यामिमां पुष्पितां वाचं…

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement यामिमां पुष्पितां वाचम् (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अव्यवसायिमनुष्याणां बुद्धयः किमर्थम् अनन्ताः इति बोधयति । पूर्वस्मिन् श्लोके व्यवसायात्मिकाव्यवसायात्मिकयोः बुद्ध्योः वर्णनं कृत्वा एतस्माच्च्छ्लोकाद् भगवान् अव्यवसायिनां मनुष्याणाम् अनन्ताः बुद्धयः कथं भवन्ति ? इत्यस्य वर्णनम् आरभते । एतस्य श्लोकस्य अन्वयः अग्रिमेण श्लोकेन सह अस्ति, अतः कामात्मानः स्वर्गपरा… इत्यस्मिन् श्लोके अर्थः अस्ति ।

श्लोकः

गीतोपदेशः
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः॥४२॥

पदच्छेदः

याम्, इमाम्, पुष्पिताम्, वाचम्, प्रवदन्ति, अविपश्चितः । वेदवादरताः, पार्थ, न, अन्यत्, अस्ति, इति, वादिनः ॥

अन्वयः

पार्थ! अविपश्चितः याम् इमां पुष्पितां वाचं प्रवदन्ति वेदवादरताः अन्यत् न अस्ति इति वादिनः ।

शब्दार्थः

अन्वयः विवरणम् सरलसंस्कृतम्
पार्थ अ.पुं.स्मबो.एक. हे पृथायाः पुत्र !
अविपश्चितः अविपश्चित्-त.पुं.प्र.बहु. अज्ञानिनः
याम् यद्-द.सर्व.स्त्री.द्वि.एक. याम्
इमाम् इदद्-द.सर्व.स्त्री.द्वि.एक. एनाम्
पुष्पिताम् आ.स्त्री.द्वि.एक. मनोरमाम्
वाचम् वाच्-च.स्त्री.द्वि.एक. वाचम्
प्रवदन्ति प्र+√वद व्यक्तायां वाचि-पर.कर्तरि, लट्.प्रपु.बहु. भणन्ति
वेदवादरताः अ.पुं.प्र.बहु. वेदस्य अर्थवादे रताः
अन्यत् अन्य.अ.सर्व.नपुं.प्र.एक. अपरम्
अव्ययम्
अस्ति √अस भूवि-पर.कर्तरि, लट्.प्रपु.एक. अस्ति
इति अव्ययम् इति
वादिनः वादिन्-न.पुं.प्र.बहु. वादिनः

व्याकरणम्

सन्धिः

  1. प्रवदन्त्यविपश्चितः = प्रवदन्ति + अविपश्चितः - यण्सन्धिः
  2. नान्यत् = न + अन्यत् - सवर्णदीर्घसन्धिः
  3. अन्यदस्ति = अन्यत् + अस्ति – जश्त्वसन्धिः
  4. अस्तीति = अस्ति + इति – सवर्णदीर्घसन्धिः

समासः

  1. अविपश्चितः = न विपश्चितः – नञ्तत्पुरुषः ।
  2. वेदवादरताः = वेदस्य वादाः वेदवादाः – षष्ठीतत्पुरुषः ।
  3. वेदवादेषु रताः – सप्तमीतत्पुरुषः ।

कृदन्तः

  1. वादिनः = वद् + णिनि (ताच्छीलिके कर्तरि)

शाङ्करभाष्यम् [१]

याम् इमां  वक्ष्यमाणां  पुष्पितां  पुष्पित इव वृक्षः शोभमानां श्रूयमाणरमणीयां  वाचं  वाक्यलक्षणां  प्रवदन्ति । के  अविपश्चितः  अमेधसः अविवेकिन इत्यर्थः।  वेदवादरताः  बह्वर्थवादफलसाधनप्रकाशकेषु वेदवाक्येषु रताः हे  पार्थ  न  अन्यत्  स्वर्गपश्वादिफलसाधनेभ्यः कर्मभ्यः  अस्ति इति  एवं  वादिनः  वदनशीलाः।।

भाष्यार्थः

येषां व्यवसायत्मिकाबुद्धिः नास्ति, ते –

अग्रे उच्यमानां, पुष्पितां (शोभायुक्तां), रमणीयां वाणीम् एव वदन्तः भवन्ति । तां पुष्पितां वाणीं के वदन्ति ? इति चेद्, अज्ञानिनः, अविवेकिनश्च । ते अर्थवादप्राधान्यानि, फलसाधनानां प्राकशकानि वेदवाक्यानि एव अङ्गीकुर्वन्ति । तेषु वेदवाक्येषु एव ते रताः भवन्ति । तथा च हे पार्थ ! स्वर्गप्राप्त्यादिफलस्य साधनरूपकर्मणः अतिरिक्तम् अन्यत् किमपि नास्ति इत्यपि ते अविवेकिनः वदन्ति ।

फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6