यावदेतान्निरीक्षेऽहं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ २२ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य द्वाविंशतितमः (२२) श्लोकः ।

पदच्छेदः

यावत्, एतान्, निरीक्षे, अहम्, योद्धुकामान्, अवस्थितान् । कैः, मया, सह, योद्धव्यम्, अस्मिन्, रणसमुद्यमे ॥

अन्वयः

यावत् अहम् अस्मिन् रणसमुद्यमे कैः मया सह योद्धव्यम् (इति ज्ञातुम्) अवस्थितान् एतान् योद्धुकामान् निरीक्षे ।

शब्दार्थः

यावत् = प्रथमम्
अहम् = अहम्
अस्मिन् = एतस्मिन्
रणसमुद्यमे = युद्धे
कैः सह = कैः साकम्
मया = मया
योद्धव्यम् = युद्धं कर्तव्यम् (इति ज्ञातुम्)
एतान् = इमान्
अवस्थितान् = स्थितान्
योद्धुकामान् = युयुत्सून्
निरीक्षे = अवलोकयामि ।

अर्थः

युद्धं कर्तुं के के उपस्थिताः सन्ति, अस्मिन् च युद्धे कैः कैः सह मया योद्धव्यम् इति अहं ज्ञातुं प्रथमं तान् द्रष्टम् इच्छामि । तस्मात् मम रथं तत्र स्थापय ।

बाह्यसम्पर्कतन्तुः

http://www.gitasupersite.iitk.ac.in

फलकम्:अर्जुनविषादयोगः

सम्बद्धाः लेखाः