्ठाक्रमेणेतिवाक्यशेषः। यस्तु पुनरयुक्तेऽसमाहितः कामकारेण करणं कारः कामस्य कारः कामकारस्तेन कामकारेण। कामप्रेरिततयेत्यर्थः। मम फलायेदं करोमि कर्मेत्येवं फले सक्तोनिबध्यतेऽतस्त्वं युक्तो भवेत्यर्थः ।।12।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु