यथैधांसि समिद्धोऽग्निः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥

अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य सप्तत्रिंशत्तमः (३७) श्लोकः ।

पदच्छेदः

यथा एधांसि समिद्धः अग्निः भस्मसात् कुरुते अर्जुन ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥ ३७ ॥

अन्वयः

अर्जुन ! यथा समिद्धः अग्निः एधांसि भस्मसात् कुरुते तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते ।

शब्दार्थः

अर्जुन = अर्जुन !
यथा = येन प्रकारेण
समिद्धः = सन्दीप्तः
अग्निः = वह्निः
एधांसि = कानि
भस्मसात् = भस्ममयानि
कुरुते = करोति
तथा = तेन प्रकारेण
ज्ञानाग्निः = ज्ञानरूपः अग्निः
सर्वकर्माणि = निखिलकर्माणि
भस्मसात् = भस्ममयानि
कुरुते = विदधाति ।

अर्थः

अर्जुन ! यथा प्रज्वलन् अग्निः काष्ठानि भस्मसात् करोति तथा ज्ञानाग्निः सर्वाण्यपि कर्माणि भस्मीकरोति ।

शाङ्करभाष्यम्

ज्ञानं कथं नाशयति पापमिति सदृष्टान्तमुच्यते-यथेति। यथैधांसि काष्ठानि समिद्धः सम्यगिद्धो दीप्तोऽग्निर्भस्मसाद्भस्मीभावं कुरुतेऽर्जुन एवं ज्ञानमेवाग्निर्ज्ञानाग्निः ।

फलकम्:गीताश्लोकक्रमः

फलकम्:ज्ञानकर्मसंन्यासयोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु