यद्यदाचरति श्रेष्ठः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement यद्यदाचरति श्रेष्ठः (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः श्रेष्ठपुरुषाणाम् आचरणं प्रमाणीकरोति । पूर्वस्मिन् श्लोके भगवान् जनकसदृशानाम् उदाहरणेन निःस्वार्थकर्मणः औचित्यम् अवदत् । श्लोकेऽस्मिन् सः महापुरुषाणाम् आचरणं जनसामान्येभ्यः अनुसरणीयं, प्रमाणं च परिगणयति । सः कथयति यद्, श्रेष्ठमनुष्यः यथा आचरणं करोति, तथैव अन्ये सामान्यमनुष्याः अनुसरन्ति । ते यत्किमपि प्रमाणीकुर्वन्ति, तदेव अन्येभ्यः मनुष्येभ्यः आचरणयोग्यं भवति इति ।

श्लोकः

गीतोपदेशः
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥

पदच्छेदः

यत् यत् आचरति श्रेष्ठः तत् तत् एव इतरः जनः सः यत् प्रमाणं कुरुते लोकः तत् अनुवर्तते ॥ २१ ॥

अन्वयः

श्रेष्ठः यत् यत् आचरति (तेन) इतरः जनः तत् तत् एव आचरति । सः यत् प्रमाणं कुरुते लोकः तत् अनुवर्तते ।

शब्दार्थः

अन्वयः सरलसंस्कृतम्
श्रेष्ठः प्रशस्तः
यत् यत् यत् कर्म
आचरति करोति
इतरः जनः अन्यः पुरुषः
तत् तत् एव तत् कर्म एव (आचरति)
सः श्रेष्ठः
यत् यत्
प्रमाणम् प्रमितिसाधनम्
कुरुते अङ्गीकरोति
लोकः जनः
तत् तदेव प्रमितिसाधनम्
अनुवर्तते अनुसरति ।

व्याकरणम्

सन्धिः

  1. यद्यदाचरति = यत् + यत् + आचरति – जश्त्वसन्धिः
  2. श्रेष्ठस्तत् = विसर्गसन्धिः (सकारः)
  3. तदेव = तत् + एव – जश्त्वसन्धिः
  4. एवेतरो जनः = एव + इतरः – गुणसन्धिः
    1. इतरः + जनः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  5. स यत् = सः + यत् – विसर्गसन्धिः (लोपः)
  6. लोकस्तदनुवर्तते = लोकः + तदनुवर्तते – विसर्गसन्धिः (सकारः)
    1. तत् + अनुवर्तते – जश्त्वसन्धिः

कृदन्तः

  1. प्रमाणम् = प्र + मा + ल्युट् (करणे), प्रमीयते (ज्ञायते) अनेन इति प्रमाणम्
  2. श्रेष्ठः = प्रशस्य + इष्ठन् (अतिशये), श्र इति आदेशः

अर्थः

श्रेष्ठः पुरुषः यथा आचरति इतरे साधारणाः जनाः तथैव आचरन्ति । सः यत् प्रमाणत्वेन स्वीकरोति इतरेऽपि तदेव प्रमाणत्वेन स्वीकुर्वन्ति ।

भावार्थः

'यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः' – संसारम्, आत्मानं च यः तत्त्वतः जानाति, सः श्रेष्ठपुरुषः उच्यते । अर्थात् शरीरादिपदार्थेभ्यः अहं भिन्नः इति यस्य ज्ञानं, सः पुरुषः श्रेष्ठः । तस्य कश्चन स्वाभाविकः अनुभवो भवति यद्, शरीरेन्द्रयिमनोबुद्धिधनकुटुम्बसम्पत्त्यादयः पदार्थाः संसारस्य सन्ति । ते सत्पुरुषाः त्याग-वैराग्य-प्रेम-ज्ञान-सद्गुणान् अपि स्वस्य न मन्वते । यतो हि तेन व्यक्तित्वं पुष्टं भवति, येन तत्त्वप्राप्तौ बाधा उत्पद्यते । श्रेष्ठपुरुषे व्यष्ट्यहङ्कारः तु किञ्चिदपि न भवति । तथा च समष्ट्यहङ्कारोऽपि व्यावहारं यावत् सीमितः भवति । किञ्च अङ्कारोऽपि संसारस्य एव अस्ति [१] [२] । ते श्रेष्ठपुरुषाः द्विधा विभक्ताः । प्रथमं तु अवधुकोटौ, अपरञ्च आचारकोटौ । अवधुतकोटौ विद्यमानाः श्रेष्ठाः अवधुतेभ्यः एव आदर्शाः भवन्ति । परन्तु आचार्यकोटौ अन्तर्भूताः आचार्याः जनसामान्येभ्यः आदर्शाः सिध्यन्ति । अत्र आचार्यकोटौ विद्यमानानां श्रेष्ठानां चर्चा अस्ति । तेषाम् आचरणं सर्वदा शास्त्रमर्यादायां भवति । वने विकसितं पुष्पं कोऽपि न पश्यति, कालान्तरे च तत्पुष्पं जीर्णं भूत्वा भूमौ पतति । तथापि तत् पुष्पं स्वभावानुगुणं दुर्गन्धस्य नाशं कृत्वा सुगन्धं प्रसारयति । तथैव श्रेष्ठपुरुषाणां विचारधारां कोऽपि अवगच्छति उत न, परन्तु ते स्वस्य कर्तव्यपालनपूर्वकं लोकहिताय कार्यं कुर्वन्तः एव भवन्ति । तस्मात् तैः स्वतः एव सेवाकार्यं भवति । यतो हि तेषां व्यक्तित्वात् अहङ्कारः दूर्यभवत् ।

शरीरे विद्यमानानि सर्वाणि अङ्गानि भिन्नेषु सत्सु अपि यथा एकमेव अस्ति, तथैव संसारे विद्यमानाः सर्वेऽपि प्राणिनः भिन्नेषु सत्सु अपि एकमेव अस्ति । यथा रोगमुक्तस्य शरीराङ्गस्य कारणेन सम्पूर्णं शरीरं सुखि भवति, तथैव प्राणिमात्रस्य दुःखहरणाय आचरितस्य कर्तव्यपालनस्य प्रभावेण सम्पूर्णस्य संसारस्य दुःखपरिहारः शक्यते । श्रेष्ठपुरुषाणाम् आचरणस्य प्रभावः स्थूलतया भवति, परन्तु तेषां भावानां प्रभावः सूक्ष्मतया भवति । तौ प्रभावौ क्रमेण सीमितः, असीमितश्च भवतः । यतो हि क्रिया सीमिता भवति, भावश्च असीमितः । यद्यपि श्रेष्ठपुरुषाः स्वस्मै किमपि नाचरन्ति, तेषु कर्तृत्वाभिमानमपि न भवति, तथापि सर्वेषां दृष्ट्या कर्तव्यपालनं कुर्वाणाः ते सिध्यन्ति । अत एव अत्र 'आचरति' इत्यस्य पदस्य उपयोगः कृतः । यद्यपि श्रेष्ठपुरुषाणां कृते किमपि कर्तव्यकर्म नावशिष्यते [३], तेषु कर्तृत्वाभिमानम् अपि न भवति [४], तथापि ते स्वाभाविकतया कर्तव्यपालनेन लोकसङ्ग्रहं कुर्वन्ति ।

'स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते' – यस्य अन्तःकरणे कामना-ममका-आसक्ति-स्वार्थ-पक्षपातादयः दोषाः न सन्ति, तादृशेन मनुष्येण उक्तानां वचनानां प्रभावः अपरेषु स्वतः एव भवति । तस्मात् प्रेरितः सामान्यजनः स्वतः तस्य अनुसरणम् आरभते ।

शाङ्करभाष्यम्

लोकसंग्रहं कः कर्तुमर्हति कथं चेत्युच्यते-यद्यदिति। यद्यत् कर्माचरति येषु येषु श्रेष्ठः प्रधानभूतस्तत्तदेवकर्माचरतीतरोऽन्यो जनस्तदनुगतः। किंच श्रेष्ठो यत्प्रमाणं कुरुते लौकिकं वैदिकं वा लोकस्तदनुवर्तते तदेव प्रमाणीकरोतीत्यर्थः।।21।।

फलकम्:गीताश्लोकक्रमः

फलकम्:कर्मयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. गीता, अ. ७, श्लो. ४
  2. गीता, अ. १३, श्लो. ५
  3. तस्य कार्यं न विद्यते, गीता, अ. ३, श्लो. १७
  4. निर्ममो निरहङ्कारः, गीता, अ. २, श्लो, ७१
"https://sa.bharatpedia.org/index.php?title=यद्यदाचरति_श्रेष्ठः...&oldid=6198" इत्यस्माद् प्रतिप्राप्तम्