यद्यहङ्कारमाश्रित्य...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
यद्यहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ ५९ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवपञ्चाशत्तमः(५९) श्लोकः ।

पदच्छेदः

यदि अहङ्कारम् आश्रित्य न योत्स्य इति मन्यसे मिथ्या एष व्यवसायः ते प्रकृतिः त्वां नियोक्ष्यति ॥

अन्वयः

यदि अहङ्कारम् आश्रित्य न योत्स्ये इति मन्यसे (तर्हि) एषः ते व्यवसायः मिथ्या । प्रकृतिः त्वां नियोक्ष्यति।

शब्दार्थः

अहङ्कारम् = अहम्भावम्
आश्रित्य = स्वीकृत्य
योत्स्ये = युद्धं करिष्ये
मन्यसे = चिन्तयसि
व्यवसायः = निश्चयः
मिथ्या = विपरीतः
प्रकृतिः = क्षत्रियहेतुभूता प्रकृतिः
नियोक्ष्यति = अवश्यं प्रवर्तयति ।

अर्थः

यदि त्वम् अहङ्कारम् आश्रित्य अहं युद्धं न करोमि इति निर्णयसि तदापि तव निर्णयः निष्फलः भवति । यतः क्षत्रियत्वकारणीभूता या प्रकृतिः सा प्रवृद्धरजोगुणा सती त्वाम् अवश्यं युद्धे प्रवर्तयिष्यति । अतः पूर्वमेव मदुक्तस्य अनुसरणं तव अत्यन्तं श्रेयस्करम् ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=यद्यहङ्कारमाश्रित्य...&oldid=4003" इत्यस्माद् प्रतिप्राप्तम्