यावानलपिष्टम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
यावानलः
उत्तरकर्णाटकस्य भोजने यावानलपिष्टेन निर्मिता रोटिका

पिष्टं नाम आङ्ग्लभाषायां Powder अथवा Flour इति उच्यते । अयं यावानलः अपि भारते वर्धमानः कश्चन धान्यविशेषः । अयं यावानलः सस्यजन्यः आहारपदार्थः । अयं यावानलः आङ्ग्लभाषायां Great Millet अथवा maize इति उच्यते । हिन्दीभाषायां जुअर् इति, ल्याटिन्-भाषायां Gramineae इति च वदन्ति । अयं यावानलः तृणकुले Gramineae कुले अन्तर्भवति । अयं यावानलः तस्य वर्णस्य अनुगुणं द्विधा विभज्यते । श्वेतः यावानलः, रक्तः यावानलः च इति ।

कर्णाटकस्य उत्तरभागे तु यावानलः प्रतिदिनस्य आहारः । तत्र गोधूमस्य रोटिकां वा, तण्डुलस्य ओदनं वा न सेवन्ते । अपि तु प्रतिदिनं यावानलस्य पिष्टेन निर्मितां रोटिकाम् एव खादन्ति । जूर्णः, यवनालः, शिखरी, वृत्ततण्डुलः, दीर्घनालः, दीर्घशरः, क्षेत्रक्षुः, इक्षुपत्रकः, जूर्णाह्वा, योनला, युगन्धरा, यावनालः, देवधान्यं, मौक्तिकतण्डुलः इत्यादीनि यावानलस्य अन्यानि नामानि । अनेन यावानलेन पौलिं, लाजाः, रोटिकां, यवसक्तु च निर्मान्ति । यद्यपि यावानले विद्यमानाः एव गुणाः पिष्टे अपि भवन्ति तथापि पिष्टम् अत्यन्तं सूक्ष्मरूपम् इति कारणतः शरीरस्य सूक्ष्मान् अपि भागान् प्रविशति इति वदति आयुर्वेदशास्त्रम्

दृश्यताम्

अधिकविवरणार्थं यावानालः इति पृष्ठं द्रष्टव्यम् ।

"https://sa.bharatpedia.org/index.php?title=यावानलपिष्टम्&oldid=4639" इत्यस्माद् प्रतिप्राप्तम्