यदक्षरं वेदविदो वदन्ति...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

गीतोपदेशः
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य एकादशः(११) श्लोकः ।

पदच्छेदः

यत् अक्षरं वेदविदः वदन्ति विशन्ति यत् यतयः वीतरागाः यत् इच्छन्तः ब्रह्मचर्यं चरन्ति तत् ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥

अन्वयः

वेदविदः यत् अक्षरं वदन्ति, वीतरागाः यतयः यत् विशन्ति, यत् इच्छन्तः ब्रह्मचर्यं चरन्ति तत् पदं ते सङ्ग्रहेण प्रवक्ष्ये ।

शब्दार्थः

वेदविदः = वेदज्ञाः
यत् = यद्वस्तु
अक्षरम् = अविनाशि
वदन्ति = कथयन्ति
वीतरागाः =नष्टाभिलाषाः
यतयः = संन्यासिनः
यत् विशन्ति = यत् प्रविशन्ति
यत् = यद्वस्तु
इच्छन्तः = अभिलषन्तः
ब्रह्मचर्यम् = ब्रह्मचर्यव्रतम्
चरन्ति = आचरन्ति
तत् पदम् = तत् स्थानम्
ते = तुभ्यम्
सङ्ग्रहेण = सङ्क्षेपेण
प्रवक्ष्ये = वदिष्यामि ।

अर्थः

वेदज्ञाः यत् वस्तु अविनाशि इति वदन्ति, वीतरागाः सन्न्यासिनः यत् प्रविशन्ति, पुरुषाश्च यत् वस्तु अभिलषन्तः ब्रह्मचर्यव्रतम् आचरन्ति तत् प्रसिद्धं स्थानं तुभ्यं संक्षेपेण वदिष्यामि ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः