यास्कः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox scholar

यास्काचार्यः कश्चन प्राचीनतमः भाषाविज्ञानिः आसीत् । एतस्य एव निरुक्तशास्त्रं प्रसिद्धं वर्तते ।

कालः

यास्कस्य कालस्थानयोः विषये विदुषां मतभेदो वर्तते । आधुनिकपाश्चात्यविदुषां मते यास्कस्य कालः प्रायः ईसापूर्व सप्तमशताब्दिः (7th BC)। यास्कः पाणिनेः प्राचीनः इत्यैतिहासिकानां मतम् । यास्कस्य निरुक्तस्यान्ते पारस्कर इति नाम विद्यते । तेन ज्ञायते यत् सः पारस्करदेशीय इति । अपि तस्य गोत्रनाम यास्कः इति तस्य निजनाम किमिति एतावत्पर्यन्तं न ज्ञायते । यास्कस्य ग्रन्थद्वयं विद्यते । निघण्टुः निरुक्तञ्चेति । निघण्टौ वैदिकशब्दानां सङ्ग्रहः वर्तते । यास्कादपि पूर्वं निघण्टुग्रन्थः आसीत् । तस्य परिष्कारः कृतः यास्केन । स्वपरिष्कृतनिघण्टुग्रन्थस्य भाष्यमेव निरुक्तम् ।

पाणिनेः अपि प्राचीनतरः यास्कः मन्यते। संस्कृतभाषायाः यो विकासो यास्कस्य निरुक्ते लभते, तत्पाणिनेः अष्टाध्याय्यां व्याख्यातरूपतः प्राचीनतरः अस्ति । महाभारतस्य शान्तिपर्वणः मोक्षधर्मपर्वण-नामकस्य उपपर्वणः अनुसारेण निघण्टोः कर्त्ता यास्को नाऽऽसीत् । अस्य रचयिता कोऽपि प्रजापतिः काश्यप अासीत् —

'वृषो हि भगवान् धर्मः ख्यातो लोकेषु भारत।

निघण्टुकपदाख्याने विद्धि मां वृषभुत्तमम्॥'

'कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते।

तस्माद् वृषाकपिं प्राह कश्यपो मां प्रजापतिः॥'[१]

तत्रैव निघण्टोः व्याख्याता यास्कः इति उल्लिखतं यत् -

लिपिविष्टेति चाख्यायां हीनरोमा च योऽभवत्।

तेनाविष्टं तु यत्किञ्चित् शिपिविष्टेति च स्मृतः ॥

यास्को मामृषिरव्यग्रोऽनेकयज्ञेषु गीतवान् ।

शिपिविष्ट इति ह्यस्माद् गुह्यनाम परोह्यहम् ॥

स्तुत्वा मां शिपिविष्टेति यास्कः ऋषिरुदारधीः।

मत्प्रसादादधोनष्टं निरुक्तमधिजग्मिवान् ॥'[२]

प्राप्तप्रमाणानाम् आधारेण निम्नतर्कैः विदुषः यास्कस्य कालनिर्धारणाय प्रयतन्ते।

(क) महाभारतस्य उपरिलिखितपद्यद्वयस्य उद्धरणात् ततः अर्वाचीनं महाभारतम्,

(ख) पाणिनिः स्वकीये ‘वासुदेवार्जुनाभ्यां वुन्' ४॥३॥९८ इत्यस्मिन् सूत्रे ‘कृष्णाऽर्जुनौ' स्मृतवानिति ततोऽयं प्राचीनः । पाणिनिः पाण्डुपुत्रादर्जुनात्परवर्त्ती मन्यते। पाण्डुपुत्राणां समयस्तु राजतरङ्गिण्याम् —

'शतेषु षट्सु साऽर्धेषु त्र्यधिकेषु च भूतले॥

कलेर्गतेषु वर्षाणामभवन् कुरुपाण्डवाः॥'

एवं ख्रीष्टपूर्वनवमशतकस्य पूर्वार्धे यास्कः अजायतेति मन्यते। 

बाह्यसम्पर्कतन्तुः

  1. महा. मो. प. अ. ३४२, श्लो. ८६-८७
  2. (म० भा० शा० प० श्लो० ६९-७१ )
"https://sa.bharatpedia.org/index.php?title=यास्कः&oldid=10218" इत्यस्माद् प्रतिप्राप्तम्